तदानीमेतौ विश्ववैश्वानरौ दिग्वातार्कवरुणाश्विभिः
क्रमान्नियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन
क्रमाच्च्हब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः
क्रमान्नियन्त्रितेन वागादीन्द्रियपञ्चकेन
क्रमाद्वचनादानगमनविसर्गानन्दांश्चन्द्रचतुर्मुखशङ्कराच्युतैः
क्रमान्नियन्त्रितेन मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरेन्द्रियचतुष्केण
क्रमात्सङ्कल्पनिश्चयाहङ्कार्यचैत्तांश्च सर्वानेतान्
स्थूलविषयाननुभवतः " जागरितस्थानो बहिःप्रज्ञः "( माण्डू उ ३)
इत्यादिश्रुतेः
In plain words
Viśva and Vaiśvānara experience gross objects through the five senses, five organs of action and fourfold inner instrument under their presiding deities; scripture calls the waking experiencer outwardly conscious.