आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्य
मण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव
तथाज्ञानं परिच्च्हिन्नमप्यात्मानमपरिच्च्हिन्नमसंसारिण
मवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् ।
तदुक्तं " घनच्च्हन्नदृष्टिर्घनच्च्हन्नमर्कं यथा
मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ' इति (हस्तामलकम् १० । )
In plain words
The concealing power is the capacity by which ignorance, though limited, seems to hide the unlimited, non-transmigrating Self from the perceiver's intellect, as a small cloud seems to hide the vast sun.