Contents
Aruṇaramaṇālaya
The works of Ramaṇa Maharṣi
Realm
Read
Kept
Search
Settings
←
Leave
Upadeśa Sāram
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
1
कर्तुः आज्ञया प्राप्यते फलम्
कर्म किं परं कर्म तत्जडम्
2
कृति महा उदधौ पतनकारणम्
फलम् अशाश्वतं गतिनिरोधकम्
3
ईश्वर अर्पितं न इच्छया कृतम्
चित्तशोधकं मुक्तिसाधकम्
4
कायवाङ्मनः कार्यम्उत्तमम्
पूजनम् जपः चिन्तनम् क्रमात्
5
जगतः ईशधी युक्तसेवनम्
अष्टमूर्तिभृत् देवपूजनम्
6
उत्तमस्तवात् उच्च मन्दतः
चित्तजम् जपध्यानम्उत्तमम्
7
आज्यधारया स्रोतसा समम्
सरलचिन्तनम् विरलतः परम्
8
भेदभावनात् सोऽहम् इति असौ
भावना अभिदा पावनी मता
9
भावशून्य सद्भाव सुस्थितिः
भावनाबलात् भक्तिः उत्तमा
10
हृत्स्थले मनः स्वस्थता क्रिया
भक्ति योग बोधाःच निश्चितम्
11
वायुरोधनात् लीयते मनः
जालपक्षिवत् रोधसाधनम्
12
चित्तवायवः चित्क्रियायुताः
शाखयोः द्वयी शक्तिमूलका
13
लयविनाशने उभयरोधने
लयगतम् पुनः भवति नो मृतम्
14
प्राणबन्धनात् लीनमानसम्
एकचिन्तनात् नाशम् एति अदः
15
नष्टमानस उत्कृष्टयोगिनः
कृत्यम् अस्ति किम् स्वस्थितेः यतः
16
दृश्यवारितम् चित्तम्आत्मनः
चित्त्वदर्शनम् तत्त्वदर्शनम्
17
मानसम् तु किम् मार्गणे कृते
नैव मानसम् मार्गः आर्जवात्
18
वृत्तयः तु अहंवृत्तिम् आश्रिताः
वृत्तयः मनः विद्धि अहम् मनः
19
अहम् अयं कुतो भवति चिन्वतः
अयि पतति अहं निजविचारणम्
20
अहमि नाशभाजि अहम् अहंतया
स्फुरति हृत्स्वयं परमपूर्णसत्
21
इदम् अहम् पदाभिख्यम् अन्वहम्
अहमि लीनके अपि अलयसत्तया
22
विग्रह इन्द्रिय प्राण धी तमः
न अहम् एकसत् तत् जडम् हि असत्
23
सत्त्वभासिका चित् क्व वा इतरा
सत्तया हि चित् चित्तया हि अहम्
24
ईशजीवयोः वेष धी भिदा
सत्स्वभावतः वस्तुकेवलम्
25
वेषहानतः स्वात्मदर्शनम्
ईशदर्शनम् स्वात्मरूपतः
26
आत्मसंस्थितिः स्वात्मदर्शनम्
आत्मनिर्द्वयात् आत्मनिष्ठता
27
ज्ञानवर्जिता अज्ञानहीन चित्
ज्ञानम् अस्ति किम् ज्ञातुम् अन्तरम्
28
किम् स्वरूपम् इति आत्मदर्शने
अव्ययाभवा पूर्णचित्सुखम्
29
बन्धमुक्त्यतीतम् परम् सुखम्
विन्दति इह जीवः तु दैविकः
30
अहम् अपेतकं निजविभानकम्
महत्इदं तपो रमणवाक्इयम्