Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Sāṅkhyayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
तं
तथा
कृपयाऽऽविष्टम्
अश्रुपूर्णाकुलेक्षणम्
विषीदन्तमिदं
वाक्यमुवाच
मधुसूदनः
2
▾
Meaning
Keep
कुतस्त्वा
कश्मलमिदं
विषमे
समुपस्थितम्
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
3
▾
Meaning
Keep
क्लैब्यं
मा
स्म
गमः
पार्थ
नैतत्
त्वय्युपपद्यते
क्षुद्रं
हृदयदौर्बल्यं
त्यक्त्वोत्तिष्ठ
परन्तप
4
▾
Meaning
Keep
कथं
भीष्ममहं
सङ्ख्ये
द्रोणं
च
मधुसूदन
इषुभिः
प्रतियोत्स्यामि
पूजार्हावरिसूदन
5
▾
Meaning
Keep
गुरूनहत्वा
हि
महानुभावान्
श्रेयो
भोक्तुं
भैक्ष्यमपीह
लोके
हत्वाऽर्थकामांस्तु
गुरूनिहैव
भुञ्जीय
भोगान्
रुधिरप्रदिग्धान्
6
▾
Meaning
Keep
न
चैतद्
विद्मः
कतरन्नो
गरीयो
यद्
वा
जयेम
यदि
वा
नो
जयेयुः
यानेव
हत्वा
न
जिजीविषामः
तेऽवस्थिताः
प्रमुखे
धार्तराष्ट्राः
7
▾
Meaning
Keep
कार्पण्यदोषोपहतस्वभावः
पृच्छामि
त्वां
धर्मसम्मूढचेताः
यच्छ्रेयः
स्यान्निश्चितं
ब्रूहि
तन्मे
शिष्यस्तेऽहं
शाधि
मां
त्वां
प्रपन्नम्
8
▾
Meaning
Keep
न
हि
प्रपश्यामि
ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम्
अवाप्य
भूमावसपत्नमृद्धं
राज्यं
सुराणामपि
चाऽऽधिपत्यम्
9
▾
Meaning
Keep
एवमुक्त्वा
हृषीकेशं
गुडाकेशः
परन्तपः
न
योत्स्य
इति
गोविन्दमुक्त्वा
तूष्णीं
बभूव
ह
10
▾
Meaning
Keep
तमुवाच
हृषीकेशः
प्रहसन्निव
भारत
सेनयोरुभयोर्मध्ये
विषीदन्तमिदं
वचः
11
▾
Meaning
Keep
अशोच्यानन्वशोचस्त्वं
प्रज्ञावादांश्च
भाषसे
गतासूनगतासूंश्च
नानुशोचन्ति
पण्डिताः
12
▾
Meaning
Keep
न
त्वेवाहं
जातु
नाऽऽसं
न
त्वं
नेमे
जनाधिपाः
न
चैव
न
भविष्यामः
सर्वे
वयमतः
परम्
13
▾
Meaning
Keep
देहिनोऽस्मिन्
यथा
देहे
कौमारं
यौवनं
जरा
तथा
देहान्तरप्राप्तिर्धीरस्तत्र
न
मुह्यति
14
▾
Meaning
Keep
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत
15
▾
Meaning
Keep
यं
हि
न
व्यथयन्त्येते
पुरुषं
पुरुषर्षभ
समदुःखसुखं
धीरं
सोऽमृतत्वाय
कल्पते
16
▾
Meaning
Keep
नासतो
विद्यते
भावो
नाभावो
विद्यते
सतः
उभयोरपि
दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
17
▾
Meaning
Keep
अविनाशि
तु
तद्विद्धि
येन
सर्वमिदं
ततम्
विनाशमव्ययस्यास्य
न
कश्चित्
कर्तुमर्हति
18
▾
Meaning
Keep
अन्तवन्त
इमे
देहा
नित्यस्योक्ताः
शरीरिणः
अनाशिनोऽप्रमेयस्य
तस्माद्
युध्यस्व
भारत
19
▾
Meaning
Keep
य
एनं
वेत्ति
हन्तारं
यश्चैनं
मन्यते
हतम्
उभौ
तौ
न
विजानीतो
नायं
हन्ति
न
हन्यते
20
▾
Meaning
Keep
न
जायते
म्रियते
वा
कदाचित्
नायं
भूत्वा
भविता
वा
न
भूयः
अजो
नित्यः
शाश्वतोऽयं
पुराणो
न
हन्यते
हन्यमाने
शरीरे
21
▾
Meaning
Keep
वेदाविनाशिनं
नित्यं
य
एनमजमव्ययम्
कथं
स
पुरुषः
पार्थ
कं
घातयति
हन्ति
कम्
22
▾
Meaning
Keep
वासांसि
जीर्णानि
यथा
विहाय
नवानि
गृह्णाति
नरोऽपराणि
तथा
शरीराणि
विहाय
जीर्णानि
अन्यानि
संयाति
नवानि
देही
23
▾
Meaning
Keep
नैनं
छिन्दन्ति
शस्त्राणि
नैनं
दहति
पावकः
न
चैनं
क्लेदयन्त्यापो
न
शोषयति
मारुतः
24
▾
Meaning
Keep
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव
च
नित्यः
सर्वगतः
स्थाणुरचलोऽयं
सनातनः
25
▾
Meaning
Keep
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं
विदित्वैनं
नानुशोचितुमर्हसि
26
▾
Meaning
Keep
अथ
चैनं
नित्यजातं
नित्यं
वा
मन्यसे
मृतम्
तथाऽपि
त्वं
महाबाहो
नैवं
शोचितुमर्हसि
27
▾
Meaning
Keep
जातस्य
हि
ध्रुवो
मृत्युर्ध्रुवं
जन्म
मृतस्य
च
तस्मादपरिहार्येऽर्थे
न
त्वं
शोचितुमर्हसि
28
▾
Meaning
Keep
अव्यक्तादीनि
भूतानि
व्यक्तमध्यानि
भारत
अव्यक्तनिधनान्येव
तत्र
का
परिदेवना
29
▾
Meaning
Keep
आश्चर्यवत्
पश्यति
कश्चिदेनम्
आश्चर्यवद्वदति
तथैव
चान्यः
आश्चर्यवच्चैनमन्यः
शृणोति
श्रुत्वाऽप्येनं
वेद
न
चैव
कश्चित्
30
▾
Meaning
Keep
देही
नित्यमवध्योऽयं
देहे
सर्वस्य
भारत
तस्मात्
सर्वाणि
भूतानि
न
त्वं
शोचितुमर्हसि
31
▾
Meaning
Keep
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते
32
▾
Meaning
Keep
यदृच्छया
चोपपन्नं
स्वर्गद्वारमपावृतम्
सुखिनः
क्षत्रियाः
पार्थ
लभन्ते
युद्धमीदृशम्
33
▾
Meaning
Keep
अथ
चेत्त्वमिमं
धर्म्यं
सङ्ग्रामं
न
करिष्यसि
ततः
स्वधर्मं
कीर्तिं
च
हित्वा
पापमवाप्स्यसि
34
▾
Meaning
Keep
अकीर्तिं
चापि
भूतानि
कथयिष्यन्ति
तेऽव्ययाम्
सम्भावितस्य
चाकीर्तिर्मरणादतिरिच्यते
35
▾
Meaning
Keep
भयाद्
रणादुपरतं
मंस्यन्ते
त्वां
महारथाः
येषां
च
त्वं
बहुमतो
भूत्वा
यास्यसि
लाघवम्
36
▾
Meaning
Keep
अवाच्यवादांश्च
बहून्
वदिष्यन्ति
तवाहिताः
निन्दन्तस्तव
सामर्थ्यं
ततो
दुःखतरं
नु
किम्
37
▾
Meaning
Keep
हतो
वा
प्राप्स्यसि
स्वर्गं
जित्वा
वा
भोक्ष्यसे
महीम्
तस्मादुत्तिष्ठ
कौन्तेय
युद्धाय
कृतनिश्चयः
38
▾
Meaning
Keep
सुखदुःखे
समे
कृत्वा
लाभालाभौ
जयाजयौ
ततो
युद्धाय
युज्यस्व
नैवं
पापमवाप्स्यसि
39
▾
Meaning
Keep
एषा
तेऽभिहिता
साङ्ख्ये
बुद्धिर्योगे
त्विमां
शृणु
बुद्ध्या
युक्तो
यया
पार्थ
कर्मबन्धं
प्रहास्यसि
40
▾
Meaning
Keep
नेहाभिक्रमनाशोऽस्ति
प्रत्यवायो
न
विद्यते
स्वल्पमप्यस्य
धर्मस्य
त्रायते
महतो
भयात्
41
▾
Meaning
Keep
व्यवसायात्मिका
बुद्धिरेकेह
कुरुनन्दन
बहुशाखा
ह्यनन्ताश्च
बुद्धयोऽव्यवसायिनाम्
42
▾
Meaning
Keep
यामिमां
पुष्पितां
वाचं
प्रवदन्त्यविपश्चितः
वेदवादरताः
पार्थ
नान्यदस्तीति
वादिनः
43
▾
Meaning
Keep
कामात्मानः
स्वर्गपरा
जन्मकर्मफलप्रदाम्
क्रियाविशेषबहुलां
भोगैश्वर्यगतिं
प्रति
44
▾
Meaning
Keep
भोगैश्वर्यप्रसक्तानां
तयाऽपहृतचेतसाम्
व्यवसायात्मिका
बुद्धिः
समाधौ
न
विधीयते
45
▾
Meaning
Keep
त्रैगुण्यविषया
वेदा
निस्त्रैगुण्यो
भवार्जुन
निर्द्वन्द्वो
नित्यसत्त्वस्थो
निर्योगक्षेम
आत्मवान्
46
▾
Meaning
Keep
यावानर्थ
उदपाने
सर्वतः
सम्प्लुतोदके
तावान्
सर्वेषु
वेदेषु
ब्राह्मणस्य
विजानतः
47
▾
Meaning
Keep
कर्मण्येवाधिकारस्ते
मा
फलेषु
कदाचन
मा
कर्मफलहेतुर्भूर्मा
ते
सङ्गोऽस्त्वकर्मणि
48
▾
Meaning
Keep
योगस्थः
कुरु
कर्माणि
सङ्गं
त्यक्त्वा
धनञ्जय
सिद्ध्यसिद्ध्योः
समो
भूत्वा
समत्वं
योग
उच्यते
49
▾
Meaning
Keep
दूरेण
ह्यवरं
कर्म
बुद्धियोगाद्
धनञ्जय
बुद्धौ
शरणमन्विच्छ
कृपणाः
फलहेतवः
50
▾
Meaning
Keep
बुद्धियुक्तो
जहातीह
उभे
सुकृतदुष्कृते
तस्माद्
योगाय
युज्यस्व
योगः
कर्मसु
कौशलम्
51
▾
Meaning
Keep
कर्मजं
बुद्धियुक्ता
हि
फलं
त्यक्त्वा
मनीषिणः
जन्मबन्धविनिर्मुक्ताः
पदं
गच्छन्त्यनामयम्
52
▾
Meaning
Keep
यदा
ते
मोहकलिलं
बुद्धिर्व्यतितरिष्यति
तदा
गन्तासि
निर्वेदं
श्रोतव्यस्य
श्रुतस्य
च
53
▾
Meaning
Keep
श्रुतिविप्रतिपन्ना
ते
यदा
स्थास्यति
निश्चला
समाधावचला
बुद्धिस्तदा
योगमवाप्स्यसि
54
▾
Meaning
Keep
स्थितप्रज्ञस्य
का
भाषा
समाधिस्थस्य
केशव
स्थितधीः
किं
प्रभाषेत
किमासीत
व्रजेत
किम्
55
▾
Meaning
Keep
प्रजहाति
यदा
कामान्
सर्वान्
पार्थ
मनोगतान्
आत्मन्येवाऽऽत्मना
तुष्टः
स्थितप्रज्ञस्तदोच्यते
56
▾
Meaning
Keep
दुःखेष्वनुद्विग्नमनाः
सुखेषु
विगतस्पृहः
वीतरागभयक्रोधः
स्थितधीर्मुनिरुच्यते
57
▾
Meaning
Keep
यः
सर्वत्रानभिस्नेहस्तत्
तत्
प्राप्य
शुभाशुभम्
नाभिनन्दति
न
द्वेष्टि
तस्य
प्रज्ञा
प्रतिष्ठिता
58
▾
Meaning
Keep
यदा
संहरते
चायं
कूर्मोऽङ्गानीव
सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
प्रज्ञा
प्रतिष्ठिता
59
▾
Meaning
Keep
विषया
विनिवर्तन्ते
निराहारस्य
देहिनः
रसवर्जं
रसोऽप्यस्य
परं
दृष्ट्वा
निवर्तते
60
▾
Meaning
Keep
यततो
ह्यपि
कौन्तेय
पुरुषस्य
विपश्चितः
इन्द्रियाणि
प्रमाथीनि
हरन्ति
प्रसभं
मनः
61
▾
Meaning
Keep
तानि
सर्वाणि
संयम्य
युक्त
आसीत
मत्परः
वशे
हि
यस्येन्द्रियाणि
तस्य
प्रज्ञा
प्रतिष्ठिता
62
▾
Meaning
Keep
ध्यायतो
विषयान्
पुंसः
सङ्गस्तेषूपजायते
सङ्गात्
सञ्जायते
कामः
कामात्
क्रोधोऽभिजायते
63
▾
Meaning
Keep
क्रोधाद्
भवति
सम्मोहः
सम्मोहात्
स्मृतिविभ्रमः
स्मृतिभ्रंशाद्
बुद्धिनाशो
बुद्धिनाशात्
प्रणश्यति
64
▾
Meaning
Keep
रागद्वेषवियुक्तैस्तु
विषयानिन्द्रियैश्चरन्
आत्मवश्यैर्विधेयात्मा
प्रसादमधिगच्छति
65
▾
Meaning
Keep
प्रसादे
सर्वदुःखानां
हानिरस्योपजायते
प्रसन्नचेतसो
ह्याशु
बुद्धिः
पर्यवतिष्ठते
66
▾
Meaning
Keep
नास्ति
बुद्धिरयुक्तस्य
न
चायुक्तस्य
भावना
न
चाभावयतः
शान्तिरशान्तस्य
कुतः
सुखम्
67
▾
Meaning
Keep
इन्द्रियाणां
हि
चरतां
यन्मनोऽनुविधीयते
तदस्य
हरति
प्रज्ञां
वायुर्नावमिवाम्भसि
68
▾
Meaning
Keep
तस्माद्
यस्य
महाबाहो
निगृहीतानि
सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
प्रज्ञा
प्रतिष्ठिता
69
▾
Meaning
Keep
या
निशा
सर्वभूतानां
तस्यां
जागर्ति
संयमी
यस्यां
जाग्रति
भूतानि
सा
निशा
पश्यतो
मुनेः
70
▾
Meaning
Keep
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः
प्रविशन्ति
यद्वत्
तद्वत्
कामा
यं
प्रविशन्ति
सर्वे
स
शान्तिमाप्नोति
न
कामकामी
71
▾
Meaning
Keep
विहाय
कामान्
यः
सर्वान्
पुमांश्चरति
निःस्पृहः
निर्ममो
निरहङ्कारः
स
शान्तिमधिगच्छति
72
▾
Meaning
Keep
एषा
ब्राह्मी
स्थितिः
पार्थ
नैनां
प्राप्य
विमुह्यति
स्थित्वाऽस्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति
Previous
←
Arjunaviṣādayogaḥ
Next
Karmayogaḥ
→