Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Kṣetrakṣetrajñavibhāgayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
इदं
शरीरं
कौन्तेय
क्षेत्रमित्यभिधीयते
एतद्
यो
वेत्ति
तं
प्राहुः
क्षेत्रज्ञ
इति
तद्विदः
2
▾
Meaning
Keep
क्षेत्रज्ञं
चापि
मां
विद्धि
सर्वक्षेत्रेषु
भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं
यत्
तज्ज्ञानं
मतं
मम
3
▾
Meaning
Keep
तत्
क्षेत्रं
यच्च
यादृक्
च
यद्विकारि
यतश्च
यत्
स
च
यो
यत्प्रभावश्च
तत्
समासेन
मे
शृणु
4
▾
Meaning
Keep
ऋषिभिर्बहुधा
गीतं
छन्दोभिर्विविधैः
पृथक्
ब्रह्मसूत्रपदैश्चैव
हेतुमद्भिर्विनिश्चितैः
5
▾
Meaning
Keep
महाभूतान्यहङ्कारो
बुद्धिरव्यक्तमेव
च
इन्द्रियाणि
दशैकं
च
पञ्च
चेन्द्रियगोचराः
6
▾
Meaning
Keep
इच्छा
द्वेषः
सुखं
दुःखं
सङ्घातश्चेतना
धृतिः
एतत्
क्षेत्रं
समासेन
सविकारमुदाहृतम्
7
▾
Meaning
Keep
अमानित्वमदम्भित्वमहिंसा
क्षान्तिरार्जवम्
आचार्योपासनं
शौचं
स्थैर्यमात्मविनिग्रहः
8
▾
Meaning
Keep
इन्द्रियार्थेषु
वैराग्यमनहङ्कार
एव
च
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
9
▾
Meaning
Keep
असक्तिरनभिष्वङ्गः
पुत्रदारगृहादिषु
नित्यं
च
समचित्तत्वमिष्टानिष्टोपपत्तिषु
10
▾
Meaning
Keep
मयि
चानन्ययोगेन
भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वम्
अरतिर्जनसंसदि
11
▾
Meaning
Keep
अध्यात्मज्ञाननित्यत्वं
तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति
प्रोक्तमज्ञानं
यदतोऽन्यथा
12
▾
Meaning
Keep
ज्ञेयं
यत्
तत्
प्रवक्ष्यामि
यज्ज्ञात्वाऽमृतमश्नुते
अनादिमत्
परं
ब्रह्म
न
सत्
तन्नासदुच्यते
13
▾
Meaning
Keep
सर्वतः
पाणिपादं
तत्
सर्वतोऽक्षिशिरोमुखम्
सर्वतः
श्रुतिमल्लोके
सर्वमावृत्य
तिष्ठति
14
▾
Meaning
Keep
सर्वेन्द्रियगुणाभासं
सर्वेन्द्रियविवर्जितम्
असक्तं
सर्वभृच्चैव
निर्गुणं
गुणभोक्तृ
च
15
▾
Meaning
Keep
बहिरन्तश्च
भूतानामचरं
चरमेव
च
सूक्ष्मत्वात्
तदविज्ञेयं
दूरस्थं
चान्तिके
च
तत्
16
▾
Meaning
Keep
अविभक्तं
च
भूतेषु
विभक्तमिव
च
स्थितम्
भूतभर्तृ
च
तज्ज्ञेयं
ग्रसिष्णु
प्रभविष्णु
च
17
▾
Meaning
Keep
ज्योतिषामपि
तज्ज्योतिस्तमसः
परमुच्यते
ज्ञानं
ज्ञेयं
ज्ञानगम्यं
हृदि
सर्वस्य
विष्ठितम्
18
▾
Meaning
Keep
इति
क्षेत्रं
तथा
ज्ञानं
ज्ञेयं
चोक्तं
समासतः
मद्भक्त
एतद्
विज्ञाय
मद्भावायोपपद्यते
19
▾
Meaning
Keep
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्
20
▾
Meaning
Keep
कार्यकरणकर्तृत्वे
हेतुः
प्रकृतिरुच्यते
पुरुषः
सुखदुःखानां
भोक्तृत्वे
हेतुरुच्यते
21
▾
Meaning
Keep
पुरुषः
प्रकृतिस्थो
हि
भुङ्क्ते
प्रकृतिजान्
गुणान्
कारणं
गुणसङ्गोऽस्य
सदसद्योनिजन्मसु
22
▾
Meaning
Keep
उपद्रष्टाऽनुमन्ता
च
भर्ता
भोक्ता
महेश्वरः
परमात्मेति
चाप्युक्तो
देहेऽस्मिन्
पुरुषः
परः
23
▾
Meaning
Keep
य
एवं
वेत्ति
पुरुषं
प्रकृतिं
च
गुणैः
सह
सर्वथा
वर्तमानोऽपि
न
स
भूयोऽभिजायते
24
▾
Meaning
Keep
ध्यानेनाऽऽत्मनि
पश्यन्ति
केचिदात्मानमात्मना
अन्ये
साङ्ख्येन
योगेन
कर्मयोगेन
चापरे
25
▾
Meaning
Keep
अन्ये
त्वेवमजानन्तः
श्रुत्वाऽन्येभ्य
उपासते
तेऽपि
चातितरन्त्येव
मृत्युं
श्रुतिपरायणाः
26
▾
Meaning
Keep
यावत्
सञ्जायते
किञ्चित्
सत्त्वं
स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्
तद्
विद्धि
भरतर्षभ
27
▾
Meaning
Keep
समं
सर्वेषु
भूतेषु
तिष्ठन्तं
परमेश्वरम्
विनश्यत्स्वविनश्यन्तं
यः
पश्यति
स
पश्यति
28
▾
Meaning
Keep
समं
पश्यन्
हि
सर्वत्र
समवस्थितमीश्वरम्
न
हिनस्त्यात्मनाऽऽत्मानं
ततो
याति
परां
गतिम्
29
▾
Meaning
Keep
प्रकृत्यैव
च
कर्माणि
क्रियमाणानि
सर्वशः
यः
पश्यति
तथाऽऽत्मानमकर्तारं
स
पश्यति
30
▾
Meaning
Keep
यदा
भूतपृथग्भावमेकस्थमनुपश्यति
तत
एव
च
विस्तारं
ब्रह्म
सम्पद्यते
तदा
31
▾
Meaning
Keep
अनादित्वान्निर्गुणत्वात्
परमात्माऽयमव्ययः
शरीरस्थोऽपि
कौन्तेय
न
करोति
न
लिप्यते
32
▾
Meaning
Keep
यथा
सर्वगतं
सौक्ष्म्यादाकाशं
नोपलिप्यते
सर्वत्रावस्थितो
देहे
तथाऽऽत्मा
नोपलिप्यते
33
▾
Meaning
Keep
यथा
प्रकाशयत्येकः
कृत्स्नं
लोकमिमं
रविः
क्षेत्रं
क्षेत्री
तथा
कृत्स्नं
प्रकाशयति
भारत
34
▾
Meaning
Keep
क्षेत्रक्षेत्रज्ञयोरेवम्
अन्तरं
ज्ञानचक्षुषा
भूतप्रकृतिमोक्षं
च
ये
विदुर्यान्ति
ते
परम्
Previous
←
Bhaktiyogaḥ
Next
Guṇatrayavibhāgayogaḥ
→