Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Puruṣottamayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
ऊर्ध्वमूलमधःशाखमश्वत्थं
प्राहुरव्ययम्
छन्दांसि
यस्य
पर्णानि
यस्तं
वेद
स
वेदवित्
2
▾
Meaning
Keep
अधश्चोर्ध्वं
प्रसृतास्तस्य
शाखाः
गुणप्रवृद्धा
विषयप्रवालाः
अधश्च
मूलान्यनुसन्ततानि
कर्मानुबन्धीनि
मनुष्यलोके
3
▾
Meaning
Keep
न
रूपमस्येह
तथोपलभ्यते
नान्तो
न
चाऽऽदिर्न
च
सम्प्रतिष्ठा
अश्वत्थमेनं
सुविरूढमूलम्
असङ्गशस्त्रेण
दृढेन
छित्त्वा
4
▾
Meaning
Keep
ततः
पदं
तत्
परिमार्गितव्यं
यस्मिन्
गता
न
निवर्तन्ति
भूयः
तमेव
चाऽऽद्यं
पुरुषं
प्रपद्ये
यतः
प्रवृत्तिः
प्रसृता
पुराणी
5
▾
Meaning
Keep
निर्मानमोहा
जितसङ्गदोषाः
अध्यात्मनित्या
विनिवृत्तकामाः
द्वन्द्वैर्विमुक्ताः
सुखदुःखसंज्ञैः
गच्छन्त्यमूढाः
पदमव्ययं
तत्
6
▾
Meaning
Keep
न
तद्
भासयते
सूर्यो
न
शशाङ्को
न
पावकः
यद्गत्वा
न
निवर्तन्ते
तद्
धाम
परमं
मम
7
▾
Meaning
Keep
ममैवांशो
जीवलोके
जीवभूतः
सनातनः
मनःषष्ठानीन्द्रियाणि
प्रकृतिस्थानि
कर्षति
8
▾
Meaning
Keep
शरीरं
यदवाप्नोति
यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि
संयाति
वायुर्गन्धानिवाऽऽशयात्
9
▾
Meaning
Keep
श्रोत्रं
चक्षुः
स्पर्शनं
च
रसनं
घ्राणमेव
च
अधिष्ठाय
मनश्चायं
विषयानुपसेवते
10
▾
Meaning
Keep
उत्क्रामन्तं
स्थितं
वाऽपि
भुञ्जानं
वा
गुणान्वितम्
विमूढा
नानुपश्यन्ति
पश्यन्ति
ज्ञानचक्षुषः
11
▾
Meaning
Keep
यतन्तो
योगिनश्चैनं
पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो
नैनं
पश्यन्त्यचेतसः
12
▾
Meaning
Keep
यदादित्यगतं
तेजो
जगद्
भासयतेऽखिलम्
यच्चन्द्रमसि
यच्चाग्नौ
तत्
तेजो
विद्धि
मामकम्
13
▾
Meaning
Keep
गामाविश्य
च
भूतानि
धारयाम्यहमोजसा
पुष्णामि
चौषधीः
सर्वाः
सोमो
भूत्वा
रसात्मकः
14
▾
Meaning
Keep
अहं
वैश्वानरो
भूत्वा
प्राणिनां
देहमाश्रितः
प्राणापानसमायुक्तः
पचाम्यन्नं
चतुर्विधम्
15
▾
Meaning
Keep
सर्वस्य
चाहं
हृदि
सन्निविष्टो
मत्तः
स्मृतिर्ज्ञानमपोहनं
च
वेदैश्च
सर्वैरहमेव
वेद्यो
वेदान्तकृद्
वेदविदेव
चाहम्
16
▾
Meaning
Keep
द्वाविमौ
पुरुषौ
लोके
क्षरश्चाक्षर
एव
च
क्षरः
सर्वाणि
भूतानि
कूटस्थोऽक्षर
उच्यते
17
▾
Meaning
Keep
उत्तमः
पुरुषस्त्वन्यः
परमात्मेत्युदाहृतः
यो
लोकत्रयमाविश्य
बिभर्त्यव्यय
ईश्वरः
18
▾
Meaning
Keep
यस्मात्
क्षरमतीतोऽहम्
अक्षरादपि
चोत्तमः
अतोऽस्मि
लोके
वेदे
च
प्रथितः
पुरुषोत्तमः
19
▾
Meaning
Keep
यो
मामेवमसम्मूढो
जानाति
पुरुषोत्तमम्
स
सर्वविद्
भजति
मां
सर्वभावेन
भारत
20
▾
Meaning
Keep
इति
गुह्यतमं
शास्त्रमिदमुक्तं
मयाऽनघ
एतद्
बुद्ध्वा
बुद्धिमान्
स्यात्
कृतकृत्यश्च
भारत
Previous
←
Guṇatrayavibhāgayogaḥ
Next
Daivāsurasampadvibhāgayogaḥ
→