Contents
Philosophy & Practice
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhagavad Gītā · Śraddhātrayavibhāgayogaḥ
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
ये
शास्त्रविधिमुत्सृज्य
यजन्ते
श्रद्धयाऽन्विताः
तेषां
निष्ठा
तु
का
कृष्ण
सत्त्वमाहो
रजस्तमः
2
▾
Meaning
Keep
त्रिविधा
भवति
श्रद्धा
देहिनां
सा
स्वभावजा
सात्त्विकी
राजसी
चैव
तामसी
चेति
तां
शृणु
3
▾
Meaning
Keep
सत्त्वानुरूपा
सर्वस्य
श्रद्धा
भवति
भारत
श्रद्धामयोऽयं
पुरुषो
यो
यच्छ्रद्धः
स
एव
सः
4
▾
Meaning
Keep
यजन्ते
सात्त्विका
देवान्
यक्षरक्षांसि
राजसाः
प्रेतान्
भूतगणांश्चान्ये
यजन्ते
तामसा
जनाः
5
▾
Meaning
Keep
अशास्त्रविहितं
घोरं
तप्यन्ते
ये
तपो
जनाः
दम्भाहङ्कारसंयुक्ताः
कामरागबलान्विताः
6
▾
Meaning
Keep
कर्शयन्तः
शरीरस्थं
भूतग्राममचेतसः
मां
चैवान्तःशरीरस्थं
तान्
विद्ध्यासुरनिश्चयान्
7
▾
Meaning
Keep
आहारस्त्वपि
सर्वस्य
त्रिविधो
भवति
प्रियः
यज्ञस्तपस्तथा
दानं
तेषां
भेदमिमं
शृणु
8
▾
Meaning
Keep
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः
रस्याः
स्निग्धाः
स्थिरा
हृद्या
आहाराः
सात्त्विकप्रियाः
9
▾
Meaning
Keep
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा
राजसस्येष्टा
दुःखशोकामयप्रदाः
10
▾
Meaning
Keep
यातयामं
गतरसं
पूति
पर्युषितं
च
यत्
उच्छिष्टमपि
चामेध्यं
भोजनं
तामसप्रियम्
11
▾
Meaning
Keep
अफलाकाङ्क्षिभिर्यज्ञो
विधिदृष्टो
य
इज्यते
यष्टव्यमेवेति
मनः
समाधाय
स
सात्त्विकः
12
▾
Meaning
Keep
अभिसन्धाय
तु
फलं
दम्भार्थमपि
चैव
यत्
इज्यते
भरतश्रेष्ठ
तं
यज्ञं
विद्धि
राजसम्
13
▾
Meaning
Keep
विधिहीनमसृष्टान्नं
मन्त्रहीनमदक्षिणम्
श्रद्धाविरहितं
यज्ञं
तामसं
परिचक्षते
14
▾
Meaning
Keep
देवद्विजगुरुप्राज्ञपूजनं
शौचमार्जवम्
ब्रह्मचर्यमहिंसा
च
शारीरं
तप
उच्यते
15
▾
Meaning
Keep
अनुद्वेगकरं
वाक्यं
सत्यं
प्रियहितं
च
यत्
स्वाध्यायाभ्यसनं
चैव
वाङ्मयं
तप
उच्यते
16
▾
Meaning
Keep
मनः
प्रसादः
सौम्यत्वं
मौनमात्मविनिग्रहः
भावसंशुद्धिरित्येतत्
तपो
मानसमुच्यते
17
▾
Meaning
Keep
श्रद्धया
परया
तप्तं
तपस्तत्
त्रिविधं
नरैः
अफलाकाङ्क्षिभिर्युक्तैः
सात्त्विकं
परिचक्षते
18
▾
Meaning
Keep
सत्कारमानपूजार्थं
तपो
दम्भेन
चैव
यत्
क्रियते
तदिह
प्रोक्तं
राजसं
चलमध्रुवम्
19
▾
Meaning
Keep
मूढग्राहेणाऽऽत्मनो
यत्
पीडया
क्रियते
तपः
परस्योत्सादनार्थं
वा
तत्
तामसमुदाहृतम्
20
▾
Meaning
Keep
दातव्यमिति
यद्
दानं
दीयतेऽनुपकारिणे
देशे
काले
च
पात्रे
च
तद्
दानं
सात्त्विकं
स्मृतम्
21
▾
Meaning
Keep
यत्
तु
प्रत्युपकारार्थं
फलमुद्दिश्य
वा
पुनः
दीयते
च
परिक्लिष्टं
तद्
दानं
राजसं
स्मृतम्
22
▾
Meaning
Keep
अदेशकाले
यद्
दानम्
अपात्रेभ्यश्च
दीयते
असत्कृतमवज्ञातं
तत्
तामसमुदाहृतम्
23
▾
Meaning
Keep
ॐ
तत्
सदिति
निर्देशो
ब्रह्मणस्त्रिविधः
स्मृतः
ब्राह्मणास्तेन
वेदाश्च
यज्ञाश्च
विहिताः
पुरा
24
▾
Meaning
Keep
तस्मादोमित्युदाहृत्य
यज्ञदानतपःक्रियाः
प्रवर्तन्ते
विधानोक्ताः
सततं
ब्रह्मवादिनाम्
25
▾
Meaning
Keep
तदित्यनभिसन्धाय
फलं
यज्ञतपःक्रियाः
दानक्रियाश्च
विविधाः
क्रियन्ते
मोक्षकाङ्क्षिभिः
26
▾
Meaning
Keep
सद्भावे
साधुभावे
च
सदित्येतत्
प्रयुज्यते
प्रशस्ते
कर्मणि
तथा
सच्छब्दः
पार्थ
युज्यते
27
▾
Meaning
Keep
यज्ञे
तपसि
दाने
च
स्थितिः
सदिति
चोच्यते
कर्म
चैव
तदर्थीयं
सदित्येवाभिधीयते
28
▾
Meaning
Keep
अश्रद्धया
हुतं
दत्तं
तपस्तप्तं
कृतं
च
यत्
असदित्युच्यते
पार्थ
न
च
तत्
प्रेत्य
नो
इह
Previous
←
Daivāsurasampadvibhāgayogaḥ
Next
Mokṣasannyāsayogaḥ
→