Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Rule of King Daśaratha
Vālmīki Rāmāyaṇa
›
Kāṇḍa 1
Bāla
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
तस्यां
पुर्यामयोध्यायां
वेदवित्सर्वसङ्ग्रहः
।
दीर्घदर्शी
महातेजाः
पौरजानपदप्रियः
॥
2
▾
Meaning
Keep
इक्ष्वाकूणामतिरथो
यज्वा
धर्मरतो
वशी
।
महर्षिकल्पो
राजर्षिस्त्रिषु
लोकेषु
विश्रुतः
॥
3
▾
Meaning
Keep
बलवान्
निहतामित्रो
मित्रवान्
विजितेन्द्रियः
।
धनैश्च
सञ्चयैश्चान्यैः
शक्रवैश्रवणोपमः
॥
4
▾
Meaning
Keep
यथा
मनुर्महातेजा
लोकस्य
परिरक्षिता
।
तथा
दशरथो
राजा
वसन्
जगदपालयत्
॥
5
▾
Meaning
Keep
तेन
सत्याभिसन्धेन
त्रिवर्गमनुतिष्ठता
।
पालिता
सा
पुरी
श्रेष्ठा
इन्द्रेणेवामरावती
॥
6
▾
Meaning
Keep
तस्मिन्पुरवरे
हृष्टा
धर्मात्मानो
बहुश्रुताः
।
नरास्तुष्टा
धनैः
स्वैः
स्वैरलुब्धाः
सत्यवादिनः
॥
7
▾
Meaning
Keep
नाल्पसंनिचयः
कश्चिदासीत्तस्मिन्पुरोत्तमे
।
कुटुम्बी
यो
ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
॥
8
▾
Meaning
Keep
कामी
वा
न
कदर्यो
वा
नृशंसः
पुरुषः
क्वचित्
।
द्रष्टुं
शक्यमयोध्यायां
नाविद्वान्न
च
नास्तिकः
॥
9
▾
Meaning
Keep
सर्वे
नराश्च
नार्यश्च
धर्मशीलाः
सुसम्यताः
।
उदिताः
शीलवृत्ताभ्यां
महर्षय
इवामलाः
॥
10
▾
Meaning
Keep
नाकुण्डली
नामुकुटी
नास्रग्वी
नाल्पभोगवान्
।
नामृष्टो
नानुलिप्ताङ्गो
नासुगन्धश्च
विद्यते
॥
11
▾
Meaning
Keep
नामृष्टभोजी
नादाता
नाप्यनङ्गदनिष्कधृक्
।
नाहस्ताभरणो
वाऽपि
दृश्यते
नाप्यनात्मवान्
॥
12
▾
Meaning
Keep
नानाहिताग्निर्नायज्वा
न
क्षुद्रो
वा
न
तस्करः
।
कश्चिदासीदयोध्यायां
न
च
निर्वृत्तसङ्करः
॥
13
▾
Meaning
Keep
स्वकर्मनिरता
नित्यं
ब्राह्मणा
विजितेन्द्रियाः
।
दानाध्ययनशीलाश्च
सम्यताश्च
प्रतिग्रहे
॥
14
▾
Meaning
Keep
न
नास्तिको
नानृतको
न
कश्चिदबहुश्रुतः
।
नासूयको
न
चाऽशक्तो
नाविद्वान्विद्यते
क्वचित्
॥
15
▾
Meaning
Keep
नाषडङ्गविदत्रासीन्नाव्रतो
नासहस्रदः
।
न
दीनः
क्षिप्तचित्तो
वा
व्यथितो
वापि
कश्चन
॥
16
▾
Meaning
Keep
कश्चिन्नरो
वा
नारी
वा
नाश्रीमान्नाप्यरूपवान्
।
द्रष्टुं
शक्यमयोध्यायां
नापि
राजन्यभक्तिमान्
॥
17
▾
Meaning
Keep
वर्णेष्वग्र्यचतुर्थेषु
देवतातिथिपूजकाः
।
कृतज्ञाश्च
वदान्याश्च
शूरा
विक्रमसम्युताः
॥
18
▾
Meaning
Keep
दीर्घायुषो
नराः
सर्वे
धर्मं
सत्यं
च
संश्रिताः
।
सहिताः
पुत्रपौत्रैश्च
नित्यं
स्त्रीभिः
पुरोत्तमे
॥
19
▾
Meaning
Keep
क्षत्रं
ब्रह्ममुखं
चासीद्वैश्याः
क्षत्रमनुव्रताः
।
शूद्राः
स्वधर्म
निरतास्त्रीन्वर्णानुपचारिणः
॥
20
▾
Meaning
Keep
सा
तेनेक्ष्वाकुनाथेन
पुरी
सुपरिरक्षिता
।
यथा
पुरस्तान्मनुना
मानवेन्द्रेण
धीमता
॥
21
▾
Meaning
Keep
योधानामग्निकल्पानां
पेशलानाममर्षिणाम्
।
सम्पूर्णा
कृतविद्यानां
गुहा
केसरिणामिव
॥
22
▾
Meaning
Keep
काम्बोजविषये
जातैर्बाह्लीकैश्च
हयोत्तमैः
।
वनायुजैर्नदीजैश्च
पूर्णा
हरिहयोत्तमैः
॥
23
▾
Meaning
Keep
विन्ध्यपर्वतजैर्मत्तैः
पूर्णा
हैमवतैरपि
।
मदान्वितैरतिबलैर्मातङ्गैः
पर्वतोपमैः
॥
24
▾
Meaning
Keep
ऐरावतकुलीनैश्च
महापद्मकुलैस्तथा
।
अञ्जनादपि
निष्पन्नैर्वामनादपि
च
द्विपैः
॥
25
▾
Meaning
Keep
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥
26
▾
Meaning
Keep
नित्यमत्तैः
सदा
पूर्णा
नागैरचलसन्निभैः
।
सा
योजने
च
द्वे
भूयः
सत्यनामा
प्रकाशते
॥
27
▾
Meaning
Keep
यस्यां
दशरथो
राजा
वसन्
जगदपालयत्
।
तां
पुरीं
स
महातेजा
राजा
दशरथो
महान्
।
शशास
शमितामित्रो
नक्षत्राणीव
चन्द्रमाः
॥
28
▾
Meaning
Keep
तां
सत्यनामां
दृढतोरणार्गलां
गृहैर्विचित्रैरुपशोभितां
शिवाम्
।
पुरीमयोध्यां
नृसहस्रसङ्कुलां
शशास
वै
शक्रसमो
महीपतिः
॥
Previous
←
The City of Ayodhyā
Next
The Ministers of Daśaratha
→