Leave

Vālmīki Rāmāyaṇa · The Churning of the Ocean

Tap a verse for its meaning

  1. 1
    विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥
  2. 2
    अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया ।गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥
  3. 3
    तस्य सा सर्वा सह तदा ।जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥
  4. 4
    ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥
  5. 5
    गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् । नौ रात्रिः संवृत्तेयं महातपः ॥
  6. 6
    इमां चिन्तयतः सर्वां निखिलेन कथां तव ।तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥
  7. 7
    नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥
  8. 8
    तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सन्तारं कारयामास सर्षिसङ्घः सराघवः ॥
  9. 9
    उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ।गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥
  10. 10
    ततो मुनिवरस्तूर्णं जगाम सहराघवः ।विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥
  11. 11
    अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥
  12. 12
    कतरो राजवंशोऽयं विशालायां महामुने ।श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥
  13. 13
    तस्य तद्वचनं श्रुत्वा रामस्य ।आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥
  14. 14
    श्रूयतां राम कथां कथयतः शुभाम् ।अस्मिन्देशे हि यद्वृत्तं तदापि शृणु राघव ॥
  15. 15
    पूर्वं राम दितेः पुत्रा महाबलाः ।अदितेश्च महाभाग वीर्यवन्तः ॥
  16. 16
    ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम् ।अमरा अजराश्चैव कथं स्याम निरामयाः ॥
  17. 17
    तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् ।क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥
  18. 18
    ततो निश्चित्य मथनं योक्त्रं कृत्वा च ।मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥
  19. 19
    अथ वर्ष सहस्रेण योक्त्रसर्पशिरांसि च ।वमन्त्यति विषं तत्र ददंशुर्दशनैः शिलाः ॥
  20. 20
    उत्पपाताग्निसङ्काशं हालाहलमहाविषम् ।तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् ॥
  21. 21
    अथ देवा महादेवं शङ्करं ।जग्मुः पशुपतिं रुद्रं त्राहित्राहीति तुष्टुवुः ॥
  22. 22
    एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः ।प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरिः ॥
  23. 23
    उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः ।दैवतैर्मथ्यमानो तु यत्पूर्वं समुपस्थितम् ॥
  24. 24
    तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रजोसि यत् ।अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥
  25. 25
    इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत ।देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु ॥
  26. 26
    हालाहलविषं घोरं स जग्राहामृतोपमम् ।देवान्विसृज्य देवेशो जगाम भगवान्हरः ॥
  27. 27
    ततो देवासुराः सर्वे ममन्थू रघुनन्दन ।प्रविवेशाथ मन्थानः पर्वतोऽनघ ॥
  28. 28
    ततो देवाः सगन्धर्वास्तुष्टुवु ।त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥
  29. 29
    पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि ।इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥
  30. 30
    पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः ।पर्वताग्रं तु हस्तेनाक्रम्य केशवः ॥
  31. 31
    देवानां मध्यतः स्थित्वा ममन्थ ।अथ वर्षसहस्रेण पुमान् ॥
  32. 32
    उदतिष्ठत्स धर्मात्मा सदण्डं सकमण्डलुः ।पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥
  33. 33
    अप्सु निर्मथनादेव रसस्तस्माद्वरस्त्रियः ।उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥
  34. 34
    षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् ।असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥
  35. 35
    न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।अप्रतिग्रहणात्ताश्च सर्वाः स्मृताः ॥
  36. 36
    वरुणस्य ततः कन्या रघुनन्दन ।उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥
  37. 37
    दितेः पुत्रा न तां राम जगृहु ।अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥
  38. 38
    असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।हृष्टाः प्रमुदिताश्चासन्वारुणीग्रहणा ॥
  39. 39
    उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च ।उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥
  40. 40
    अथ तस्य कृते राम महानासी ।अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥
  41. 41
    एकतोऽभ्यागमन्सर्वे ह्यसुरा राक्षसैः सह ।युद्धमासीन्महाघोरं वीर ॥
  42. 42
    यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।अमृतं सोऽहरत्तूर्णं मायामास्थाय मोहिनीम् ॥
  43. 43
    ये गताऽभिमुखं विष्णुमक्षयं ।सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥
  44. 44
    अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।तस्मिन्युद्धे महाघोरे दैतेयादित्ययोर्भृशम् ॥
  45. 45
    निहत्य दितिपुत्रांश्च राज्यं प्राप्य ।शशास मुदितो लोकान्सर्षिसङ्घान्सचारणान् ॥