Leave

Vālmīki Rāmāyaṇa · The Lineage of the Ikṣvākus

Tap a verse for its meaning

  1. 1
    ततः प्रभाते कृतकर्मा महर्षिभिः ।उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥
  2. 2
    भ्राता मम महातेजा यवीयानतिधार्मिकः ।कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥
  3. 3
    वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् ।साङ्काश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥
  4. 4
    तमहं द्रष्टुमिच्छामि स मे मतः ।प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥
  5. 5
    एवमुक्ते तु वचने सन्निधौ ।आगताः केचिदव्यग्रा जनकस्तान्समादिशत् ॥
  6. 6
    शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः ।समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥
  7. 7
    साङ्काश्यां ते समागत्य ददृशुश्च ।न्यवेदयन्यथावृत्तं जनकस्य च चिन्तितम् ॥
  8. 8
    तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाबलैः ।आज्ञयाथ नरेन्द्रस्य आजगाम ॥
  9. 9
    स ददर्श महात्मानं जनकं ।सोऽभिवाद्य शतानन्दं राजानां चातिधार्मिकम् ॥
  10. 10
    राजार्हं परमं दिव्यमासनं सोऽध्यरोहत ।उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ ॥
  11. 11
    प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं ।गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् ॥
  12. 12
    आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम् ।औपकार्यां स गत्वा तु रघूणां ॥
  13. 13
    ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् । वीर वैदेहो मिथिलाधिपः ॥
  14. 14
    स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ।मन्त्रिश्रेष्ठवचः श्रुत्वा राजा ॥
  15. 15
    सबन्धुरगमत्तत्र जनको यत्र वर्तते ।स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः ॥
  16. 16
    वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ।विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥
  17. 17
    वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः ।विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ॥
  18. 18
    एष वक्ष्यति वसिष्ठस्ते यथाक्रमम् ।तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ॥
  19. 19
    उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम् ।अव्यक्तप्रभवो शाश्वतो नित्य अव्ययः ॥
  20. 20
    तस्मा सञ्जज्ञे मरीचेः काश्यपः सुतः ।विवस्वान्काश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥
  21. 21
    मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ।तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥
  22. 22
    इक्ष्वाकोऽस्तु सुतः श्रीमान्कुक्षिरित्येव विश्रुतः ।कुक्षेरथात्मजः श्रीमान्विकुक्षिरुदपद्यत ॥
  23. 23
    विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् ।बाणस्य तु महातेजा अनरण्यो महायशाः ॥
  24. 24
    अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः ।त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः ॥
  25. 25
    धुन्धुमारान्महातेजा युवनाश्वो महाबलः ।युवनाश्वसुतस्त्वासी पृथिवीपतिः ॥
  26. 26
    मान्धातुस्तु सुतः श्रीमान्सुसन्धिरुदपद्यत ।सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥
  27. 27
    यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः ।भरतात्तु महातेजा असितो नाम जातवान् ॥
  28. 28
    यस्यैते प्रतिराजान उदपद्यन्त ।हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥
  29. 29
    तांस्तु स प्रतियुध्यन्वै युद्धे राज्यात्प्रवासितः ।हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥
  30. 30
    असितोऽल्पबलो राजा कालधर्ममुपेयिवान् ।द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् ॥
  31. 31
    एका गर्भविनाशाय सपत्न्यै ददौ ।ततः शैलवरं रम्यं बभूवाभिरतो ॥
  32. 32
    भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।तत्रैका तु महाभागा भार्गवं ॥
  33. 33
    ववन्दे काङ्क्षन्ती सुतमुत्तमम् ।तमृषिं साऽभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥
  34. 34
    स तामभ्यवद पुत्रेप्सुं पुत्रजन्मनि ।तव कुक्षौ महाभागे सुपुत्रः सुमहायशाः ॥
  35. 35
    महावीर्यो महातेजा अचिरात्सञ्जनिष्यति । सहितः श्रीमा ॥
  36. 36
    च्यवनं तु नमस्कृत्य राजपुत्री ।पतिशोकातुरा तस्मात्पुत्रं देवी व्यजायत ॥
  37. 37
    सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।सह तेन गरेणैव जातः स सगरोऽभवत् ॥
  38. 38
    सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् ।दिलीपोऽम्शुमतः पुत्रो दिलीपस्य भगीरथः ॥
  39. 39
    भगीरथात् ककुत्स्थोऽभूत् ककुत्स्थस्य रघुः सुतः ।रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥
  40. 40
    कल्माषपादो ह्यभवत्तस्माज्जातश्च शङ्खणः ।सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥
  41. 41
    शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥
  42. 42
    अम्बरीषस्य पुत्रोऽभू सत्यविक्रमः ।नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥
  43. 43
    नाभागस्य बभूवाजो अजाद्दशरथोऽभवत् ।अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥
  44. 44
    आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् ।इक्ष्वाकुकुलजातानां वीराणां ॥
  45. 45
    त्वत्सुते वरये नृप ।सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥