Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The King's Long Night
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
अतदर्हं
महाराजं
शयानमतथोचितम्
।
ययातिमिव
पुण्यान्ते
देवलोकात्परिच्युतम्
॥
2
▾
Meaning
Keep
अनर्थरूपा
सिद्धार्था
ह्यभीता
भयदर्शिनी
।
पुनराकारयामास
तमेव
वरमङ्गना
॥
3
▾
Meaning
Keep
त्वं
कत्थसे
महाराज
सत्यवादी
दृढव्रतः
।
मम
चेमं
वरं
कस्माद्विधारयितुमिच्छसि
॥
4
▾
Meaning
Keep
एवमुक्तस्तु
कैकेय्या
राजा
दशरथस्तदा
।
प्रत्युवाच
ततः
क्रुद्धो
मुहूर्तं
विह्वलन्निव
॥
5
▾
Meaning
Keep
मृते
मयि
गते
रामे
वनं
मनुजपुङ्गवे
।
हन्तानार्ये
ममामित्रे
सकामा
सुखिनी
भव
॥
6
▾
Meaning
Keep
स्वर्गेऽपि
खलु
रामस्य
कुशलं
दैवतैरहम्
।
प्रत्यादेशादभिहितं
धारयिष्ये
कथं
बत
॥
7
▾
Meaning
Keep
कैकेय्याः
प्रियकामेन
रामः
प्रव्राजितो
मया
।
यदि
सत्यं
ब्रवीम्येतत्तदसत्यं
भविष्यति
॥
8
▾
Meaning
Keep
अपुत्रेण
मया
पुत्रः
श्रमेण
महता
महान्
।
रामो
लब्धो
महाबाहुः
स
कथं
त्यज्यते
मया
॥
9
▾
Meaning
Keep
शूरश्च
कृतविद्यश्च
जितक्रोधः
क्षमापरः
।
कथं
कमलपत्राक्षो
मया
रामो
विवास्यते
॥
10
▾
Meaning
Keep
कथमिन्दीवरश्यामं
दीर्घबाहुं
महाबलम्
।
अभिराममहं
रामं
प्रेषयिष्यामि
दण्डकान्
॥
11
▾
Meaning
Keep
सुखानामुचितस्यैव
दुःखैरनुचितस्य
च
।
दुःखं
नामानुपश्येयं
कथं
रामस्य
धीमतः
॥
12
▾
Meaning
Keep
यदि
दुःखमकृत्वाऽद्य
मम
सङ्क्रमणं
भवेत्
।
अदुःखार्हस्य
रामस्य
ततः
सुखमवाप्नुयाम्
॥
13
▾
Meaning
Keep
नृशंसे
पापसङ्कल्पे
रामं
सत्यपराक्रमम्
।
किं
विप्रियेण
कैकेयि
प्रियं
योजयसे
मम
॥
14
▾
Meaning
Keep
अकीर्तिरतुला
लोके
ध्रुवः
परिभवश्च
मे
।
तथा
विलपतस्तस्य
परिभ्रमितचेतसः
॥
15
▾
Meaning
Keep
अस्तमभ्यगमत्सूर्यो
रजनी
चाभ्यवर्तत
।
सा
त्रियामा
तथाऽऽर्तस्य
चन्द्रमण्डलमण्डिता
॥
16
▾
Meaning
Keep
राज्ञो
विलपमानस्य
न
व्यभासत
शर्वरी
।
तथैवोष्णं
विनिश्वस्य
वृद्धो
दशरथो
नृपः
॥
17
▾
Meaning
Keep
विललापार्तवद्दुःखं
गगनासक्तलोचनः
।
न
प्रभातं
तयेच्छामि
निशे
नक्षत्रभूषणे
॥
18
▾
Meaning
Keep
क्रियतां
मे
दया
भद्रे
मयाऽयं
रचितोऽञ्जलिः
।
अथवा
गम्यतां
शीघ्रं
नाहमिच्छामि
निर्घृणाम्
॥
19
▾
Meaning
Keep
नृशंसां
केकयीं
द्रष्टुं
यत्कृते
व्यसनं
महत्
।
एवमुक्त्वा
ततो
राजा
कैकेयीं
सम्यताञ्जलिः
॥
20
▾
Meaning
Keep
प्रसादयामास
पुनः
कैकेयीं
चेदमब्रवीत्
।
साधुवृत्तस्य
दीनस्य
त्वद्गतस्य
गतायुषः
॥
21
▾
Meaning
Keep
प्रसादः
क्रियतां
देवि
भद्रे
राज्ञो
विशेषतः
।
शून्ये
न
खलु
सुश्रोणि
मयेदं
समुदाहृतम्
॥
22
▾
Meaning
Keep
कुरु
साधु
प्रसादं
मे
बाले
सहृदया
ह्यसि
।
प्रसीद
देवि
रामो
मे
त्वद्दत्तं
राज्यमव्ययम्
॥
23
▾
Meaning
Keep
लभतामसितापाङ्गे
यशः
परमवाप्नुहि
।
मम
रामस्य
लोकस्य
गुरूणां
भरतस्य
च
।
प्रियमेतद्गुरुश्रोणि
कुरु
चारुमुखेक्षणे
॥
24
▾
Meaning
Keep
विशुद्धभावस्य
हि
दुष्टभावा
ताम्रेक्षणस्याश्रुकलस्य
राज्ञः
।
श्रुत्वा
विचित्रं
करुणं
विलापं
भर्तुर्नृशंसा
न
चकार
वाक्यम्
॥
25
▾
Meaning
Keep
ततः
स
राजा
पुनरेव
मूर्छितः
प्रियामदुष्टां
प्रतिकूलभाषिणीम्
।
समीक्ष्य
पुत्रस्य
विवासनं
प्रति
क्षितौ
विसञ्ज्ञो
निपपात
दुःखितः
॥
26
▾
Meaning
Keep
इतीव
राज्ञो
व्यथितस्य
सा
निशा
जगाम
घोरं
श्वसतो
मनस्विनः
।
विबोध्यमानः
प्रतिबोधनं
तदा
निवारयामास
स
राजसत्तमः
॥
Previous
←
The King's Lament and the Queen's Resolve
Next
The Awakening of the King
→