Vālmīki Rāmāyaṇa · Despair on the Ocean Shore
Tap a verse for its meaning
- 1एवमुक्तः शुभं वाक्यं ।उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ॥
- 2शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥
- 3स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् ।सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि ॥
- 4तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः ।त्रातुमर्हसि नः सर्वान् ॥
- 5महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि ।तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ॥
- 6एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् ।जीवता दुष्करं मन्ये निवर्तितुम् ॥
- 7तपसस्तु प्रभावेण च ।सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥
- 8निर्मीलयत चक्षूंषि सर्वे ।न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥
- 9ततः सम्मीलिताः सर्वे करैः ।सहसा पिदधुर्दृष्टिं हृष्टा ॥
- 10वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा । ॥
- 11ततस्तान्वानरान् सर्वांस्तापसी ।निःसृतान् विषमात्तस्मादमब्रवीत् ॥
- 12एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः ।एष प्रस्रवणः शैलः सागरोऽयं ॥
- 13वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश ॥
- 14ततस्ते ददृशुर्घोरं सागरं ।अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ॥
- 15मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम् ।तेषां मासो व्यतिक्रान्तो यो राज्ञा कृतः ॥
- 16विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पितपादपे ।उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥
- 17ततः पुष्पातिभाराग्रान् लताशतसमावृतान् ।द्रुमान् दृष्ट्वा बभूवु ॥
- 18ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम् ।नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥
- 19ततस्तान् कपिवृद्धांस्तु शिष्टांश्चैव वनौकसः ।वाचा ऽऽभाष्य यथावदनुमान्य च ॥
- 20स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः ।युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥
- 21शासना वयं सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥
- 22वयमाश्वयुजे कालसङ्ख्याव्यवस्थिताः ।प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥
- 23भवन्तः प्रत्ययं प्राप्ता ।हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥
- 24कर्मस्वप्रतिमाः सर्वे दिक्षु ।मां पुरस्कृत्य निर्याताः प्रतिचोदिताः ॥
- 25इदानीमकृतार्थानां मर्तव्यं नात्र संशयः । सन्देशमकृत्वा कः सुखी भवेत् ॥
- 26तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम् ।प्रायोपवेशनं युक्तं सर्वेषां च ॥
- 27प्रकृत्या सुग्रीवः व्यवस्थितः ।न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥
- 28अप्रवृत्तौ च सीतायाः पापमेव करिष्यति ।तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥
- 29त्यक्त्वा पुत्रांश्च धनानि च गृहाणि च ।ध्रुवं नो राजा सर्वान् प्रतिगतानितः ॥
- 30श्रेयान् मृत्युरिहैव नः ।न चाहं सुग्रीवेणाभिषेचितः ॥
- 31नरेन्द्रेणाभिषिक्तोऽस्मि क्लिष्टकर्मणा ।स पूर्वं मां राजा दृष्ट्वा व्यतिक्रमम् ॥
- 32घातयिष्यति तीक्ष्णेन कृतनिश्चयः ।किं मे सुहृद्भिर्व्यसनं पश्यद्भि ॥
- 33इहैव प्रायमासिष्ये पुण्ये ।एतच्छ्रुत्वा कुमारेण भाषितम् ॥
- 34सर्वे ते करुणं वाक्यमब्रुवन् ।तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ॥
- 35अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ।राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ॥
- 36न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ।इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा ।नो चेद्गच्छाम तं वीरं गमिष्यामो ॥
- 37प्लवङ्गमानां तु भयार्दितानांश्रुत्वा वचस्तार इदं बभाषे ।अलं विषादेन बिलं प्रविश्यवसाम सर्वे यदि रोचते वः ॥
- 38इदं हि मायाविहितं सुदुर्गमंप्रभूतवृक्षोदकभोज्यपेयकम् ।इहास्ति नो नैव भयं पुरन्दरा--न्न राघवाद्वानरराजतोऽपि वा ॥
- 39श्रुत्वाङ्गदस्यापि वचोऽनुकूल--मूचुश्च सर्वे हरयः ।यथा न हिंस्येम तथा विधान--मसक्तमद्यैव विधीयतां नः ॥