Leave

Vālmīki Rāmāyaṇa · The Origin of Lavaṇa's Trident

Tap a verse for its meaning

  1. 1
    एवं ब्रुवद्भि काकुत्स्थो वाक्यमब्रवीत् ।किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥
  2. 2
    तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।भयानां शृणु यन्मूलं देशस्य च ॥
  3. 3
    पूर्वं राजन्दैतेयः सुमहाबलः ।लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम ॥
  4. 4
    ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ॥
  5. 5
    स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरो ॥
  6. 6
    रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥
  7. 7
    शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।ददौ सुप्रीतो वाक्यं चैतदुवाच ह ॥
  8. 8
    त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥
  9. 9
    यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥
  10. 10
    यश्च त्वामभियुञ्जीत विगतज्वरः ।तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते ॥
  11. 11
    एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । महादेवं वाक्यमेतदुवाच ह ॥
  12. 12
    भगवन्मम शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥
  13. 13
    तं ब्रुवाणं मधुं देवः ।प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥
  14. 14
    मा भूत्ते विफला मत्प्रसादकृता शुभा ।भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥
  15. 15
    याव शूलो ऽयं भविष्यति सुतस्य ते । सर्वभूतानां शूलहस्तो भविष्यति ॥
  16. 16
    एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥
  17. 17
    तस्य पत्नी महाभागा प्रिया ति या ।विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥
  18. 18
    तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।बाल्यात्प्रभृति पापान्येव समाचरत् ॥
  19. 19
    तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥
  20. 20
    स विहाय त्विमं लोकं प्रविष्टो ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥
  21. 21
    स प्रभावेण दौरात्म्येनात्मनस्तथा ।सन्तापयति लोकांस्त्रीन्विशेषेण च ॥
  22. 22
    एवंप्रभावो शूलं चैव तथाविधम् ।श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः ॥
  23. 23
    बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।अभयं याचिता वीर त्रातारं न च विद्महे ॥
  24. 24
    ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।त्रातारं विद्महे तात नान्यं भुवि ।तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥
  25. 25
    इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥