Leave

Vālmīki Rāmāyaṇa · Śatrughna at Vālmīki’s Hermitage

Tap a verse for its meaning

  1. 1
    ततो द्वादशमे वर्षे शत्रुघ्नो ।अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥
  2. 2
    ततो बलमुख्यान्निवर्त्य च ।जगाम हयमुख्यैश्च रथानां च शतेन सः ॥
  3. 3
    स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥
  4. 4
    सो ऽभिवाद्य ततः पादौ ।पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥
  5. 5
    बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥
  6. 6
    उवाच च मुनिर्वाक्यं वधाश्रितम् ।सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥
  7. 7
    बहवः सौम्य हताः सबलवाहनाः ।लवणेन महाबाहो युध्यमाना महाबलाः ॥
  8. 8
    स त्वया निहतः पापो लीलया पुरुषर्षभ ।जगतश्च भयं तत्र प्रशान्तं तव ॥
  9. 9
    वधो घोरो यत्नेन महता कृतः ।इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥
  10. 10
    प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥
  11. 11
    तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।सभायां थ उपविष्टेन राघव ॥
  12. 12
    ममापि परमा प्रीतिर्हृदि वर्तते ।उपाघ्रास्यामि ते मूर्ध्नि षा परा गतिः ॥
  13. 13
    इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय ।आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥
  14. 14
    स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥
  15. 15
    तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥
  16. 16
    तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो ॥
  17. 17
    स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥
  18. 18
    पदानुगाश्च ये राज्ञस्तां श्रुत्वा ।अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥
  19. 19
    परस्परं च ये तत्र सम्बभाषिरे ।किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥
  20. 20
    अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥
  21. 21
    विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥
  22. 22
    शत्रुघ्नस्त्वब्रवीत्सर्वासमन्वितान् ।सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ॥
  23. 23
    बहूनीह भवन्त्यस्याश्रमे मुनेः ।न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥
  24. 24
    एवं तद्वाक्यमुक्त्वा च सैनिका ।अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥