Vālmīki Rāmāyaṇa · King Śveta's Deliverance
Tap a verse for its meaning
- 1श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्रत्युवाचेदं स स्वर्गी ॥
- 2शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥
- 3पुरा वैदर्भको राजा पिता मम ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥
- 4तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो रथो ऽभवत् ॥
- 5ततः पितरि पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्म्यं च ॥
- 6एवं वर्षसहस्राणि समतीतानि ।राज्यं कारयतो ब्रह्मन्प्रजा रक्षतः ॥
- 7सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥
- 8सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ॥
- 9भ्रातरं सुरथं राज्ये ह्यभिषिच्य ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥
- 10सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।तप्त्वा सुदुष्करं प्राप्तो ॥
- 11तस्य मे क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥
- 12भगवन्ब्रह्मलोको ऽयं ।कस्यायं क्षुत्पिपासानुगो ह्यहम् ॥
- 13कश्च मे तन्मे ब्रूहि पितामह ॥
- 14पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि नित्यशः ॥
- 15स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥
- 16तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।पुरा तु भिक्षा वै यतये नृप ।न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ॥
- 17दत्तं न ते ऽस्ति सूक्ष्मो ऽपि निषेवसे ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥
- 18स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥
- 19यदा तु तद्वनं श्वेत सुमहानृषिः ।आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥
- 20स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥
- 21सो ऽहं भगवतः श्रुत्वा निश्चयम् ।आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥
- 22बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥
- 23तस्य मे कृच्छ्रादस्माद्विमोचय ।अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥
- 24इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥
- 25इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥
- 26यच्छामि भोगांश्च ।तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥
- 27तस्याहं स्वर्गिणो वाक्यं श्रुत्वा ।पजग्राह तदाभरणमुत्तमम् ॥
- 28मया तु तस्मिन्नाभरणे शुभे ।मानुषः पूर्वको देहो राजर्षे ॥
- 29तु शरीरे ऽसौ राजर्षिः परया मुदा ।तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥
- 30तेनेदं दिव्यमाभरणं मम ।तस्मिन्निमित्ते दत्तमद्भुतदर्शनम् ॥