Leave

Vālmīki Rāmāyaṇa · Daṇḍa and Arajā

Tap a verse for its meaning

  1. 1
    एतदाख्याय रामाय महर्षिः ।अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥
  2. 2
    ततः स काकुत्स्थ बहुवर्षगणायुतम् ।अकरोत्तत्र राज्यं निहतकण्टकम् ॥
  3. 3
    अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् ।रमणीयमुपाक्राम मनोरमे ॥
  4. 4
    तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ।विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ॥
  5. 5
    स दृष्ट्वा तां ।अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥
  6. 6
    कुतस्त्वमसि कस्य वा ऽसि सुता शुभे ।पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ॥
  7. 7
    तस्य त्वेवं ब्रुवाणस्य कामिनः । प्रत्युवाचेदं वचः सानुनयं नृपम् ॥
  8. 8
    भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ।अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥
  9. 9
    मा मां स्पृश बलाद्राजन्कन्या ह्यहम् ।गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ।व्यसनं सुमहत्क्रुद्धः स ते दद्या ॥
  10. 10
    यदि वान्यन्मया कार्यं सत्पथा । नरश्रेष्ठ पितरं मे महाद्युतिम् ॥
  11. 11
    अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् ।क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि ॥
  12. 12
    दास्यते चानवद्याङ्ग तव मा पिता ॥
  13. 13
    एवं ब्रुवाणामरजां दण्डः । मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥
  14. 14
    सुश्रोणि न कालं क्षेप्तुमर्हसि ।त्वत्कृते हि मम प्राणा वरानने ॥
  15. 15
    त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः ।भक्तं भजस्व मां भीरु भजमानं ॥
  16. 16
    एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य ।विस्फुरन्तीं यथाकामं पचक्रमे ॥
  17. 17
    एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् ।नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥
  18. 18
    अरजा ऽपि सा आश्रमस्याविदूरतः ।प्रतीक्षते सुसंत्रस्ता पितरं ॥