Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sages Ask at Naimisa
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
जन्माद्यस्य
यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः
स्वराट्
तेने
ब्रह्महृदा
य
आदिकवये
मुह्यन्ति
यत्सूरयः
।
तेजोवारिमृदां
यथा
विनिमयो
यत्र
त्रिसर्गोऽमृषा
धाम्ना
स्वेन
सदा
निरस्तकुहकं
सत्यं
परं
धीमहि
2
▾
Meaning
Keep
धर्मः
प्रोज्झितकैतवोऽत्र
परमो
निर्मत्सराणां
सतां
वेद्यं
वास्तवमत्र
वस्तु
शिवदं
तापत्रयोन्मूलनम्
।
श्रीमद्भागवते
महामुनिकृते
किं
वा
परैरीश्वरः
सद्यो
हृद्यवरुध्यतेऽत्र
कृतिभिः
शुश्रूषुभिस्तत्क्षणात्
3
▾
Meaning
Keep
निगमकल्पतरोर्गलितं
फलं
शुकमुखादमृतद्रवसंयुतम्
।
पिबत
भागवतं
रसमालयं
मुहुरहो
रसिका
भुवि
भावुकाः
4
▾
Meaning
Keep
नैमिषेऽनिमिषक्षेत्रे
ऋषयः
शौनकादयः
।
सत्रं
स्वर्गाय
लोकाय
सहस्रसममासत
5
▾
Meaning
Keep
त
एकदा
तु
मुनयः
प्रातर्हुतहुताग्नयः
।
सत्कृतं
सूतमासीनं
पप्रच्छुरिदमादरात्
6
▾
Meaning
Keep
त्वया
खलु
पुराणानि
सेतिहासानि
चानघ
।
आख्यातान्यप्यधीतानि
धर्मशास्त्राणि
यान्युत
7
▾
Meaning
Keep
यानि
वेदविदां
श्रेष्ठो
भगवान्
बादरायणः
।
अन्ये
च
मुनयः
सूत
परावरविदो
विदुः
8
▾
Meaning
Keep
वेत्थ
त्वं
सौम्य
तत्सर्वं
तत्त्वतस्तदनुग्रहात्
।
ब्रूयुः
स्निग्धस्य
शिष्यस्य
गुरवो
गुह्यमप्युत
9
▾
Meaning
Keep
तत्र
तत्राञ्जसाऽऽयुष्मन्
भवता
यद्विनिश्चितम्
।
पुंसामेकान्ततः
श्रेयस्तन्नः
शंसितुमर्हसि
10
▾
Meaning
Keep
प्रायेणाल्पायुषः
सभ्य
कलावस्मिन्
युगे
जनाः
।
मन्दाः
सुमन्दमतयो
मन्दभाग्या
ह्युपद्रुताः
11
▾
Meaning
Keep
भूरीणि
भूरिकर्माणि
श्रोतव्यानि
विभागशः
।
अतः
साधोऽत्र
यत्सारं
समुद्धृत्य
मनीषया
।
ब्रूहि
नः
श्रद्दधानानां
येनात्मा
सुप्रसीदति
12
▾
Meaning
Keep
सूत
जानासि
भद्रं
ते
भगवान्
सात्वतां
पतिः
।
देवक्यां
वसुदेवस्य
जातो
यस्य
चिकीर्षया
13
▾
Meaning
Keep
तन्नः
शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम्
।
यस्यावतारो
भूतानां
क्षेमाय
च
भवाय
च
14
▾
Meaning
Keep
आपन्नः
संसृतिं
घोरां
यन्नाम
विवशो
गृणन्
।
ततः
सद्यो
विमुच्येत
यद्बिभेति
स्वयं
भयम्
15
▾
Meaning
Keep
यत्पादसंश्रयाः
सूत
मुनयः
प्रशमायनाः
।
सद्यः
पुनन्त्युपस्पृष्टाः
स्वर्धुन्यापोऽनुसेवया
16
▾
Meaning
Keep
को
वा
भगवतस्तस्य
पुण्यश्लोकेड्यकर्मणः
।
शुद्धिकामो
न
शृणुयाद्यशः
कलिमलापहम्
17
▾
Meaning
Keep
तस्य
कर्माण्युदाराणि
परिगीतानि
सूरिभिः
।
ब्रूहि
नः
श्रद्दधानानां
लीलया
दधतः
कलाः
18
▾
Meaning
Keep
अथाख्याहि
हरेर्धीमन्नवतारकथाः
शुभाः
।
लीला
विदधतः
स्वैरमीश्वरस्यात्ममायया
19
▾
Meaning
Keep
वयं
तु
न
वितृप्याम
उत्तमश्लोकविक्रमे
।
यच्छृण्वतां
रसज्ञानां
स्वादु
स्वादु
पदे
पदे
20
▾
Meaning
Keep
कृतवान्
किल
वीर्याणि
सह
रामेण
केशवः
।
अतिमर्त्यानि
भगवान्
गूढः
कपटमानुषः
21
▾
Meaning
Keep
कलिमागतमाज्ञाय
क्षेत्रेऽस्मिन्
वैष्णवे
वयम्
।
आसीना
दीर्घसत्रेण
कथायां
सक्षणा
हरेः
22
▾
Meaning
Keep
त्वं
नः
सन्दर्शितो
धात्रा
दुस्तरं
निस्तितीर्षताम्
।
कलिं
सत्त्वहरं
पुंसां
कर्णधार
इवार्णवम्
23
▾
Meaning
Keep
ब्रूहि
योगेश्वरे
कृष्णे
ब्रह्मण्ये
धर्मवर्मणि
।
स्वां
काष्ठामधुनोपेते
धर्मः
कं
शरणं
गतः
Next
The Highest Calling
→