Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Krsna Leaves for Dvaraka
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
हत्वा
स्वरिक्थस्पृध
आततायिनो
युधिष्ठिरो
धर्मभृतां
वरिष्ठः
।
सहानुजैः
प्रत्यवरुद्धभोजनः
कथं
प्रवृत्तः
किमकारषीत्ततः
2
▾
Meaning
Keep
वंशं
कुरोर्वंशदवाग्निनिर्हृतं
संरोहयित्वा
भवभावनो
हरिः
।
निवेशयित्वा
निजराज्य
ईश्वरो
युधिष्ठिरं
प्रीतमना
बभूव
ह
3
▾
Meaning
Keep
निशम्य
भीष्मोक्तमथाच्युतोक्तं
प्रवृत्तविज्ञानविधूतविभ्रमः
।
शशास
गामिन्द्र
इवाजिताश्रयः
परिध्युपान्तामनुजानुवर्तितः
4
▾
Meaning
Keep
कामं
ववर्ष
पर्जन्यः
सर्वकामदुघा
मही
।
सिषिचुः
स्म
व्रजान्
गावः
पयसोधस्वतीर्मुदा
5
▾
Meaning
Keep
नद्यः
समुद्रा
गिरयः
सवनस्पतिवीरुधः
।
फलन्त्योषधयः
सर्वाः
काममन्वृतु
तस्य
वै
6
▾
Meaning
Keep
नाधयो
व्याधयः
क्लेशा
दैवभूतात्महेतवः
।
अजातशत्रावभवन्
जन्तूनां
राज्ञि
कर्हिचित्
7
▾
Meaning
Keep
उषित्वा
हास्तिनपुरे
मासान्
कतिपयान्
हरिः
।
सुहृदां
च
विशोकाय
स्वसुश्च
प्रियकाम्यया
8
▾
Meaning
Keep
आमन्त्र्य
चाभ्यनुज्ञातः
परिष्वज्याभिवाद्य
तम्
।
आरुरोह
रथं
कैश्चित्परिष्वक्तोऽभिवादितः
9
▾
Meaning
Keep
सुभद्रा
द्रौपदी
कुन्ती
विराटतनया
तथा
।
गान्धारी
धृतराष्ट्रश्च
युयुत्सुर्गौतमो
यमौ
10
▾
Meaning
Keep
वृकोदरश्च
धौम्यश्च
स्त्रियो
मत्स्यसुतादयः
।
न
सेहिरे
विमुह्यन्तो
विरहं
शार्ङ्गधन्वनः
11
▾
Meaning
Keep
सत्सङ्गान्मुक्तदुःसङ्गो
हातुं
नोत्सहते
बुधः
।
कीर्त्यमानं
यशो
यस्य
सकृदाकर्ण्य
रोचनम्
12
▾
Meaning
Keep
तस्मिन्
न्यस्तधियः
पार्थाः
सहेरन्
विरहं
कथम्
।
दर्शनस्पर्शसंलापशयनासनभोजनैः
13
▾
Meaning
Keep
सर्वे
तेऽनिमिषैरक्षैस्तमनुद्रुतचेतसः
।
वीक्षन्तः
स्नेहसम्बद्धा
विचेलुस्तत्र
तत्र
ह
14
▾
Meaning
Keep
न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते
।
निर्यात्यगारान्नोऽभद्रमिति
स्याद्बान्धवस्त्रियः
15
▾
Meaning
Keep
मृदङ्गशङ्खभेर्यश्च
वीणापणवगोमुखाः
।
धुन्धुर्यानकघण्टाद्या
नेदुर्दुन्दुभयस्तथा
16
▾
Meaning
Keep
प्रासादशिखरारूढाः
कुरुनार्यो
दिदृक्षया
।
ववृषुः
कुसुमैः
कृष्णं
प्रेमव्रीडास्मितेक्षणाः
17
▾
Meaning
Keep
सितातपत्रं
जग्राह
मुक्तादामविभूषितम्
।
रत्नदण्डं
गुडाकेशः
प्रियः
प्रियतमस्य
ह
18
▾
Meaning
Keep
उद्धवः
सात्यकिश्चैव
व्यजने
परमाद्भुते
।
विकीर्यमाणः
कुसुमै
रेजे
मधुपतिः
पथि
19
▾
Meaning
Keep
अश्रूयन्ताशिषः
सत्यास्तत्र
तत्र
द्विजेरिताः
।
नानुरूपानुरूपाश्च
निर्गुणस्य
गुणात्मनः
20
▾
Meaning
Keep
अन्योन्यमासीत्संजल्प
उत्तमश्लोकचेतसाम्
।
कौरवेन्द्रपुरस्त्रीणां
सर्वश्रुतिमनोहरः
21
▾
Meaning
Keep
स
वै
किलायं
पुरुषः
पुरातनो
य
एक
आसीदविशेष
आत्मनि
।
अग्रे
गुणेभ्यो
जगदात्मनीश्वरे
निमीलितात्मन्
निशि
सुप्तशक्तिषु
22
▾
Meaning
Keep
स
एव
भूयो
निजवीर्यचोदितां
स्वजीवमायां
प्रकृतिं
सिसृक्षतीम्
।
अनामरूपात्मनि
रूपनामनी
विधित्समानोऽनुससार
शास्त्रकृत्
23
▾
Meaning
Keep
स
वा
अयं
यत्पदमत्र
सूरयो
जितेन्द्रिया
निर्जितमातरिश्वनः
।
पश्यन्ति
भक्त्युत्कलितामलात्मना
नन्वेष
सत्त्वं
परिमार्ष्टुमर्हति
24
▾
Meaning
Keep
स
वा
अयं
सख्यनुगीतसत्कथो
वेदेषु
गुह्येषु
च
गुह्यवादिभिः
।
य
एक
ईशो
जगदात्मलीलया
सृजत्यवत्यत्ति
न
तत्र
सज्जते
25
▾
Meaning
Keep
यदा
ह्यधर्मेण
तमोधियो
नृपा
जीवन्ति
तत्रैष
हि
सत्त्वतः
किल
।
धत्ते
भगं
सत्यमृतं
दयां
यशो
भवाय
रूपाणि
दधद्युगे
युगे
26
▾
Meaning
Keep
अहो
अलं
श्लाघ्यतमं
यदोः
कुल-
महो
अलं
पुण्यतमं
मधोर्वनम्
।
यदेष
पुंसामृषभः
श्रियः
पतिः
स्वजन्मना
चङ्क्रमणेन
चाञ्चति
27
▾
Meaning
Keep
अहो
बत
स्वर्यशसस्तिरस्करी
कुशस्थली
पुण्ययशस्करी
भुवः
।
पश्यन्ति
नित्यं
यदनुग्रहेषितं
स्मितावलोकं
स्वपतिं
स्म
यत्प्रजाः
28
▾
Meaning
Keep
नूनं
व्रतस्नानहुतादिनेश्वरः
समर्चितो
ह्यस्य
गृहीतपाणिभिः
।
पिबन्ति
याः
सख्यधरामृतं
मुहुर्व्रजस्त्रियः
संमुमुहुर्यदाशयाः
29
▾
Meaning
Keep
या
वीर्यशुल्केन
हृताः
स्वयंवरे
प्रमथ्य
चैद्यप्रमुखान्
हि
शुष्मिणः
।
प्रद्युम्नसाम्बाम्बसुतादयोऽपरा
याश्चाहृता
भौमवधे
सहस्रशः
30
▾
Meaning
Keep
एताः
परं
स्त्रीत्वमपास्तपेशलं
निरस्तशौचं
बत
साधु
कुर्वते
।
यासां
गृहात्पुष्करलोचनः
पति-
र्न
जात्वपैत्याहृतिभिर्हृदि
स्पृशन्
31
▾
Meaning
Keep
एवंविधा
गदन्तीनां
स
गिरः
पुरयोषिताम्
।
निरीक्षणेनाभिनन्दन्
सस्मितेन
ययौ
हरिः
32
▾
Meaning
Keep
अजातशत्रुः
पृतनां
गोपीथाय
मधुद्विषः
।
परेभ्यः
शङ्कितः
स्नेहात्प्रायुङ्क्त
चतुरङ्गिणीम्
33
▾
Meaning
Keep
अथ
दूरागतान्
शौरिः
कौरवान्
विरहातुरान्
।
सन्निवर्त्य
दृढं
स्निग्धान्
प्रायात्स्वनगरीं
प्रियैः
34
▾
Meaning
Keep
कुरुजाङ्गलपाञ्चालान्
शूरसेनान्
सयामुनान्
।
ब्रह्मावर्तं
कुरुक्षेत्रं
मत्स्यान्
सारस्वतानथ
35
▾
Meaning
Keep
मरुधन्वमतिक्रम्य
सौवीराभीरयोः
परान्
।
आनर्तान्
भार्गवोपागाच्छ्रान्तवाहो
मनाग्
विभुः
36
▾
Meaning
Keep
तत्र
तत्र
ह
तत्रत्यैर्हरिः
प्रत्युद्यतार्हणः
।
सायं
भेजे
दिशं
पश्चाद्गविष्ठो
गां
गतस्तदा
Previous
←
Bhisma Lets Go
Next
Dvaraka Welcomes Him Home
→