Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Account of Creation
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
देवदेव
नमस्तेऽस्तु
भूतभावन
पूर्वज
।
तद्विजानीहि
यज्ज्ञानमात्मतत्त्वनिदर्शनम्
2
▾
Meaning
Keep
यद्रूपं
यदधिष्ठानं
यतः
सृष्टमिदं
प्रभो
।
यत्संस्थं
यत्परं
यच्च
तत्तत्त्वं
वद
तत्त्वतः
3
▾
Meaning
Keep
सर्वं
ह्येतद्भवान्
वेद
भूतभव्यभवत्प्रभुः
।
करामलकवद्विश्वं
विज्ञानावसितं
तव
4
▾
Meaning
Keep
यद्विज्ञानो
यदाधारो
यत्परस्त्वं
यदात्मकः
।
एकः
सृजसि
भूतानि
भूतैरेवात्ममायया
5
▾
Meaning
Keep
आत्मन्
भावयसे
तानि
न
पराभावयन्
स्वयम्
।
आत्मशक्तिमवष्टभ्य
ऊर्णनाभिरिवाक्लमः
6
▾
Meaning
Keep
नाहं
वेद
परं
ह्यस्मिन्नापरं
न
समं
विभो
।
नामरूपगुणैर्भाव्यं
सदसत्
किञ्चिदन्यतः
7
▾
Meaning
Keep
स
भवानचरद्
घोरं
यत्
तपः
सुसमाहितः
।
तेन
खेदयसे
नस्त्वं
पराशङ्कां
च
यच्छसि
8
▾
Meaning
Keep
एतन्मे
पृच्छतः
सर्वं
सर्वज्ञ
सकलेश्वर
।
विजानीहि
यथैवेदमहं
बुध्येऽनुशासितः
9
▾
Meaning
Keep
सम्यक्कारुणिकस्येदं
वत्स
ते
विचिकित्सितम्
।
यदहं
चोदितः
सौम्य
भगवद्वीर्यदर्शने
10
▾
Meaning
Keep
नानृतं
तव
तच्चापि
यथा
मां
प्रब्रवीषि
भोः
।
अविज्ञाय
परं
मत्त
एतावत्त्वं
यतो
हि
मे
11
▾
Meaning
Keep
येन
स्वरोचिषा
विश्वं
रोचितं
रोचयाम्यहम्
।
यथार्कोऽग्निर्यथा
सोमो
यथर्क्षग्रहतारकाः
12
▾
Meaning
Keep
तस्मै
नमो
भगवते
वासुदेवाय
धीमहि
।
यन्मायया
दुर्जयया
मां
ब्रुवन्ति
जगद्गुरुम्
13
▾
Meaning
Keep
विलज्जमानया
यस्य
स्थातुमीक्षापथेऽमुया
।
विमोहिता
विकत्थन्ते
ममाहमिति
दुर्धियः
14
▾
Meaning
Keep
द्रव्यं
कर्म
च
कालश्च
स्वभावो
जीव
एव
च
।
वासुदेवात्परो
ब्रह्मन्
न
चान्योऽर्थोऽस्ति
तत्त्वतः
15
▾
Meaning
Keep
नारायणपरा
वेदा
देवा
नारायणाङ्गजाः
।
नारायणपरा
लोका
नारायणपरा
मखाः
16
▾
Meaning
Keep
नारायणपरो
योगो
नारायणपरं
तपः
।
नारायणपरं
ज्ञानं
नारायणपरा
गतिः
17
▾
Meaning
Keep
तस्यापि
द्रष्टुरीशस्य
कूटस्थस्याखिलात्मनः
।
सृज्यं
सृजामि
सृष्टोऽहमीक्षयैवाभिचोदितः
18
▾
Meaning
Keep
सत्त्वं
रजस्तम
इति
निर्गुणस्य
गुणास्त्रयः
।
स्थितिसर्गनिरोधेषु
गृहीता
मायया
विभोः
19
▾
Meaning
Keep
कार्यकारणकर्तृत्वे
द्रव्यज्ञानक्रियाश्रयाः
।
बध्नन्ति
नित्यदा
मुक्तं
मायिनं
पुरुषं
गुणाः
20
▾
Meaning
Keep
स
एष
भगवाँल्लिङ्गैस्त्रिभिरेतैरधोक्षजः
।
स्वलक्षितगतिर्ब्रह्मन्
सर्वेषां
मम
चेश्वरः
21
▾
Meaning
Keep
कालं
कर्म
स्वभावं
च
मायेशो
मायया
स्वया
।
आत्मन्
यदृच्छया
प्राप्तं
विबुभूषुरुपाददे
22
▾
Meaning
Keep
कालाद्गुणव्यतिकरः
परिणामः
स्वभावतः
।
कर्मणो
जन्म
महतः
पुरुषाधिष्ठितादभूत्
23
▾
Meaning
Keep
महतस्तु
विकुर्वाणाद्रजःसत्त्वोपबृंहितात्
।
तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः
24
▾
Meaning
Keep
सोऽहङ्कार
इति
प्रोक्तो
विकुर्वन्
समभूत्त्रिधा
।
वैकारिकस्तैजसश्च
तामसश्चेति
यद्भिदा
।
द्रव्यशक्तिः
क्रियाशक्तिर्ज्ञानशक्तिरिति
प्रभो
25
▾
Meaning
Keep
तामसादपि
भूतादेर्विकुर्वाणादभून्नभः
।
तस्य
मात्रा
गुणः
शब्दो
लिङ्गं
यद्द्रष्टृदृश्ययोः
26
▾
Meaning
Keep
नभसोऽथ
विकुर्वाणादभूत्स्पर्शगुणोऽनिलः
।
परान्वयाच्छब्दवांश्च
प्राण
ओजः
सहो
बलम्
27
▾
Meaning
Keep
वायोरपि
विकुर्वाणात्कालकर्मस्वभावतः
।
उदपद्यत
तेजो
वै
रूपवत्स्पर्शशब्दवत्
28
▾
Meaning
Keep
तेजसस्तु
विकुर्वाणादासीदम्भो
रसात्मकम्
।
रूपवत्स्पर्शवच्चाम्भो
घोषवच्च
परान्वयात्
29
▾
Meaning
Keep
विशेषस्तु
विकुर्वाणादम्भसो
गन्धवानभूत्
।
परान्वयाद्रसस्पर्शशब्दरूपगुणान्वितः
30
▾
Meaning
Keep
वैकारिकान्मनो
जज्ञे
देवा
वैकारिका
दश
।
दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रका
31
▾
Meaning
Keep
तैजसात्तु
विकुर्वाणादिन्द्रियाणि
दशाभवन्
।
ज्ञानशक्तिः
क्रियाशक्तिर्बुद्धिः
प्राणश्च
तैजसौ
।
श्रोत्रं
त्वग्घ्राणदृग्जिह्वा
वाग्दोर्मेढ्राङ्घ्रिपायवः
32
▾
Meaning
Keep
यदैतेऽसङ्गता
भावा
भूतेन्द्रियमनोगुणाः
।
यदायतननिर्माणे
न
शेकुर्ब्रह्मवित्तम
33
▾
Meaning
Keep
तदा
संहत्य
चान्योन्यं
भगवच्छक्तिचोदिताः
।
सदसत्त्वमुपादाय
चोभयं
ससृजुर्ह्यदः
34
▾
Meaning
Keep
वर्षपूगसहस्रान्ते
तदण्डमुदकेशयम्
।
कालकर्मस्वभावस्थो
जीवोऽजीवमजीवयत्
35
▾
Meaning
Keep
स
एव
पुरुषस्तस्मादण्डं
निर्भिद्य
निर्गतः
।
सहस्रोर्वङ्घ्रिबाह्वक्षः
सहस्राननशीर्षवान्
36
▾
Meaning
Keep
यस्येहावयवैर्लोकान्
कल्पयन्ति
मनीषिणः
।
कट्यादिभिरधः
सप्त
सप्तोर्ध्वं
जघनादिभिः
37
▾
Meaning
Keep
पुरुषस्य
मुखं
ब्रह्म
क्षत्रमेतस्य
बाहवः
।
ऊर्वोर्वैश्यो
भगवतः
पद्भ्यां
शूद्रोऽभ्यजायत
38
▾
Meaning
Keep
भूर्लोकः
कल्पितः
पद्भ्यां
भुवर्लोकोऽस्य
नाभितः
।
हृदा
स्वर्लोक
उरसा
महर्लोको
महात्मनः
39
▾
Meaning
Keep
ग्रीवायां
जनलोकश्च
तपोलोकः
स्तनद्वयात्
।
मूर्धभिः
सत्यलोकस्तु
ब्रह्मलोकः
सनातनः
40
▾
Meaning
Keep
तत्कट्यां
चातलं
कॢप्तमूरुभ्यां
वितलं
विभोः
।
जानुभ्यां
सुतलं
शुद्धं
जङ्घाभ्यां
तु
तलातलम्
41
▾
Meaning
Keep
महातलं
तु
गुल्फाभ्यां
प्रपदाभ्यां
रसातलम्
।
पातालं
पादतलत
इति
लोकमयः
पुमान्
42
▾
Meaning
Keep
भूर्लोकः
कल्पितः
पद्भ्यां
भुवर्लोकोऽस्य
नाभितः
।
स्वर्लोकः
कल्पितो
मूर्ध्ना
इति
वा
लोककल्पना
Previous
←
Suka's Salutations, and the Question About Creation
Next
The Limbs of the Person
→