Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Descents Counted Over
Śrīmad Bhāgavatam
›
Canto 2
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यत्रोद्यतः
क्षितितलोद्धरणाय
बिभ्रत्-
क्रौडीं
तनुं
सकलयज्ञमयीमनन्तः
।
अन्तर्महार्णव
उपागतमादिदैत्यं
तं
दंष्ट्रयाद्रिमिव
वज्रधरो
ददार
2
▾
Meaning
Keep
जातो
रुचेरजनयत्सुयमान्
सुयज्ञ
आकूतिसूनुरमरानथ
दक्षिणायाम्
।
लोकत्रयस्य
महतीमहरद्
यदार्तिं
स्वायंभुवेन
मनुना
हरिरित्यनूक्तः
3
▾
Meaning
Keep
जज्ञे
च
कर्दमगृहे
द्विज
देवहूत्यां
स्त्रीभिः
समं
नवभिरात्मगतिं
स्वमात्रे
।
ऊचे
ययाऽऽत्मशमलं
गुणसङ्गपङ्क-
मस्मिन्विधूय
कपिलस्य
गतिं
प्रपेदे
4
▾
Meaning
Keep
अत्रेरपत्यमभिकाङ्क्षत
आह
तुष्टो
दत्तो
मयाहमिति
यद्भगवान्
स
दत्तः
।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं
यदुहैहयाद्याः
5
▾
Meaning
Keep
तप्तं
तपो
विविधलोकसिसृक्षया
मे
आदौ
सनात्स्वतपसः
स
चतुःसनोऽभूत्
।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं
सम्यग्जगाद
मुनयो
यदचक्षतात्मन्
6
▾
Meaning
Keep
धर्मस्य
दक्षदुहितर्यजनिष्ट
मूर्त्यां
नारायणो
नर
इति
स्वतपःप्रभावः
।
दृष्ट्वाऽऽत्मनो
भगवतो
नियमावलोपं
देव्यस्त्वनङ्गपृतना
घटितुं
न
शेकुः
7
▾
Meaning
Keep
कामं
दहन्ति
कृतिनो
ननु
रोषदृष्ट्या
रोषं
दहन्तमुत
ते
न
दहन्त्यसह्यम्
।
सोऽयं
यदन्तरमलं
प्रविशन्
बिभेति
कामः
कथं
नु
पुनरस्य
मनः
श्रयेत
8
▾
Meaning
Keep
विद्धः
सपत्न्युदितपत्रिभिरन्ति
राज्ञो
बालोऽपि
सन्नुपगतस्तपसे
वनानि
।
तस्मा
अदाद्ध्रुवगतिं
गृणते
प्रसन्नो
दिव्याः
स्तुवन्ति
मुनयो
यदुपर्यधस्तात्
9
▾
Meaning
Keep
यद्
वेनमुत्पथगतं
द्विजवाक्यवज्रविप्लुष्टपौरुषभगं
निरये
पतन्तम्
।
त्रात्वार्थितो
जगति
पुत्रपदं
च
लेभे
दुग्धा
वसूनि
वसुधा
सकलानि
येन
10
▾
Meaning
Keep
नाभेरसावृषभ
आस
सुदेविसूनु-
र्यो
वै
चचार
समदृग्जडयोगचर्याम्
।
यत्पारमहंस्यमृषयः
पदमामनन्ति
स्वस्थः
प्रशान्तकरणः
परिमुक्तसङ्गः
11
▾
Meaning
Keep
सत्रे
ममास
भगवान्
हयशीरषाथो
साक्षात्स
यज्ञपुरुषस्तपनीयवर्णः
।
छन्दोमयो
मखमयोऽखिलदेवतात्मा
वाचो
बभूवुरुशतीः
श्वसतोऽस्य
नस्तः
12
▾
Meaning
Keep
मत्स्यो
युगान्तसमये
मनुनोपलब्धः
क्षोणीमयो
निखिलजीवनिकायकेतः
।
विस्रंसितानुरुभये
सलिले
मुखान्मे
आदाय
तत्र
विजहार
ह
वेदमार्गान्
13
▾
Meaning
Keep
क्षीरोदधावमरदानवयूथपाना-
मुन्मथ्नताममृतलब्धय आदिदेवः ।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डूः
14
▾
Meaning
Keep
त्रैपिष्टपोरुभयहा
स
नृसिंहरूपं
कृत्वा
भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम्
।
दैत्येन्द्रमाशु
गदयाभिपतन्तमारा-
दूरौ
निपात्य
विददार
नखैः
स्फुरन्तम्
15
▾
Meaning
Keep
अन्तःसरस्युरुबलेन
पदे
गृहीतो
ग्राहेण
यूथपतिरम्बुजहस्त
आर्तः
।
आहेदमादिपुरुषाखिललोकनाथ
तीर्थश्रवः
श्रवणमङ्गलनामधेय
16
▾
Meaning
Keep
श्रुत्वा
हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुधः
पतगराजभुजाधिरूढः
।
चक्रेण
नक्रवदनं
विनिपाट्य
तस्मा-
द्धस्ते
प्रगृह्य
भगवान्
कृपयोज्जहार
17
▾
Meaning
Keep
ज्यायान्
गुणैरवरजोऽप्यदितेः
सुतानां
लोकान्
विचक्रम
इमान्
यदथाधियज्ञः
।
क्ष्मां
वामनेन
जगृहे
त्रिपदच्छलेन
याच्ञामृते
पथि
चरन्
प्रभुभिर्न
चाल्यः
18
▾
Meaning
Keep
नार्थो
बलेरयमुरुक्रमपादशौच-
मापः
शिखाधृतवतो
विबुधाधिपत्यम्
।
यो
वै
प्रतिश्रुतमृते
न
चिकीर्षदन्य-
दात्मानमङ्ग
मनसा
हरयेऽभिमेने
19
▾
Meaning
Keep
तुभ्यं
च
नारद
भृशं
भगवान्
विवृद्ध-
भावेन
साधु
परितुष्ट
उवाच
योगम्
।
ज्ञानं
च
भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा
विदुरञ्जसैव
20
▾
Meaning
Keep
चक्रं
च
दिक्ष्वविहतं
दशसु
स्वतेजो
मन्वन्तरेषु
मनुवंशधरो
बिभर्ति
।
दुष्टेषु
राजसु
दमं
व्यदधात्स्वकीर्तिं
सत्ये
त्रिपृष्ठ
उशतीं
प्रथयंश्चरित्रैः
21
▾
Meaning
Keep
धन्वन्तरिश्च
भगवान्
स्वयमेव
कीर्तिर्नाम्ना
नृणां
पुरुरुजां
रुज
आशु
हन्ति
।
यज्ञे
च
भागममृतायुरवावरुन्ध
आयुश्र्व
वेदमनुशास्त्यवतीर्य
लोके
22
▾
Meaning
Keep
क्षत्रं
क्षयाय
विधिनोपभृतं
महात्मा
ब्रह्मध्रुगुज्झितपथं
नरकार्तिलिप्सु
।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस्त्रिःसप्तकृत्व
उरुधारपरश्वधेन
23
▾
Meaning
Keep
अस्मत्प्रसादसुमुखः
कलया
कलेश
इक्ष्वाकुवंश
अवतीर्य
गुरोर्निदेशे
।
तिष्ठन्
वनं
सदयितानुज
आविवेश
यस्मिन्
विरुध्य
दशकन्धर
आर्तिमार्च्छत्
24
▾
Meaning
Keep
यस्मा
अदादुदधिरूढभयाङ्गवेपो
मार्गं
सपद्यरिपुरं
हरवद्दिधक्षोः
।
दूरे
सुहृन्मथितरोषसुशोणदृष्ट्या
तातप्यमानमकरोरगनक्रचक्रः
25
▾
Meaning
Keep
वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-
दन्तैर्विडम्बितककुब्जुष
ऊढहासम्
।
सद्योऽसुभिः
सह
विनेष्यति
दारहर्तु-
र्विस्फूर्जितैर्धनुष
उच्चरतोऽधिसैन्ये
26
▾
Meaning
Keep
भूमेः
सुरेतरवरूथविमर्दितायाः
क्लेशव्ययाय
कलया
सितकृष्णकेशः
।
जातः
करिष्यति
जनानुपलक्ष्यमार्गः
कर्माणि
चात्ममहिमोपनिबन्धनानि
27
▾
Meaning
Keep
तोकेन
जीवहरणं
यदुलूकिकाया-
स्त्रैमासिकस्य
च
पदा
शकटोऽपवृत्तः
।
यद्
रिङ्गतान्तरगतेन
दिविस्पृशोर्वा
उन्मूलनं
त्वितरथार्जुनयोर्न
भाव्यम्
28
▾
Meaning
Keep
यद्वै
व्रजे
व्रजपशून्
विषतोयपीतान्
पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या
।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वमुच्चाटयिष्यदुरगं
विहरन्
ह्रदिन्याम्
29
▾
Meaning
Keep
तत्कर्म
दिव्यमिव
यन्निशि
निःशयानं
दावाग्निना
शुचिवने
परिदह्यमाने
।
उन्नेष्यति
व्रजमतोऽवसितान्तकालं
नेत्रे
पिधाप्य
सबलोऽनधिगम्यवीर्यः
30
▾
Meaning
Keep
गृह्णीत
यद्यदुपबन्धममुष्य
माता
शुल्बं
सुतस्य
न
तु
तत्तदमुष्य
माति
।
यज्जृम्भतोऽस्य
वदने
भुवनानि
गोपी
संवीक्ष्य
शङ्कितमनाः
प्रतिबोधिताऽऽसीत्
31
▾
Meaning
Keep
नन्दं
च
मोक्ष्यति
भयाद्
वरुणस्य
पाशाद्
गोपान्
बिलेषु
पिहितान्मयसूनुना
च
।
अह्न्यापृतं
निशि
शयानमतिश्रमेण
लोकं
विकुण्ठ
उपनेष्यति
गोकुलं
स्म
32
▾
Meaning
Keep
गोपैर्मखे
प्रतिहते
व्रजविप्लवाय
देवेऽभिवर्षति
पशून्
कृपया
रिरक्षुः
।
धर्तोच्छिलीन्ध्रमिव
सप्तदिनानि
सप्त-
वर्षो
महीध्रमनघैककरे
सलीलम्
33
▾
Meaning
Keep
क्रीडन्
वने
निशि
निशाकररश्मिगौर्यां
रासोन्मुखः
कलपदायतमूर्च्छितेन
।
उद्दीपितस्मररुजां
व्रजभृद्वधूनां
हर्तुर्हरिष्यति
शिरो
धनदानुगस्य
34
▾
Meaning
Keep
ये
च
प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभकंसयवनाः
कुजपौण्ड्रकाद्याः
।
अन्ये
च
शाल्वकपिबल्वलदन्तवक्रसप्तोक्षशम्बरविदूरथरुक्मिमुख्याः
35
▾
Meaning
Keep
ये
वा
मृधे
समितिशालिन
आत्तचापाः
काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः
।
यास्यन्त्यदर्शनमलं
बलपार्थभीम-
व्याजाह्वयेन
हरिणा
निलयं
तदीयम्
36
▾
Meaning
Keep
कालेन
मीलितधियामवमृश्य
नॄणां
स्तोकायुषां
स्वनिगमो
बत
दूरपारः
।
आविर्हितस्त्वनुयुगं
स
हि
सत्यवत्यां
वेदद्रुमं
विटपशो
विभजिष्यति
स्म
37
▾
Meaning
Keep
देवद्विषां
निगमवर्त्मनि
निष्ठितानां
पूर्भिर्मयेन
विहिताभिरदृश्यतूर्भिः
।
लोकान्
घ्नतां
मतिविमोहमतिप्रलोभं
वेषं
विधाय
बहु
भाष्यत
औपधर्म्यम्
38
▾
Meaning
Keep
यर्ह्यालयेष्वपि
सतां
न
हरेः
कथाः
स्युः
पाषण्डिनो
द्विजजना
वृषला
नृदेवाः
।
स्वाहा
स्वधा
वषडिति
स्म
गिरो
न
यत्र
शास्ता
भविष्यति
कलेर्भगवान्
युगान्ते
39
▾
Meaning
Keep
सर्गे
तपोऽहमृषयो
नव
ये
प्रजेशाः
स्थाने
च
धर्ममखमन्वमरावनीशाः
।
अन्ते
त्वधर्महरमन्युवशासुराद्या
मायाविभूतय
इमाः
पुरुशक्तिभाजः
40
▾
Meaning
Keep
विष्णोर्नु
वीर्यगणनां
कतमोऽर्हतीह
यः
पार्थिवान्यपि
कविर्विममे
रजांसि
।
चस्कम्भ
यः
स्वरहसास्खलता
त्रिपृष्ठं
यस्मात्त्रिसाम्यसदनादुरुकम्पयानम्
41
▾
Meaning
Keep
नान्तं
विदाम्यहममी
मुनयोऽग्रजास्ते
मायाबलस्य
पुरुषस्य
कुतोऽपरे
ये
।
गायन्
गुणान्
दशशतानन
आदिदेवः
शेषोऽधुनापि
समवस्यति
नास्य
पारम्
42
▾
Meaning
Keep
येषां
स
एष
भगवान्
दययेदनन्तः
सर्वात्मनाऽऽश्रितपदो
यदि
निर्व्यलीकम्
।
ते
दुस्तरामतितरन्ति
च
देवमायां
नैषां
ममाहमिति
धीः
श्वशृगालभक्ष्ये
43
▾
Meaning
Keep
वेदाहमङ्ग
परमस्य
हि
योगमायां
यूयं
भवश्च
भगवानथ
दैत्यवर्यः
।
पत्नी
मनोः
स
च
मनुश्च
तदात्मजाश्च
प्राचीनबर्हिरृभुरङ्ग
उत
ध्रुवश्च
44
▾
Meaning
Keep
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-
रघ्वम्बरीषसगरा
गयनाहुषाद्याः
।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा
देवव्रतो
बलिरमूर्त्तरयो
दिलीपः
45
▾
Meaning
Keep
सौभर्युतङ्कशिबिदेवलपिप्पलाद-
सारस्वतोद्धवपराशरभूरिषेणाः
।
येऽन्ये
विभीषणहनूमदुपेन्द्रदत्त-
पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः
46
▾
Meaning
Keep
ते
वै
विदन्त्यतितरन्ति
च
देवमायां
स्त्रीशूद्रहूणशबरा
अपि
पापजीवाः
।
यद्यद्भुतक्रमपरायणशीलशिक्षा-
स्तिर्यग्जना
अपि
किमु
श्रुतधारणा
ये
47
▾
Meaning
Keep
शश्वत्प्रशान्तमभयं
प्रतिबोधमात्रं
शुद्धं
समं
सदसतः
परमात्मतत्त्वम्
।
शब्दो
न
यत्र
पुरुकारकवान्
क्रियार्थो
माया
परैत्यभिमुखे
च
विलज्जमाना
48
▾
Meaning
Keep
तद्वै
पदं
भगवतः
परमस्य
पुंसो
ब्रह्मेति
यद्विदुरजस्रसुखं
विशोकम्
।
सध्र्यङ्
नियम्य
यतयो
यमकर्तहेतिं
जह्युः
स्वराडिव
निपानखनित्रमिन्द्रः
49
▾
Meaning
Keep
स
श्रेयसामपि
विभुर्भगवान्
यतोऽस्य
भावस्वभावविहितस्य
सतः
प्रसिद्धिः
।
देहे
स्वधातुविगमेऽनुविशीर्यमाणे
व्योमेव
तत्र
पुरुषो
न
विशीर्यतेऽजः
50
▾
Meaning
Keep
सोऽयं
तेऽभिहितस्तात
भगवान्
विश्वभावनः
।
समासेन
हरेर्नान्यदन्यस्मात्सदसच्च
यत्
51
▾
Meaning
Keep
इदं
भागवतं
नाम
यन्मे
भगवतोदितम्
।
संग्रहोऽयं
विभूतीनां
त्वमेतद्विपुलीकुरु
52
▾
Meaning
Keep
यथा
हरौ
भगवति
नृणां
भक्तिर्भविष्यति
।
सर्वात्मन्यखिलाधारे
इति
सङ्कल्प्य
वर्णय
53
▾
Meaning
Keep
मायां
वर्णयतोऽमुष्य
ईश्वरस्यानुमोदतः
।
शृण्वतः
श्रद्धया
नित्यं
माययाऽऽत्मा
न
मुह्यति
Previous
←
The Limbs of the Person
Next
The King's Questions
→