Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Brahma's Praise
Śrīmad Bhāgavatam
›
Canto 3
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ज्ञातोऽसि
मेऽद्य
सुचिरान्ननु
देहभाजां
न
ज्ञायते
भगवतो
गतिरित्यवद्यम्
।
नान्यत्त्वदस्ति
भगवन्नपि
तन्न
शुद्धं
मायागुणव्यतिकराद्यदुरुर्विभासि
2
▾
Meaning
Keep
रूपं
यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमसः
सदनुग्रहाय
।
आदौ
गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम्
3
▾
Meaning
Keep
नातःपरं
परम
यद्भवतः
स्वरूप-
मानन्दमात्रमविकल्पमविद्धवर्चः
।
पश्यामि
विश्वसृजमेकमविश्वमात्मन्
भूतेन्द्रियात्मकमदस्त
उपाश्रितोऽस्मि
4
▾
Meaning
Keep
तद्वा
इदं
भुवनमङ्गल
मङ्गलाय
ध्याने
स्म
नो
दर्शितं
त
उपासकानाम्
।
तस्मै
नमो
भगवतेऽनुविधेम
तुभ्यं
योऽनादृतो
नरकभाग्भिरसत्प्रसङ्गैः
5
▾
Meaning
Keep
ये
तु
त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति
कर्णविवरैः
श्रुतिवातनीतम्
।
भक्त्या
गृहीतचरणः
परया
च
तेषां
नापैषि
नाथ
हृदयाम्बुरुहात्स्वपुंसाम्
6
▾
Meaning
Keep
तावद्भयं
द्रविणदेहसुहृन्निमित्तं
शोकः
स्पृहा
परिभवो
विपुलश्च
लोभः
।
तावन्ममेत्यसदवग्रह
आर्तिमूलं
यावन्न
तेऽङ्घ्रिमभयं
प्रवृणीत
लोकः
7
▾
Meaning
Keep
दैवेन
ते
हतधियो
भवतः
प्रसङ्गा-
त्सर्वाशुभोपशमनाद्विमुखेन्द्रिया
ये
।
कुर्वन्ति
कामसुखलेशलवाय
दीना
लोभाभिभूतमनसोऽकुशलानि
शश्वत्
8
▾
Meaning
Keep
क्षुत्तृट्
त्रिधातुभिरिमा
मुहुरर्द्यमानाः
शीतोष्णवातवरषैरितरेतराच्च
।
कामाग्निनाच्युत
रुषा
च
सुदुर्भरेण
सम्पश्यतो
मन
उरुक्रम
सीदते
मे
9
▾
Meaning
Keep
यावत्पृथक्त्वमिदमात्मन
इन्द्रियार्थमायाबलं
भगवतो
जन
ईश
पश्येत्
।
तावन्न
संसृतिरसौ
प्रतिसंक्रमेत
व्यर्थापि
दुःखनिवहं
वहती
क्रियार्था
10
▾
Meaning
Keep
अह्न्यापृतार्तकरणा
निशि
निःशयाना
नानामनोरथधिया
क्षणभग्ननिद्राः
।
दैवाहतार्थरचना
ऋषयोऽपि
देव
युष्मत्प्रसङ्गविमुखा
इह
संसरन्ति
11
▾
Meaning
Keep
त्वं
भावयोगपरिभावितहृत्सरोज
आस्से
श्रुतेक्षितपथो
ननु
नाथ
पुंसाम्
।
यद्यद्धिया
त
उरुगाय
विभावयन्ति
तत्तद्वपुः
प्रणयसे
सदनुग्रहाय
12
▾
Meaning
Keep
नातिप्रसीदति
तथोपचितोपचारै-
राराधितः
सुरगणैर्हृदि
बद्धकामैः
।
यत्सर्वभूतदययासदलभ्ययैको
नानाजनेष्ववहितः
सुहृदन्तरात्मा
13
▾
Meaning
Keep
पुंसामतो
विविधकर्मभिरध्वराद्यैर्दानेन
चोग्रतपसा
व्रतचर्यया
च
।
आराधनं
भगवतस्तव
सत्क्रियार्थो
धर्मोऽर्पितः
कर्हिचिद्ध्रियते
न
यत्र
14
▾
Meaning
Keep
शश्वत्स्वरूपमहसैव
निपीतभेद-
मोहाय
बोधधिषणाय
नमः
परस्मै
।
विश्वोद्भवस्थितिलयेषु
निमित्तलीला-
रासाय
ते
नम
इदं
चकृमेश्वराय
15
▾
Meaning
Keep
यस्यावतारगुणकर्मविडम्बनानि
नामानि
येऽसुविगमे
विवशा
गृणन्ति
।
तेऽनैकजन्मशमलं
सहसैव
हित्वा
संयान्त्यपावृतामृतं
तमजं
प्रपद्ये
16
▾
Meaning
Keep
यो
वा
अहं
च
गिरिशश्च
विभुः
स्वयं
च
स्थित्युद्भवप्रलयहेतव
आत्ममूलम्
।
भित्त्वा
त्रिपाद्ववृध
एक
उरुप्ररोह-
स्तस्मै
नमो
भगवते
भुवनद्रुमाय
17
▾
Meaning
Keep
लोको
विकर्मनिरतः
कुशले
प्रमत्तः
कर्मण्ययं
त्वदुदिते
भवदर्चने
स्वे
।
यस्तावदस्य
बलवानिह
जीविताशां
सद्यश्छिनत्त्यनिमिषाय
नमोऽस्तु
तस्मै
18
▾
Meaning
Keep
यस्माद्बिभेम्यहमपि
द्विपरार्धधिष्ण्य-
मध्यासितः
सकललोकनमस्कृतं
यत्
।
तेपे
तपो
बहुसवोऽवरुरुत्समान-
स्तस्मै
नमो
भगवतेऽधिमखाय
तुभ्यम्
19
▾
Meaning
Keep
तिर्यङ्मनुष्यविबुधादिषु
जीवयोनिष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया
यः
।
रेमे
निरस्तरतिरप्यवरुद्धदेहस्तस्मै
नमो
भगवते
पुरुषोत्तमाय
20
▾
Meaning
Keep
योऽविद्ययानुपहतोऽपि
दशार्धवृत्त्या
निद्रामुवाह
जठरीकृतलोकयात्रः
।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
भीमोर्मिमालिनि
जनस्य
सुखं
विवृण्वन्
21
▾
Meaning
Keep
यन्नाभिपद्मभवनादहमासमीड्य
लोकत्रयोपकरणो
यदनुग्रहेण
।
तस्मै
नमस्त
उदरस्थभवाय
योग-
निद्रावसानविकसन्नलिनेक्षणाय
22
▾
Meaning
Keep
सोऽयं
समस्तजगतां
सुहृदेक
आत्मा
सत्त्वेन
यन्मृडयते
भगवान्
भगेन
।
तेनैव
मे
दृशमनुस्पृशताद्यथाहं
स्रक्ष्यामि
पूर्ववदिदं
प्रणतप्रियोऽसौ
23
▾
Meaning
Keep
एष
प्रपन्नवरदो
रमयाऽऽत्मशक्त्या
यद्यत्करिष्यति
गृहीतगुणावतारः
।
तस्मिन्
स्वविक्रममिदं
सृजतोऽपि
चेतो
युञ्जीत
कर्मशमलं
च
यथा
विजह्याम्
24
▾
Meaning
Keep
नाभिह्रदादिह
सतोऽम्भसि
यस्य
पुंसो
विज्ञानशक्तिरहमासमनन्तशक्तेः
।
रूपं
विचित्रमिदमस्य
विवृण्वतो
मे
मा
रीरिषीष्ट
निगमस्य
गिरां
विसर्गः
25
▾
Meaning
Keep
सोऽसावदभ्रकरुणो
भगवान्
विवृद्ध-
प्रेमस्मितेन
नयनाम्बुरुहं
विजृम्भन्
।
उत्थाय
विश्वविजयाय
च
नो
विषादं
माध्व्या
गिरापनयतात्पुरुषः
पुराणः
26
▾
Meaning
Keep
स्वसम्भवं
निशाम्यैवं
तपोविद्यासमाधिभिः
।
यावन्मनो
वचः
स्तुत्वा
विरराम
स
खिन्नवत्
27
▾
Meaning
Keep
अथाभिप्रेतमन्वीक्ष्य
ब्रह्मणो
मधुसूदनः
।
विषण्णचेतसं
तेन
कल्पव्यतिकराम्भसा
28
▾
Meaning
Keep
लोकसंस्थानविज्ञान
आत्मनः
परिखिद्यतः
।
तमाहागाधया
वाचा
कश्मलं
शमयन्निव
29
▾
Meaning
Keep
श्रीभगवानुवाच ।
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान्
30
▾
Meaning
Keep
भूयस्त्वं
तप
आतिष्ठ
विद्यां
चैव
मदाश्रयाम्
।
ताभ्यामन्तर्हृदि
ब्रह्मन्
लोकान्
द्रक्ष्यस्यपावृतान्
31
▾
Meaning
Keep
तत
आत्मनि
लोके
च
भक्तियुक्तः
समाहितः
।
द्रष्टासि
मां
ततं
ब्रह्मन्
मयि
लोकांस्त्वमात्मनः
32
▾
Meaning
Keep
यदा
तु
सर्वभूतेषु
दारुष्वग्निमिव
स्थितम्
।
प्रतिचक्षीत
मां
लोको
जह्यात्तर्ह्येव
कश्मलम्
33
▾
Meaning
Keep
यदा
रहितमात्मानं
भूतेन्द्रियगुणाशयैः
।
स्वरूपेण
मयोपेतं
पश्यन्
स्वाराज्यमृच्छति
34
▾
Meaning
Keep
नानाकर्मवितानेन
प्रजा
बह्वीः
सिसृक्षतः
।
नात्मावसीदत्यस्मिंस्ते
वर्षीयान्मदनुग्रहः
35
▾
Meaning
Keep
ऋषिमाद्यं
न
बध्नाति
पापीयांस्त्वां
रजो
गुणः
।
यन्मनो
मयि
निर्बद्धं
प्रजाः
संसृजतोऽपि
ते
36
▾
Meaning
Keep
ज्ञातोऽहं
भवता
त्वद्य
दुर्विज्ञेयोऽपि
देहिनाम्
।
यन्मां
त्वं
मन्यसेऽयुक्तं
भूतेन्द्रियगुणात्मभिः
37
▾
Meaning
Keep
तुभ्यं
मद्विचिकित्सायामात्मा
मे
दर्शितोऽबहिः
।
नालेन
सलिले
मूलं
पुष्करस्य
विचिन्वतः
Hymn
38
▾
Meaning
Keep
यच्चकर्थाङ्ग
मत्स्तोत्रं
मत्कथाभ्युदयाङ्कितम्
।
यद्वा
तपसि
ते
निष्ठा
स
एष
मदनुग्रहः
39
▾
Meaning
Keep
प्रीतोऽहमस्तु
भद्रं
ते
लोकानां
विजयेच्छया
।
यदस्तौषीर्गुणमयं
निर्गुणं
मानुवर्णयन्
40
▾
Meaning
Keep
य
एतेन
पुमान्नित्यं
स्तुत्वा
स्तोत्रेण
मां
भजेत्
।
तस्याशु
सम्प्रसीदेयं
सर्वकामवरेश्वरः
41
▾
Meaning
Keep
पूर्तेन
तपसा
यज्ञैर्दानैर्योगसमाधिना
।
राद्धं
निःश्रेयसं
पुंसां
मत्प्रीतिस्तत्त्वविन्मतम्
42
▾
Meaning
Keep
अहमात्माऽऽत्मनां
धातः
प्रेष्ठः
सन्
प्रेयसामपि
।
अतो
मयि
रतिं
कुर्याद्देहादिर्यत्कृते
प्रियः
43
▾
Meaning
Keep
सर्ववेदमयेनेदमात्मनाऽऽत्माऽऽत्मयोनिना
।
प्रजाः
सृज
यथा
पूर्वं
याश्च
मय्यनुशेरते
44
▾
Meaning
Keep
तस्मा
एवं
जगत्स्रष्ट्रे
प्रधानपुरुषेश्वरः
।
व्यज्येदं
स्वेन
रूपेण
कञ्जनाभस्तिरोदधे
Previous
←
The Lotus and the Birth of Brahma
Next
The Ten Creations
→