Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Daksa Curses Siva
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भवे
शीलवतां
श्रेष्ठे
दक्षो
दुहितृवत्सलः
।
विद्वेषमकरोत्कस्मादनादृत्यात्मजां
सतीम्
2
▾
Meaning
Keep
कस्तं
चराचरगुरुं
निर्वैरं
शान्तविग्रहम्
।
आत्मारामं
कथं
द्वेष्टि
जगतो
दैवतं
महत्
3
▾
Meaning
Keep
एतदाख्याहि
मे
ब्रह्मन्
जामातुः
श्वशुरस्य
च
।
विद्वेषस्तु
यतः
प्राणांस्तत्यजे
दुस्त्यजान्
सती
4
▾
Meaning
Keep
पुरा
विश्वसृजां
सत्रे
समेताः
परमर्षयः
।
तथामरगणाः
सर्वे
सानुगा
मुनयोऽग्नयः
5
▾
Meaning
Keep
तत्र
प्रविष्टमृषयो
दृष्ट्वार्कमिव
रोचिषा
।
भ्राजमानं
वितिमिरं
कुर्वन्तं
तन्महत्सदः
6
▾
Meaning
Keep
उदतिष्ठन्
सदस्यास्ते
स्वधिष्ण्येभ्यः
सहाग्नयः
।
ऋते
विरिञ्चां
शर्वं
च
तद्भासाऽऽक्षिप्तचेतसः
7
▾
Meaning
Keep
सदसस्पतिभिर्दक्षो
भगवान्
साधु
सत्कृतः
।
अजं
लोकगुरुं
नत्वा
निषसाद
तदाज्ञया
8
▾
Meaning
Keep
प्राङ्निषण्णं
मृडं
दृष्ट्वा
नामृष्यत्तदनादृतः
।
उवाच
वामं
चक्षुर्भ्यामभिवीक्ष्य
दहन्निव
9
▾
Meaning
Keep
श्रूयतां
ब्रह्मर्षयो
मे
सह
देवाः
सहाग्नयः
।
साधूनां
ब्रुवतो
वृत्तं
नाज्ञानान्न
च
मत्सरात्
10
▾
Meaning
Keep
अयं
तु
लोकपालानां
यशोघ्नो
निरपत्रपः
।
सद्भिराचरितः
पन्था
येन
स्तब्धेन
दूषितः
11
▾
Meaning
Keep
एष
मे
शिष्यतां
प्राप्तो
यन्मे
दुहितुरग्रहीत्
।
पाणिं
विप्राग्निमुखतः
सावित्र्या
इव
साधुवत्
12
▾
Meaning
Keep
गृहीत्वा
मृगशावाक्ष्याः
पाणिं
मर्कटलोचनः
।
प्रत्युत्थानाभिवादार्हे
वाचाप्यकृत
नोचितम्
13
▾
Meaning
Keep
लुप्तक्रियायाशुचये
मानिने
भिन्नसेतवे
।
अनिच्छन्नप्यदां
बालां
शूद्रायेवोशतीं
गिरम्
14
▾
Meaning
Keep
प्रेतावासेषु
घोरेषु
प्रेतैर्भूतगणैर्वृतः
।
अटत्युन्मत्तवन्नग्नो
व्युप्तकेशो
हसन्
रुदन्
15
▾
Meaning
Keep
चिताभस्मकृतस्नानः
प्रेतस्रङ्न्रस्थिभूषणः
।
शिवापदेशो
ह्यशिवो
मत्तो
मत्तजनप्रियः
।
पतिः
प्रमथभूतानां
तमोमात्रात्मकात्मनाम्
16
▾
Meaning
Keep
तस्मा
उन्मादनाथाय
नष्टशौचाय
दुर्हृदे
।
दत्ता
बत
मया
साध्वी
चोदिते
परमेष्ठिना
17
▾
Meaning
Keep
विनिन्द्यैवं
स
गिरिशमप्रतीपमवस्थितम्
।
दक्षोऽथाप
उपस्पृश्य
क्रुद्धः
शप्तुं
प्रचक्रमे
18
▾
Meaning
Keep
अयं
तु
देवयजन
इन्द्रोपेन्द्रादिभिर्भवः
।
सह
भागं
न
लभतां
देवैर्देवगणाधमः
19
▾
Meaning
Keep
निषिध्यमानः
स
सदस्यमुख्यै-
र्दक्षो
गिरित्राय
विसृज्य
शापम्
।
तस्माद्विनिष्क्रम्य
विवृद्धमन्यु-
र्जगामकौरव्य
निजं
निकेतनम्
20
▾
Meaning
Keep
विज्ञाय
शापं
गिरिशानुगाग्रणी-
र्नन्दीश्वरो
रोषकषायदूषितः
।
दक्षाय
शापं
विससर्ज
दारुणं
ये
चान्वमोदंस्तदवाच्यतां
द्विजाः
21
▾
Meaning
Keep
य
एतन्मर्त्यमुद्दिश्य
भगवत्यप्रतिद्रुहि
।
द्रुह्यत्यज्ञः
पृथग्दृष्टिस्तत्त्वतो
विमुखो
भवेत्
22
▾
Meaning
Keep
गृहेषु
कूटधर्मेषु
सक्तो
ग्राम्यसुखेच्छया
।
कर्मतन्त्रं
वितनुते
वेदवादविपन्नधीः
23
▾
Meaning
Keep
बुद्ध्या
पराभिध्यायिन्या
विस्मृतात्मगतिः
पशुः
।
स्त्रीकामः
सोऽस्त्वतितरां
दक्षो
बस्तमुखोऽचिरात्
24
▾
Meaning
Keep
विद्याबुद्धिरविद्यायां
कर्ममय्यामसौ
जडः
।
संसरन्त्विह
ये
चामुमनु
शर्वावमानिनम्
25
▾
Meaning
Keep
गिरः
श्रुतायाः
पुष्पिण्या
मधुगन्धेन
भूरिणा
।
मथ्ना
चोन्मथितात्मानः
सम्मुह्यन्तु
हरद्विषः
26
▾
Meaning
Keep
सर्वभक्षा
द्विजा
वृत्त्यै
धृतविद्या
तपोव्रताः
।
वित्तदेहेन्द्रियारामा
याचका
विचरन्त्विह
27
▾
Meaning
Keep
तस्यैवं
वदतः
शापं
श्रुत्वा
द्विजकुलाय
वै
।
भृगुः
प्रत्यसृजच्छापं
ब्रह्मदण्डं
दुरत्ययम्
28
▾
Meaning
Keep
भवव्रतधरा
ये
च
ये
च
तान्समनुव्रताः
।
पाषण्डिनस्ते
भवन्तु
सच्छास्त्रपरिपन्थिनः
29
▾
Meaning
Keep
नष्टशौचा
मूढधियो
जटाभस्मास्थिधारिणः
।
विशन्तु
शिवदीक्षायां
यत्र
दैवं
सुरासवम्
30
▾
Meaning
Keep
ब्रह्म
च
ब्राह्मणांश्चैव
यद्यूयं
परिनिन्दथ
।
सेतुं
विधारणं
पुंसामतः
पाखण्डमाश्रिताः
31
▾
Meaning
Keep
एष
एव
हि
लोकानां
शिवः
पन्थाः
सनातनः
।
यं
पूर्वे
चानुसंतस्थुर्यत्प्रमाणं
जनार्दनः
32
▾
Meaning
Keep
तद्ब्रह्म
परमं
शुद्धं
सतां
वर्त्म
सनातनम्
।
विगर्ह्य
यात
पाषण्डं
दैवं
वो
यत्र
भूतराट्
33
▾
Meaning
Keep
तस्यैवं
वदतः
शापं
भृगोः
स
भगवान्
भवः
।
निश्चक्राम
ततः
किञ्चिद्विमना
इव
सानुगः
34
▾
Meaning
Keep
तेऽपि
विश्वसृजः
सत्रं
सहस्रपरिवत्सरान्
।
संविधाय
महेष्वास
यत्रेज्य
ऋषभो
हरिः
35
▾
Meaning
Keep
आप्लुत्यावभृथं
यत्र
गङ्गा
यमुनयान्विता
।
विरजेनात्मना
सर्वे
स्वं
स्वं
धाम
ययुस्ततः
Previous
←
The Line of Manu's Daughters
Next
Sati Asks to Go to Her Father's Sacrifice
→