Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada Comes to the Pracetas
Śrīmad Bhāgavatam
›
Canto 4
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तत
उत्पन्नविज्ञाना
आश्वधोक्षजभाषितम्
।
स्मरन्त
आत्मजे
भार्यां
विसृज्य
प्राव्रजन्
गृहात्
2
▾
Meaning
Keep
दीक्षिता
ब्रह्मसत्रेण
सर्वभूतात्ममेधसा
।
प्रतीच्यां
दिशि
वेलायां
सिद्धोऽभूद्यत्र
जाजलिः
3
▾
Meaning
Keep
तान्निर्जितप्राणमनोवचोदृशो
जितासनान्
शान्तसमानविग्रहान्
।
परेऽमले
ब्रह्मणि
योजितात्मनः
सुरासुरेड्यो
ददृशे
स्म
नारदः
4
▾
Meaning
Keep
तमागतं
त
उत्थाय
प्रणिपत्याभिनन्द्य
च
।
पूजयित्वा
यथादेशं
सुखासीनमथाब्रुवन्
5
▾
Meaning
Keep
स्वागतं
ते
सुरर्षेऽद्य
दिष्ट्या
नो
दर्शनं
गतः
।
तव
चङ्क्रमणं
ब्रह्मन्नभयाय
यथा
रवेः
6
▾
Meaning
Keep
यदादिष्टं
भगवता
शिवेनाधोक्षजेन
च
।
तद्गृहेषु
प्रसक्तानां
प्रायशः
क्षपितं
प्रभो
7
▾
Meaning
Keep
तन्नः
प्रद्योतयाध्यात्मज्ञानं
तत्त्वार्थदर्शनम्
।
येनाञ्जसा
तरिष्यामो
दुस्तरं
भवसागरम्
8
▾
Meaning
Keep
इति
प्रचेतसां
पृष्टो
भगवान्
नारदो
मुनिः
।
भगवत्युत्तमश्लोक
आविष्टात्माब्रवीन्नृपान्
9
▾
Meaning
Keep
तज्जन्म
तानि
कर्माणि
तदायुस्तन्मनो
वचः
।
नृणां
येनेह
विश्वात्मा
सेव्यते
हरिरीश्वरः
10
▾
Meaning
Keep
किं
जन्मभिस्त्रिभिर्वेह
शौक्रसावित्रयाज्ञिकैः
।
कर्मभिर्वा
त्रयीप्रोक्तैः
पुंसोऽपि
विबुधायुषा
11
▾
Meaning
Keep
श्रुतेन
तपसा
वा
किं
वचोभिश्चित्तवृत्तिभिः
।
बुद्ध्या
वा
किं
निपुणया
बलेनेन्द्रियराधसा
12
▾
Meaning
Keep
किं
वा
योगेन
सांख्येन
न्यासस्वाध्याययोरपि
।
किं
वा
श्रेयोभिरन्यैश्च
न
यत्रात्मप्रदो
हरिः
13
▾
Meaning
Keep
श्रेयसामपि
सर्वेषामात्मा
ह्यवधिरर्थतः
।
सर्वेषामपि
भूतानां
हरिरात्माऽऽत्मदः
प्रियः
14
▾
Meaning
Keep
यथा
तरोर्मूलनिषेचनेन
तृप्यन्ति
तत्स्कन्धभुजोपशाखाः
।
प्राणोपहाराच्च
यथेन्द्रियाणां
तथैव
सर्वार्हणमच्युतेज्या
15
▾
Meaning
Keep
यथैव
सूर्यात्प्रभवन्ति
वारः
पुनश्च
तस्मिन्
प्रविशन्ति
काले
।
भूतानि
भूमौ
स्थिरजङ्गमानि
तथा
हरावेव
गुणप्रवाहः
16
▾
Meaning
Keep
एतत्पदं
तज्जगदात्मनः
परं
सकृद्विभातं
सवितुर्यथा
प्रभा
।
यथासवो
जाग्रति
सुप्तशक्तयो
द्रव्यक्रियाज्ञानभिदा
भ्रमात्ययः
17
▾
Meaning
Keep
यथा
नभस्यभ्रतमः
प्रकाशा
भवन्ति
भूपा
न
भवन्त्यनुक्रमात्
।
एवं
परे
ब्रह्मणि
शक्तयस्त्वमू
रजस्तमःसत्त्वमिति
प्रवाहः
18
▾
Meaning
Keep
तेनैकमात्मानमशेषदेहिनां
कालं
प्रधानं
पुरुषं
परेशम्
।
स्वतेजसा
ध्वस्तगुणप्रवाह-
मात्मैकभावेन
भजध्वमद्धा
19
▾
Meaning
Keep
दयया
सर्वभूतेषु
संतुष्ट्या
येन
केन
वा
।
सर्वेन्द्रियोपशान्त्या
च
तुष्यत्याशु
जनार्दनः
20
▾
Meaning
Keep
अपहतसकलैषणामलात्मन्यविरतमेधितभावनोपहूतः
।
निजजनवशगत्वमात्मनोऽयन्न
सरति
छिद्रवदक्षरः
सतां
हि
21
▾
Meaning
Keep
न
भजति
कुमनीषिणां
स
इज्यां
हरिरधनात्मधनप्रियो
रसज्ञः
।
श्रुतधनकुलकर्मणां
मदैर्ये
विदधति
पापमकिञ्चनेषु
सत्सु
22
▾
Meaning
Keep
श्रियमनुचरतीं
तदर्थिनश्च
द्विपदपतीन्
विबुधांश्च
यत्स्वपूर्णः
।
न
भजति
निजभृत्यवर्गतन्त्रः
कथममुमुद्विसृजेत्पुमान्
कृतज्ञः
23
▾
Meaning
Keep
इति
प्रचेतसो
राजन्नन्याश्च
भगवत्कथाः
।
श्रावयित्वा
ब्रह्मलोकं
ययौ
स्वायम्भुवो
मुनिः
24
▾
Meaning
Keep
तेऽपि
तन्मुखनिर्यातं
यशो
लोकमलापहम्
।
हरेर्निशम्य
तत्पादं
ध्यायन्तस्तद्गतिं
ययुः
25
▾
Meaning
Keep
एतत्तेऽभिहितं
क्षत्तर्यन्मां
त्वं
परिपृष्टवान्
।
प्रचेतसां
नारदस्य
संवादं
हरिकीर्तनम्
26
▾
Meaning
Keep
य
एष
उत्तानपदो
मानवस्यानुवर्णितः
।
वंशः
प्रियव्रतस्यापि
निबोध
नृपसत्तम
27
▾
Meaning
Keep
यो
नारदादात्मविद्यामधिगम्य
पुनर्महीम्
।
भुक्त्वा
विभज्य
पुत्रेभ्य
ऐश्वरं
समगात्पदम्
28
▾
Meaning
Keep
इमां
तु
कौषारविणोपवर्णितां
क्षत्ता
निशम्याजितवादसत्कथाम्
।
प्रवृद्धभावोऽश्रुकलाकुलो
मुने-
र्दधार
मूर्ध्ना
चरणं
हृदा
हरेः
29
▾
Meaning
Keep
सोऽयमद्य
महायोगिन्
भवता
करुणात्मना
।
दर्शितस्तमसः
पारो
यत्राकिञ्चनगो
हरिः
30
▾
Meaning
Keep
इत्यानम्य
तमामन्त्र्य
विदुरो
गजसाह्वयम्
।
स्वानां
दिदृक्षुः
प्रययौ
ज्ञातीनां
निर्वृताशयः
31
▾
Meaning
Keep
एतद्यः
शृणुयाद्राजन्
राज्ञां
हर्यर्पितात्मनाम्
।
आयुर्धनं
यशः
स्वस्ति
गतिमैश्वर्यमाप्नुयात्
Previous
←
The Boon the Pracetas Asked For
Next
Priyavrata Takes the Earth
→