Contents
Bhāgavata Rasālaya
Śrīmad Bhāgavatam
Realm
Read
Kept
Search
Settings
←
Leave
Śrīmad Bhāgavatam · Nabhi's Sacrifice and the Promise of a Son
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
1
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं
यज्ञपुरुषमवहितात्मायजत
2
तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु
प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगो-
पपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया
सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ-
विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दना-
वयवाभिराममाविश्चकार
Hymn
3
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं
कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूर-
नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण
उपतस्थुः
4
ऋत्विज ऊचुः
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम्
5
सकलजननिकायवृजिननिरसनशिवतमप्रवर-
गुणगणैकदेशकथनादृते
6
परिजनानुरागविरचितशबलसंशब्दसलिलसित-
किसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया
किल परम परितुष्यसि
7
अथानयापि न भवत इज्ययोरुभारभरया समुचित-
मर्थमिहोपलभामहे
8
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमा-
नाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति
9
तद्यथा बालिशानां स्वयमात्मनः श्रेयः पर-मविदुषां
परम परमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित
एवेतरवदिहोपलक्षितः
10
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो
भवान् निजपुरुषेक्षणविषय आसीत्
11
असङ्गनिशितज्ञानानलविधूताशेषमलानां
भवत्स्वभावानामात्मारामाणां मुनीनामनवरत-
परिगुणितगुणगणपरममङ्गलायनगुणगण
कथनोऽसि
12
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु
विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकल-
कश्मलनिरसनानि तव गुणकृतनामधेयानि
वचनगोचराणि भवन्तु
13
किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान
ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति
प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम्
14
को वा इह तेऽपराजितोऽपराजितया मायया-
नवसितपदव्यानावृतमतिर्विषयविषरयानावृत-
प्रकृतिरनुपासितमहच्चरणः
15
यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-
स्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम्
16
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो
वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह
17
श्रीभगवानुवाच ।
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-
मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति
ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा
भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम्
18
तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्य-
मनुपलभमानः
19
इति निशामयन्त्या मेरुदेव्याः पतिमभिधाया-
न्तर्दधे भगवान्
20
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः
प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने
मेरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां
श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार