Contents
Bhāgavata Rasālaya
Śrīmad Bhāgavatam
Realm
Read
Kept
Search
Settings
←
Leave
Śrīmad Bhāgavatam · The Line of Bharata, and Gaya
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
1
भरतस्यात्मजः सुमतिर्नामाभिहितो यमु ह वाव
केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या
कलौ कल्पयिष्यन्ति
2
तस्माद्वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत्
3
अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः
परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः
4
य आत्मविद्यामाख्याय स्वयं संशुद्धो
महापुरुषमनुसस्मार
5
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्या-
कोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमाना-
वजनिषाताम्
6
भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायां
प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभो रत्यां च
पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद्द्रुतिपुत्रो
गयो राजर्षिप्रवर उदारश्रवा अजायत ।
साक्षाद्भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य
कलात्मवत्त्वादि लक्षणेन महापुरुषतां प्राप्तः
7
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालना-
नुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन
ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य
आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत्
Hymn
8
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति
9
गयं नृपः कः प्रतियाति कर्मभि-
र्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्रीः सदसस्पतिः सतां
सत्सेवकोऽन्यो भगवत्कलामृते
10
यमभ्यषिञ्चन् परया मुदा सतीः
सत्याशिषो दक्षकन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो
निराशिषो गुणवत्सस्नुतोधाः
11
छन्दांस्यकामस्य च यस्य कामान्
दुदूहुराजह्रुरथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा
यदाशिषां षष्ठमंशं परेत्य
12
यस्याध्वरे भगवानध्वरात्मा
मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धा विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार
13
यत्प्रीणनाद्बर्हिषि देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्वजीवः
प्रीतः स्वयं प्रीतिमगाद्गयस्य
14
गयाद्गयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः
पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट
15
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमा-
नुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः
सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू
जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां
त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य
शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम्
16
तत्रायं श्लोकः
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भवः ।
अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा