Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Line of Bharata, and Gaya
Śrīmad Bhāgavatam
›
Canto 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भरतस्यात्मजः
सुमतिर्नामाभिहितो
यमु
ह
वाव
केचित्पाखण्डिन
ऋषभपदवीमनुवर्तमानं
चानार्या
अवेदसमाम्नातां
देवतां
स्वमनीषया
पापीयस्या
कलौ
कल्पयिष्यन्ति
2
▾
Meaning
Keep
तस्माद्वृद्धसेनायां
देवताजिन्नाम
पुत्रोऽभवत्
3
▾
Meaning
Keep
अथासुर्यां
तत्तनयो
देवद्युम्नस्ततो
धेनुमत्यां
सुतः
परमेष्ठी
तस्य
सुवर्चलायां
प्रतीह
उपजातः
4
▾
Meaning
Keep
य
आत्मविद्यामाख्याय
स्वयं
संशुद्धो
महापुरुषमनुसस्मार
5
▾
Meaning
Keep
प्रतीहात्सुवर्चलायां
प्रतिहर्त्रादयस्त्रय
आसन्निज्या-
कोविदाः
सूनवः
प्रतिहर्तुः
स्तुत्यामजभूमाना-
वजनिषाताम्
6
▾
Meaning
Keep
भूम्न
ऋषिकुल्यायामुद्गीथस्ततः
प्रस्तावो
देवकुल्यायां
प्रस्तावान्नियुत्सायां
हृदयज
आसीद्विभुर्विभोरत्यां
च
पृथुषेणस्तस्मान्नक्त
आकूत्यां
जज्ञे
नक्ताद्द्रुतिपुत्रो
गयो
राजर्षिप्रवर
उदारश्रवा
अजायत
साक्षाद्भगवतो
विष्णोर्जगद्रिरक्षिषया
गृहीतसत्त्वस्य
कलाऽऽत्मवत्त्वादिलक्षणेन
महापुरुषतां
प्राप्तः
7
▾
Meaning
Keep
स
वै
स्वधर्मेण
प्रजापालनपोषणप्रीणनोपलालना-
नुशासनलक्षणेनेज्यादिना
च
भगवति
महापुरुषे
परावरे
ब्रह्मणि
सर्वात्मनार्पितपरमार्थलक्षणेन
ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णशः
परिभावितातिशुद्धमतिरुपरतानात्म्य
आत्मनि
स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान
एवावनिमजूगुपत्
Hymn
8
▾
Meaning
Keep
तस्येमां
गाथां
पाण्डवेय
पुराविद
उपगायन्ति
9
▾
Meaning
Keep
गयं
नृपः
कः
प्रतियाति
कर्मभि-
र्यज्वाभिमानी
बहुविद्धर्मगोप्ता
।
समागतश्रीः
सदसस्पतिः
सतां
सत्सेवकोऽन्यो
भगवत्कलामृते
10
▾
Meaning
Keep
यमभ्यषिञ्चन्
परया
मुदा
सतीः
सत्याशिषो
दक्षकन्याः
सरिद्भिः
।
यस्य
प्रजानां
दुदुहे
धराऽऽशिषो
निराशिषो
गुणवत्सस्नुतोधाः
11
▾
Meaning
Keep
छन्दांस्यकामस्य
च
यस्य
कामान्
दुदूहुराजह्रुरथो
बलिं
नृपाः
।
प्रत्यञ्चिता
युधि
धर्मेण
विप्रा
यदाशिषां
षष्ठमंशं
परेत्य
12
▾
Meaning
Keep
यस्याध्वरे
भगवानध्वरात्मा
मघोनि
माद्यत्युरुसोमपीथे
।
श्रद्धा
विशुद्धाचलभक्तियोग-
समर्पितेज्याफलमाजहार
13
▾
Meaning
Keep
यत्प्रीणनाद्बर्हिषि
देवतिर्यङ्-
मनुष्यवीरुत्तृणमाविरिञ्चात्
।
प्रीयेत
सद्यः
स
ह
विश्वजीवः
प्रीतः
स्वयं
प्रीतिमगाद्गयस्य
14
▾
Meaning
Keep
गयाद्गयन्त्यां
चित्ररथः
सुगतिरवरोधन
इति
त्रयः
पुत्रा
बभूवुश्चित्ररथादूर्णायां
सम्राडजनिष्ट
15
▾
Meaning
Keep
तत
उत्कलायां
मरीचिर्मरीचेर्बिन्दुमत्यां
बिन्दुमा-
नुदपद्यत
तस्मात्सरघायां
मधुर्नामाभवन्मधोः
सुमनसि
वीरव्रतस्ततो
भोजायां
मन्थुप्रमन्थू
जज्ञाते
मन्थोः
सत्यायां
भौवनस्ततो
दूषणायां
त्वष्टाजनिष्ट
त्वष्टुर्विरोचनायां
विरजो
विरजस्य
शतजित्प्रवरं
पुत्रशतं
कन्या
च
विषूच्यां
किल
जातम्
16
▾
Meaning
Keep
तत्रायं
श्लोकः
प्रैयव्रतं
वंशमिमं
विरजश्चरमोद्भवः
।
अकरोदत्यलं
कीर्त्या
विष्णुः
सुरगणं
यथा
Previous
←
The Forest of the World
Next
Jambudvipa and Mount Meru
→