Contents
Bhāgavata Rasālaya
Śrīmad Bhāgavatam
Realm
Read
Kept
Search
Settings
←
Leave
Śrīmad Bhāgavatam · The Coming Down of the Ganga, and Siva's Praise
Tap a verse for its meaning
Devanāgarī
Pronunciation
Meaning
Verse by verse
Continuous
1
तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणा-
न्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजा-
वनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघ-
मलापहोपस्पर्शनामला साक्षाद्भगवत्पदी-
त्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो
मूर्धन्यवततार यत्तद्विष्णुपदमाहुः
2
यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो-
ऽस्मत्कुलदेवताचरणारविन्दोदकमिति यामनुसवन-
मुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मल-
विगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलक-
कुलकोऽधुनापि परमादरेण शिरसा बिभर्ति
3
ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपसआत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिमिवागतां मुमुक्षव इव सबहुमानमद्यापि जटाजूटैरुद्वहन्ति
4
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेना-
वतरन्तीन्दुमण्डलमावार्य ब्रह्मसदने निपतति
5
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिश-
मभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति
6
सीता तु ब्रह्मसदनात्केसराचलादि गिरिशिखरेभ्यो-
ऽधोऽधःप्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण
भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति
7
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा
केतुमालमभिचक्षुः प्रतीच्यां दिशि सरित्पतिं
प्रविशति
8
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरा-
द्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना
उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधि-
मभिप्रविशति
9
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि
गिरिकूटान्यतिक्रम्य हेमकूटाद्धैमकूटान्यति-
रभसतररंहसा लुठयन्ती भारतमभिवर्षं दक्षिणस्यां
दिशि जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छतः
पुंसः पदे पदेऽश्वमेधराजसूयादीनां फलं न
दुर्लभमिति
10
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो
मेर्वादिगिरिदुहितरः शतशः
11
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट-
वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति
12
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां
नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदित-
महासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां
तत्र तु त्रेतायुगसमः कालो वर्तते
13
यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविटपलता विटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु जलक्रीडादिभिर्विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति
14
नवस्वपि वर्षेषु भगवान् नारायणो महापुरुषः
पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
सन्निधीयते
15
इलावृते तु भगवान् भव एक एव पुमान् न ह्यन्य-
स्तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो
यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि
Hymn
16
भवानीनाथैः स्त्रीगणार्बुदसहस्रैरवरुध्यमानो
भगवतश्चतुर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं
मूर्तिं प्रकृतिमात्मनः सङ्कर्षणसंज्ञामात्मसमाधि-
रूपेण सन्निधाप्यैतदभिगृणन् भव उपधावति
17
श्रीभगवानुवाच ।
ओं नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानाया-
नन्तायाव्यक्ताय नम इति
18
भजे भजन्यारणपादपङ्कजं
भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
भवापहं त्वा भवभावमीश्वरम्
19
न यस्य मायागुणचित्तवृत्तिभि-
र्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां
कस्तं न मन्येत जिगीषुरात्मनः
20
असद्दृशो यः प्रतिभाति मायया
क्षीबेव मध्वासवताम्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
यत्पादयोः स्पर्शनधर्षितेन्द्रियाः
21
यमाहुरस्य स्थितिजन्मसंयमं
त्रिभिर्विहीनं यमनन्तमृषयः ।
न वेद सिद्धार्थमिव क्वचित्स्थितं
भूमण्डलं मूर्धसहस्रधामसु
22
यस्याद्य आसीद्गुणविग्रहो महान्
विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा
वैकारिकं तामसमैन्द्रियं सृजे
23
एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहं वैकृततामसेन्द्रियाः
सृजाम सर्वे यदनुग्रहादिदम्
24
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
मायां जनोऽयं गुणसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
तस्मै नमस्ते विलयोदयात्मने