Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Armour of Narayana
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यया
गुप्तः
सहस्राक्षः
सवाहान्
रिपुसैनिकान्
।
क्रीडन्निव
विनिर्जित्य
त्रिलोक्या
बुभुजे
श्रियम्
2
▾
Meaning
Keep
भगवंस्तन्ममाख्याहि
वर्म
नारायणात्मकम्
।
यथाऽऽततायिनः
शत्रून्
येन
गुप्तोऽजयन्मृधे
3
▾
Meaning
Keep
वृतः
पुरोहितस्त्वाष्ट्रो
महेन्द्रायानुपृच्छते
।
नारायणाख्यं
वर्माह
तदिहैकमनाः
शृणु
4
▾
Meaning
Keep
धौताङ्घ्रिपाणिराचम्य
सपवित्र
उदङ्मुखः
।
कृतस्वाङ्गकरन्यासो
मन्त्राभ्यां
वाग्यतः
शुचिः
5
▾
Meaning
Keep
नारायणमयं
वर्म
सन्नह्येद्
भय
आगते
।
पादयोर्जानुनोरूर्वोरुदरे
हृद्यथोरसि
6
▾
Meaning
Keep
मुखे
शिरस्यानुपूर्व्यादोङ्कारादीनि
विन्यसेत्
।
ॐ
नमो
नारायणायेति
विपर्ययमथापि
वा
7
▾
Meaning
Keep
करन्यासं
ततः
कुर्याद्द्वादशाक्षरविद्यया
।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु
8
▾
Meaning
Keep
न्यसेद्
धृदय
ओङ्कारं
विकारमनु
मूर्धनि
।
षकारं
तु
भ्रुवोर्मध्ये
णकारं
शिखया
दरोत्
9
▾
Meaning
Keep
वेकारं
नेत्रयोर्युञ्ज्यान्नकारं
सर्वसन्धिषु
।
मकारमस्त्रमुद्दिश्य
मन्त्रमूर्तिर्भवेद्बुधः
10
▾
Meaning
Keep
सविसर्गं
फडन्तं
तत्
सर्वदिक्षु
विनिर्दिशेत्
।
ॐ
विष्णवे
नम
इति
11
▾
Meaning
Keep
आत्मानं
परमं
ध्यायेद्ध्येयं
षट्
शक्तिभिर्युतम्
।
विद्यातेजस्तपोमूर्तिमिमं
मन्त्रमुदाहरेत्
12
▾
Meaning
Keep
ॐ
हरिर्विदध्यान्मम
सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः
पतगेन्द्रपृष्ठे
।
दरारिचर्मासिगदेषुचापपाशान्
दधानोऽष्टगुणोऽष्टबाहुः
13
▾
Meaning
Keep
जलेषु
मां
रक्षतु
मत्स्यमूर्ति-
र्यादोगणेभ्यो
वरुणस्य
पाशात्
।
स्थलेषु
मायावटुवामनोऽव्या-
त्त्रिविक्रमः
खेऽवतु
विश्वरूपः
14
▾
Meaning
Keep
दुर्गेष्वटव्याजिमुखादिषु
प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः
।
विमुञ्चतो
यस्य
महाट्टहासं
दिशो
विनेदुर्न्यपतंश्च
गर्भाः
15
▾
Meaning
Keep
रक्षत्वसौ
माध्वनि
यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो
वराहः
।
रामोऽद्रिकूटेष्वथ
विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान्
16
▾
Meaning
Keep
मामुग्रधर्मादखिलात्प्रमादा-
न्नारायणः
पातु
नरश्च
हासात्
।
दत्तस्त्वयोगादथ
योगनाथः
पायाद्गुणेशः
कपिलः
कर्मबन्धात्
17
▾
Meaning
Keep
सनत्कुमारोऽवतु
कामदेवा-
द्धयशीर्षा
मां
पथि
देवहेलनात्
।
देवर्षिवर्यः
पुरुषार्चनान्तरा-
त्कूर्मो
हरिर्मां
निरयादशेषात्
18
▾
Meaning
Keep
धन्वन्तरिर्भगवान् पात्वपथ्या-
द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ता-
द्बलो गणात्क्रोधवशादहीन्द्रः
19
▾
Meaning
Keep
द्वैपायनो
भगवानप्रबोधाद्
बुद्धस्तु
पाषण्डगणप्रमादात्
।
कल्किः
कलेः
कालमलात्
प्रपातु
धर्मावनायोरुकृतावतारः
20
▾
Meaning
Keep
मां
केशवो
गदया
प्रातरव्या-
द्गोविन्द
आसङ्गवमात्तवेणुः
।
नारायणः
प्राह्ण
उदात्तशक्ति-
र्मध्यन्दिने
विष्णुररीन्द्रपाणिः
21
▾
Meaning
Keep
देवोऽपराह्णे
मधुहोग्रधन्वा
सायं
त्रिधामावतु
माधवो
माम्
।
दोषे
हृषीकेश
उतार्धरात्रे
निशीथ
एकोऽवतु
पद्मनाभः
22
▾
Meaning
Keep
श्रीवत्सधामापररात्र
ईशः
प्रत्यूष
ईशोऽसिधरो
जनार्दनः
।
दामोदरोऽव्यादनुसन्ध्यं
प्रभाते
विश्वेश्वरो
भगवान्
कालमूर्तिः
23
▾
Meaning
Keep
चक्रं
युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम्
।
दन्दग्धि
दन्दग्ध्यरिसैन्यमाशु
कक्षं
यथा
वातसखो
हुताशः
24
▾
Meaning
Keep
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि
निष्पिण्ढ्यजितप्रियासि
।
कुष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय
चूर्णयारीन्
25
▾
Meaning
Keep
त्वं
यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन्
।
दरेन्द्र
विद्रावय
कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि
कम्पयन्
26
▾
Meaning
Keep
त्वं
तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो
मम
छिन्धि
छिन्धि
।
चक्षूंषि
चर्मञ्छतचन्द्र
छादय
द्विषामघोनां
हर
पापचक्षुषाम्
27
▾
Meaning
Keep
यन्नो
भयं
ग्रहेभ्योऽभूत्
केतुभ्यो
नृभ्य
एव
च
।
सरीसृपेभ्यो
दंष्ट्रिभ्यो
भूतेभ्योऽंहोभ्य
एव
वा
28
▾
Meaning
Keep
सर्वाण्येतानि
भगवन्नामरूपानुकीर्तनात्
।
प्रयान्तु
सङ्क्षयं
सद्यो
ये
नः
श्रेयःप्रतीपकाः
29
▾
Meaning
Keep
गरुडो
भगवान्
स्तोत्रस्तोभश्छन्दोमयः
प्रभुः
।
रक्षत्वशेषकृच्छ्रेभ्यो
विष्वक्सेनः
स्वनामभिः
30
▾
Meaning
Keep
सर्वापद्भ्यो
हरेर्नामरूपयानायुधानि
नः
।
बुद्धीन्द्रियमनःप्राणान्
पान्तु
पार्षदभूषणाः
31
▾
Meaning
Keep
यथा
हि
भगवानेव
वस्तुतः
सदसच्च
यत्
।
सत्येनानेन
नः
सर्वे
यान्तु
नाशमुपद्रवाः
32
▾
Meaning
Keep
यथैकात्म्यानुभावानां
विकल्परहितः
स्वयम्
।
भूषणायुधलिङ्गाख्या
धत्ते
शक्तीः
स्वमायया
33
▾
Meaning
Keep
तेनैव
सत्यमानेन
सर्वज्ञो
भगवान्
हरिः
।
पातु
सर्वैः
स्वरूपैर्नः
सदा
सर्वत्र
सर्वगः
34
▾
Meaning
Keep
विदिक्षु
दिक्षूर्ध्वमधः
समन्तादन्तर्बहिर्भगवान्
नारसिंहः
।
प्रहापयंलोकभयं
स्वनेन
स्वतेजसा
ग्रस्तसमस्ततेजाः
35
▾
Meaning
Keep
मघवन्निदमाख्यातं
वर्म
नारायणात्मकम्
।
विजेष्यसेऽञ्जसा
येन
दंशितोऽसुरयूथपान्
36
▾
Meaning
Keep
एतद्धारयमाणस्तु
यं
यं
पश्यति
चक्षुषा
।
पदा
वा
संस्पृशेत्सद्यः
साध्वसात्स
विमुच्यते
37
▾
Meaning
Keep
न
कुतश्चिद्भयं
तस्य
विद्यां
धारयतो
भवेत्
।
राजदस्युग्रहादिभ्यो
व्याघ्रादिभ्यश्च
कर्हिचित्
38
▾
Meaning
Keep
इमां
विद्यां
पुरा
कश्चित्कौशिको
धारयन्
द्विजः
।
योगधारणया
स्वाङ्गं
जहौ
स
मरुधन्वनि
39
▾
Meaning
Keep
तस्योपरि
विमानेन
गन्धर्वपतिरेकदा
।
ययौ
चित्ररथः
स्त्रीभिर्वृतो
यत्र
द्विजक्षयः
40
▾
Meaning
Keep
गगनान्न्यपतत्सद्यः
सविमानो
ह्यवाक्शिराः
।
स
वालिखिल्यवचनादस्थीन्यादाय
विस्मितः
।
प्रास्य
प्राचीसरस्वत्यां
स्नात्वा
धाम
स्वमन्वगात्
41
▾
Meaning
Keep
य
इदं
शृणुयात्काले
यो
धारयति
चादृतः
।
तं
नमस्यन्ति
भूतानि
मुच्यते
सर्वतो
भयात्
42
▾
Meaning
Keep
एतां
विद्यामधिगतो
विश्वरूपाच्छतक्रतुः
।
त्रैलोक्यलक्ष्मीं
बुभुजे
विनिर्जित्य
मृधेऽसुरान्
Previous
←
Indra Slights His Teacher
Next
Vrtra Rises from the Fire
→