Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Parvati's Curse
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यतश्चान्तर्हितोऽनन्तस्तस्यै
कृत्वा
दिशे
नमः
।
विद्याधरश्चित्रकेतुश्चचार
गगनेचरः
2
▾
Meaning
Keep
स
लक्षं
वर्षलक्षाणामव्याहतबलेन्द्रियः
।
स्तूयमानो
महायोगी
मुनिभिः
सिद्धचारणैः
3
▾
Meaning
Keep
कुलाचलेन्द्रद्रोणीषु
नानासङ्कल्पसिद्धिषु
।
रेमे
विद्याधरस्त्रीभिर्गापयन्
हरिमीश्वरम्
4
▾
Meaning
Keep
एकदा
स
विमानेन
विष्णुदत्तेन
भास्वता
।
गिरिशं
ददृशे
गच्छन्
परीतं
सिद्धचारणैः
5
▾
Meaning
Keep
आलिङ्ग्याङ्कीकृतां
देवीं
बाहुना
मुनिसंसदि
।
उवाच
देव्याः
शृण्वन्त्या
जहासोच्चैस्तदन्तिके
6
▾
Meaning
Keep
एष
लोकगुरुः
साक्षाद्धर्मं
वक्ता
शरीरिणाम्
।
आस्ते
मुख्यः
सभायां
वै
मिथुनीभूय
भार्यया
7
▾
Meaning
Keep
जटाधरस्तीव्रतपा
ब्रह्मवादिसभापतिः
।
अङ्कीकृत्य
स्त्रियं
चास्ते
गतह्रीः
प्राकृतो
यथा
8
▾
Meaning
Keep
प्रायशः
प्राकृताश्चापि
स्त्रियं
रहसि
बिभ्रति
।
अयं
महाव्रतधरो
बिभर्ति
सदसि
स्त्रियम्
9
▾
Meaning
Keep
भगवानपि
तच्छ्रुत्वा
प्रहस्यागाधधीर्नृप
।
तूष्णीं
बभूव
सदसि
सभ्याश्च
तदनुव्रताः
10
▾
Meaning
Keep
इत्यतद्वीर्यविदुषि
ब्रुवाणे
बह्वशोभनम्
।
रुषाऽऽह
देवी
धृष्टाय
निर्जितात्माभिमानिने
11
▾
Meaning
Keep
पार्वत्युवाच ।
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्
12
▾
Meaning
Keep
न
वेद
धर्मं
किल
पद्मयोनि-
र्न
ब्रह्मपुत्रा
भृगुनारदाद्याः
।
न
वै
कुमारः
कपिलो
मनुश्च
ये
नो
निषेधन्त्यतिवर्तिनं
हरम्
13
▾
Meaning
Keep
एषामनुध्येयपदाब्जयुग्मं
जगद्गुरुं
मङ्गलमङ्गलं
स्वयम्
।
यः
क्षत्रबन्धुः
परिभूय
सूरीन्
प्रशास्ति
धृष्टस्तदयं
हि
दण्ड्यः
14
▾
Meaning
Keep
नायमर्हति
वैकुण्ठपादमूलोपसर्पणम्
।
सम्भावितमतिः
स्तब्धः
साधुभिः
पर्युपासितम्
15
▾
Meaning
Keep
अतः
पापीयसीं
योनिमासुरीं
याहि
दुर्मते
।
यथेह
भूयो
महतां
न
कर्ता
पुत्र
किल्बिषम्
16
▾
Meaning
Keep
एवं
शप्तश्चित्रकेतुर्विमानादवरुह्य
सः
।
प्रसादयामास
सतीं
मूर्ध्ना
नम्रेण
भारत
17
▾
Meaning
Keep
प्रतिगृह्णामि
ते
शापमात्मनोऽञ्जलिनाम्बिके
।
देवैर्मर्त्याय
यत्प्रोक्तं
पूर्वदिष्टं
हि
तस्य
तत्
18
▾
Meaning
Keep
संसारचक्र
एतस्मिञ्जन्तुरज्ञानमोहितः
।
भ्राम्यन्
सुखं
च
दुःखं
च
भुङ्क्ते
सर्वत्र
सर्वदा
19
▾
Meaning
Keep
नैवात्मा
न
परश्चापि
कर्ता
स्यात्सुखदुःखयोः
।
कर्तारं
मन्यतेऽत्राज्ञ
आत्मानं
परमेव
च
20
▾
Meaning
Keep
गुणप्रवाह
एतस्मिन्
कः
शापः
को
न्वनुग्रहः
।
कः
स्वर्गो
नरकः
को
वा
किं
सुखं
दुःखमेव
वा
21
▾
Meaning
Keep
एकः
सृजति
भूतानि
भगवानात्ममायया
।
एषां
बन्धं
च
मोक्षं
च
सुखं
दुःखं
च
निष्कलः
22
▾
Meaning
Keep
न
तस्य
कश्चिद्दयितः
प्रतीपो
न
ज्ञातिबन्धुर्न
परो
न
च
स्वः
।
समस्य
सर्वत्र
निरञ्जनस्य
सुखे
न
रागः
कुत
एव
रोषः
23
▾
Meaning
Keep
तथापि
तच्छक्तिविसर्ग
एषां
सुखाय
दुःखाय
हिताहिताय
।
बन्धाय
मोक्षाय
च
मृत्युजन्मनोः
शरीरिणां
संसृतयेऽवकल्पते
24
▾
Meaning
Keep
अथ
प्रसादये
न
त्वां
शापमोक्षाय
भामिनि
।
यन्मन्यसे
ह्यसाधूक्तं
मम
तत्क्षम्यतां
सति
25
▾
Meaning
Keep
इति
प्रसाद्य
गिरिशौ
चित्रकेतुररिन्दम
।
जगाम
स्वविमानेन
पश्यतोः
स्मयतोस्तयोः
26
▾
Meaning
Keep
ततस्तु
भगवान्
रुद्रो
रुद्राणीमिदमब्रवीत्
।
देवर्षिदैत्यसिद्धानां
पार्षदानां
च
शृण्वताम्
27
▾
Meaning
Keep
दृष्टवत्यसि
सुश्रोणि
हरेरद्भुतकर्मणः
।
माहात्म्यं
भृत्यभृत्यानां
निःस्पृहाणां
महात्मनाम्
28
▾
Meaning
Keep
नारायणपराः
सर्वे
न
कुतश्चन
बिभ्यति
।
स्वर्गापवर्गनरकेष्वपि
तुल्यार्थदर्शिनः
29
▾
Meaning
Keep
देहिनां
देहसंयोगाद्द्वन्द्वानीश्वरलीलया
।
सुखं
दुःखं
मृतिर्जन्म
शापोऽनुग्रह
एव
च
30
▾
Meaning
Keep
अविवेककृतः
पुंसो
ह्यर्थभेद
इवात्मनि
।
गुणदोषविकल्पश्च
भिदेव
स्रजिवत्कृतः
31
▾
Meaning
Keep
वासुदेवे
भगवति
भक्तिमुद्वहतां
नृणाम्
।
ज्ञानवैराग्यवीर्याणां
नेह
कश्चिद्व्यपाश्रयः
32
▾
Meaning
Keep
नाहं
विरिञ्चो
न
कुमारनारदौ
न
ब्रह्मपुत्रा
मुनयः
सुरेशाः
।
विदाम
यस्येहितमंशकांशका
न
तत्स्वरूपं
पृथगीशमानिनः
33
▾
Meaning
Keep
न
ह्यस्यास्ति
प्रियः
कश्चिन्नाप्रियः
स्वः
परोऽपि
वा
।
आत्मत्वात्सर्वभूतानां
सर्वभूतप्रियो
हरिः
34
▾
Meaning
Keep
तस्य
चायं
महाभागश्चित्रकेतुः
प्रियोऽनुगः
।
सर्वत्र
समदृक्
शान्तो
ह्यहं
चैवाच्युतप्रियः
35
▾
Meaning
Keep
तस्मान्न
विस्मयः
कार्यः
पुरुषेषु
महात्मसु
।
महापुरुषभक्तेषु
शान्तेषु
समदर्शिषु
36
▾
Meaning
Keep
इति
श्रुत्वा
भगवतः
शिवस्योमाभिभाषितम्
।
बभूव
शान्तधी
राजन्
देवी
विगतविस्मया
37
▾
Meaning
Keep
इति
भागवतो
देव्याः
प्रतिशप्तुमलन्तमः
।
मूर्ध्ना
स
जगृहे
शापमेतावत्साधुलक्षणम्
38
▾
Meaning
Keep
जज्ञे
त्वष्टुर्दक्षिणाग्नौ
दानवीं
योनिमाश्रितः
।
वृत्र
इत्यभिविख्यातो
ज्ञानविज्ञानसंयुतः
39
▾
Meaning
Keep
एतत्ते
सर्वमाख्यातं
यन्मां
त्वं
परिपृच्छसि
।
वृत्रस्यासुरजातेश्च
कारणं
भगवन्मतेः
40
▾
Meaning
Keep
इतिहासमिमं
पुण्यं
चित्रकेतोर्महात्मनः
।
माहात्म्यं
विष्णुभक्तानां
श्रुत्वा
बन्धाद्विमुच्यते
41
▾
Meaning
Keep
य
एतत्प्रातरुत्थाय
श्रद्धया
वाग्यतः
पठेत्
।
इतिहासं
हरिं
स्मृत्वा
स
याति
परमां
गतिम्
Previous
←
The Dead Boy Speaks, and Citraketu Sees Sesa
Next
The Birth of the Maruts
→