Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Vow for a Son
Śrīmad Bhāgavatam
›
Canto 6
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
व्रतं
पुंसवनं
ब्रह्मन्
भवता
यदुदीरितम्
।
तस्य
वेदितुमिच्छामि
येन
विष्णुः
प्रसीदति
2
▾
Meaning
Keep
शुक्ले
मार्गशिरे
पक्षे
योषिद्भर्तुरनुज्ञया
।
आरभेत
व्रतमिदं
सार्वकामिकमादितः
3
▾
Meaning
Keep
निशम्य
मरुतां
जन्म
ब्राह्मणाननुमन्त्र्य
च
।
स्नात्वा
शुक्लदती
शुक्ले
वसीतालङ्कृताम्बरे
।
पूजयेत्प्रातराशात्प्राग्भगवन्तं
श्रिया
सह
Hymn
4
▾
Meaning
Keep
अलं
ते
निरपेक्षाय
पूर्णकाम
नमोऽस्तु
ते
।
महाविभूतिपतये
नमः
सकलसिद्धये
5
▾
Meaning
Keep
यथा
त्वं
कृपया
भूत्या
तेजसा
महिमौजसा
।
जुष्ट
ईश
गुणैः
सर्वैस्ततोऽसि
भगवान्
प्रभुः
6
▾
Meaning
Keep
विष्णुपत्नि
महामाये
महापुरुषलक्षणे
।
प्रीयेथा
मे
महाभागे
लोकमातर्नमोऽस्तु
ते
7
▾
Meaning
Keep
ॐ
नमो
भगवते
महापुरुषाय
महानुभावाय
महाविभूतिपतये
सह
महाविभूतिभिर्बलिमुपहरामीति
।
अनेनाहरहर्मन्त्रेण
विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासउपवीतविभूषणगन्धपुष्पधूप
दीपोपहाराद्युपचारान्
सुसमाहितोपाहरेत्
8
▾
Meaning
Keep
हविःशेषं
च
जुहुयादनले
द्वादशाहुतीः
।
ॐ
नमो
भगवते
महापुरुषाय
महाविभूतिपतये
स्वाहेति
9
▾
Meaning
Keep
श्रियं
विष्णुं
च
वरदावाशिषां
प्रभवावुभौ
।
भक्त्या
सम्पूजयेन्नित्यं
यदीच्छेत्सर्वसम्पदः
10
▾
Meaning
Keep
प्रणमेद्दण्डवद्भूमौ
भक्तिप्रह्वेण
चेतसा
।
दशवारं
जपेन्मन्त्रं
ततः
स्तोत्रमुदीरयेत्
Hymn
11
▾
Meaning
Keep
युवां
तु
विश्वस्य
विभू
जगतः
कारणं
परम्
।
इयं
हि
प्रकृतिः
सूक्ष्मा
मायाशक्तिर्दुरत्यया
12
▾
Meaning
Keep
तस्या
अधीश्वरः
साक्षात्त्वमेव
पुरुषः
परः
।
त्वं
सर्वयज्ञ
इज्येयं
क्रियेयं
फलभुग्भवान्
13
▾
Meaning
Keep
गुणव्यक्तिरियं
देवी
व्यञ्जको
गुणभुग्भवान्
।
त्वं
हि
सर्वशरीर्यात्मा
श्रीः
शरीरेन्द्रियाशयाः
।
नामरूपे
भगवती
प्रत्ययस्त्वमपाश्रयः
14
▾
Meaning
Keep
यथा
युवां
त्रिलोकस्य
वरदौ
परमेष्ठिनौ
।
तथा
म
उत्तमश्लोक
सन्तु
सत्या
महाशिषः
15
▾
Meaning
Keep
इत्यभिष्टूय
वरदं
श्रीनिवासं
श्रिया
सह
।
तन्निःसार्योपहरणं
दत्त्वाऽऽचमनमर्चयेत्
16
▾
Meaning
Keep
ततः
स्तुवीत
स्तोत्रेण
भक्तिप्रह्वेण
चेतसा
।
यज्ञोच्छिष्टमवघ्राय
पुनरभ्यर्चयेद्धरिम्
17
▾
Meaning
Keep
पतिं
च
परया
भक्त्या
महापुरुषचेतसा
।
प्रियैस्तैस्तैरुपनमेत्प्रेमशीलः
स्वयं
पतिः
।
बिभृयात्सर्वकर्माणि
पत्न्या
उच्चावचानि
च
18
▾
Meaning
Keep
कृतमेकतरेणापि
दम्पत्योरुभयोरपि
।
पत्न्यां
कुर्यादनर्हायां
पतिरेतत्समाहितः
19
▾
Meaning
Keep
विष्णोर्व्रतमिदं
बिभ्रन्न
विहन्यात्
कथञ्चन
।
विप्रान्
स्त्रियो
वीरवतीः
स्रग्गन्धबलिमण्डनैः
।
अर्चेदहरहर्भक्त्या
देवं
नियममास्थितः
20
▾
Meaning
Keep
उद्वास्य
देवं
स्वे
धाम्नि
तन्निवेदितमग्रतः
।
अद्यादात्मविशुद्ध्यर्थं
सर्वकामर्द्धयेतथा
21
▾
Meaning
Keep
एतेन
पूजाविधिना
मासान्
द्वादश
हायनम्
।
नीत्वाथोपरमेत्साध्वी
कार्तिके
चरमेऽहनि
22
▾
Meaning
Keep
श्वोभूतेऽप
उपस्पृश्य
कृष्णमभ्यर्च्य
पूर्ववत्
।
पयःशृतेन
जुहुयाच्चरुणा
सह
सर्पिषा
।
पाकयज्ञविधानेन
द्वादशैवाहुतीः
पतिः
23
▾
Meaning
Keep
आशिषः
शिरसाऽऽदाय
द्विजैः
प्रीतैः
समीरिताः
।
प्रणम्य
शिरसा
भक्त्या
भुञ्जीत
तदनुज्ञया
24
▾
Meaning
Keep
आचार्यमग्रतः
कृत्वा
वाग्यतः
सह
बन्धुभिः
।
दद्यात्पत्न्यै
चरोः
शेषं
सुप्रजास्त्वं
सुसौभगम्
25
▾
Meaning
Keep
एतच्चरित्वा
विधिवद्
व्रतं
विभोरभीप्सितार्थं
लभते
पुमानिह
।
स्त्री
त्वेतदास्थाय
लभेत
सौभगं
श्रियं
प्रजां
जीवपतिं
यशो
गृहम्
26
▾
Meaning
Keep
कन्या
च
विन्देत
समग्रलक्षणं
वरं
त्ववीरा
हतकिल्बिषां
गतिम्
।
मृतप्रजा
जीवसुता
धनेश्वरी
सुदुर्भगा
सुभगा
रूपमग्र्यम्
27
▾
Meaning
Keep
विन्देद्
विरूपा
विरुजा
विमुच्यते
य
आमयावीन्द्रियकल्यदेहम्
।
एतत्
पठन्नभ्युदये
च
कर्मण्यनन्ततृप्तिः
पितृदेवतानाम्
28
▾
Meaning
Keep
तुष्टाः
प्रयच्छन्ति
समस्तकामान्
होमावसाने
हुतभुक्
श्रीहरिश्च
।
राजन्
महन्मरुतां
जन्म
पुण्यं
दितेर्व्रतं
चाभिहितं
महत्
ते
Previous
←
The Birth of the Maruts
Next
Why He Seems to Take Sides
→