Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Hiranyakasipu Comforts His Kin
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भ्रातर्येवं
विनिहते
हरिणा
क्रोडमूर्तिना
।
हिरण्यकशिपू
राजन्
पर्यतप्यद्रुषा
शुचा
2
▾
Meaning
Keep
आह
चेदं
रुषा
पूर्णः
सन्दष्टदशनच्छदः
।
कोपोज्ज्वलद्भ्यां
चक्षुर्भ्यां
निरीक्षन्
धूम्रमम्बरम्
3
▾
Meaning
Keep
करालदंष्ट्रोग्रदृष्ट्या
दुष्प्रेक्ष्यभ्रुकुटीमुखः
।
शूलमुद्यम्य
सदसि
दानवानिदमब्रवीत्
4
▾
Meaning
Keep
भो
भो
दानवदैतेया
द्विमूर्धंस्त्र्यक्ष
शम्बर
।
शतबाहो
हयग्रीव
नमुचे
पाक
इल्वल
5
▾
Meaning
Keep
विप्रचित्ते
मम
वचः
पुलोमन्
शकुनादयः
।
शृणुतानन्तरं
सर्वे
क्रियतामाशु
मा
चिरम्
6
▾
Meaning
Keep
सपत्नैर्घातितः
क्षुद्रैर्भ्राता
मे
दयितः
सुहृत्
।
पार्ष्णिग्राहेण
हरिणा
समेनाप्युपधावनैः
7
▾
Meaning
Keep
तस्य
त्यक्तस्वभावस्य
घृणेर्मायावनौकसः
।
भजन्तं
भजमानस्य
बालस्येवास्थिरात्मनः
8
▾
Meaning
Keep
मच्छूलभिन्नग्रीवस्य
भूरिणा
रुधिरेण
वै
।
रुधिरप्रियं
तर्पयिष्ये
भ्रातरं
मे
गतव्यथः
9
▾
Meaning
Keep
तस्मिन्
कूटेऽहिते
नष्टे
कृत्तमूले
वनस्पतौ
।
विटपा
इव
शुष्यन्ति
विष्णुप्राणा
दिवौकसः
10
▾
Meaning
Keep
तावद्यात
भुवं
यूयं
विप्रक्षत्रसमेधिताम्
।
सूदयध्वं
तपोयज्ञस्वाध्यायव्रतदानिनः
11
▾
Meaning
Keep
विष्णुर्द्विजक्रियामूलो
यज्ञो
धर्ममयः
पुमान्
।
देवर्षिपितृभूतानां
धर्मस्य
च
परायणम्
12
▾
Meaning
Keep
यत्र
यत्र
द्विजा
गावो
वेदा
वर्णाश्रमाः
क्रियाः
।
तं
तं
जनपदं
यात
सन्दीपयत
वृश्चत
13
▾
Meaning
Keep
इति
ते
भर्तृनिर्देशमादाय
शिरसाऽऽदृताः
।
तथा
प्रजानां
कदनं
विदधुः
कदनप्रियाः
14
▾
Meaning
Keep
पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान्
।
खेटखर्वटघोषांश्च
ददहुः
पत्तनानि
च
15
▾
Meaning
Keep
केचित्
खनित्रैर्बिभिदुः
सेतुप्राकारगोपुरान्
।
आजीव्यांश्चिच्छिदुर्वृक्षान्
केचित्परशुपाणयः
।
प्रादहन्
शरणान्ये
प्रजानां
ज्वलितोल्मुकैः
16
▾
Meaning
Keep
एवं
विप्रकृते
लोके
दैत्येन्द्रानुचरैर्मुहुः
।
दिवं
देवाः
परित्यज्य
भुवि
चेरुरलक्षिताः
17
▾
Meaning
Keep
हिरण्यकशिपुर्भ्रातुः
सम्परेतस्य
दुःखितः
।
कृत्वा
कटोदकादीनि
भ्रातृपुत्रानसान्त्वयत्
18
▾
Meaning
Keep
शकुनिं
शम्बरं
धृष्टं
भूतसन्तापनं
वृकम्
।
कालनाभं
महानाभं
हरिश्मश्रुमथोत्कचम्
19
▾
Meaning
Keep
तन्मातरं
रुषाभानुं
दितिं
च
जननीं
गिरा
।
श्लक्ष्णया
देशकालज्ञ
इदमाह
जनेश्वर
20
▾
Meaning
Keep
अम्बाम्ब
हे
वधूः
पुत्रा
वीरं
मार्हथ
शोचितुम्
।
रिपोरभिमुखे
श्लाघ्यः
शूराणां
वध
ईप्सितः
21
▾
Meaning
Keep
भूतानामिह
संवासः
प्रपायामिव
सुव्रते
।
दैवेनैकत्र
नीतानामुन्नीतानां
स्वकर्मभिः
22
▾
Meaning
Keep
नित्य
आत्माव्ययः
शुद्धः
सर्वगः
सर्ववित्परः
।
धत्तेऽसावात्मनो
लिङ्गं
मायया
विसृजन्
गुणान्
23
▾
Meaning
Keep
यथाम्भसा
प्रचलता
तरवोऽपि
चला
इव
।
चक्षुषा
भ्राम्यमाणेन
दृश्यते
चलतीव
भूः
24
▾
Meaning
Keep
एवं
गुणैर्भ्राम्यमाणे
मनस्यविकलः
पुमान्
।
याति
तत्साम्यतां
भद्रे
ह्यलिङ्गो
लिङ्गवानिव
25
▾
Meaning
Keep
एष
आत्मविपर्यासो
ह्यलिङ्गे
लिङ्गभावना
।
एष
प्रियाप्रियैर्योगो
वियोगः
कर्मसंसृतिः
26
▾
Meaning
Keep
सम्भवश्च
विनाशश्च
शोकश्च
विविधः
स्मृतः
।
अविवेकश्च
चिन्ता
च
विवेकास्मृतिरेव
च
27
▾
Meaning
Keep
अत्राप्युदाहरन्तीममितिहासं
पुरातनम्
।
यमस्य
प्रेतबन्धूनां
संवादं
तं
निबोधत
28
▾
Meaning
Keep
उशीनरेष्वभूद्राजा
सुयज्ञ
इति
विश्रुतः
।
सपत्नैर्निहतो
युद्धे
ज्ञातयस्तमुपासत
29
▾
Meaning
Keep
विशीर्णरत्नकवचं
विभ्रष्टाभरणस्रजम्
।
शरनिर्भिन्नहृदयं
शयानमसृगाविलम्
30
▾
Meaning
Keep
प्रकीर्णकेशं
ध्वस्ताक्षं
रभसा
दष्टदच्छदम्
।
रजःकुण्ठमुखाम्भोजं
छिन्नायुधभुजं
मृधे
31
▾
Meaning
Keep
उशीनरेन्द्रं
विधिना
तथा
कृतं
पतिं
महिष्यः
प्रसमीक्ष्य
दुःखिताः
।
हताः
स्म
नाथेति
करैरुरो
भृशं
घ्नन्त्यो
मुहुस्तत्पदयोरुपापतन्
32
▾
Meaning
Keep
रुदत्य
उच्चैर्दयिताङ्घ्रिपङ्कजं
सिञ्चन्त्य
अस्रैः
कुचकुङ्कुमारुणैः
।
विस्रस्तकेशाभरणाः
शुचं
नृणां
सृजन्त्य
आक्रन्दनया
विलेपिरे
33
▾
Meaning
Keep
अहो
विधात्राकरुणेन
नः
प्रभो
भवान्
प्रणीतो
दृगगोचरां
दशाम्
।
उशीनराणामसि
वृत्तिदः
पुरा
कृतोऽधुना
येन
शुचां
विवर्धनः
34
▾
Meaning
Keep
त्वया
कृतज्ञेन
वयं
महीपते
कथं
विना
स्याम
सुहृत्तमेन
ते
।
तत्रानुयानं
तव
वीर
पादयोः
शुश्रूषतीनां
दिश
यत्र
यास्यसि
35
▾
Meaning
Keep
एवं
विलपतीनां
वै
परिगृह्य
मृतं
पतिम्
।
अनिच्छतीनां
निर्हारमर्कोऽस्तं
संन्यवर्तत
36
▾
Meaning
Keep
तत्र
ह
प्रेतबन्धूनामाश्रुत्य
परिदेवितम्
।
आह
तान्
बालको
भूत्वा
यमः
स्वयमुपागतः
37
▾
Meaning
Keep
अहो
अमीषां
वयसाधिकानां
विपश्यतां
लोकविधिं
विमोहः
।
यत्रागतस्तत्र
गतं
मनुष्यं
स्वयं
सधर्मा
अपि
शोचन्त्यपार्थम्
38
▾
Meaning
Keep
अहो
वयं
धन्यतमा
यदत्र
त्यक्ताः
पितृभ्यां
न
विचिन्तयामः
।
अभक्ष्यमाणा
अबला
वृकादिभिः
स
रक्षिता
रक्षति
यो
हि
गर्भे
39
▾
Meaning
Keep
य
इच्छयेशः
सृजतीदमव्ययो
य
एव
रक्षत्यवलुम्पते
च
यः
।
तस्याबलाः
क्रीडनमाहुरीशितुश्चराचरं
निग्रहसंग्रहे
प्रभुः
40
▾
Meaning
Keep
पथि
च्युतं
तिष्ठति
दिष्टरक्षितं
गृहे
स्थितं
तद्विहतं
विनश्यति
।
जीवत्यनाथोऽपि
तदीक्षितो
वने
गृहेऽभिगुप्तोऽस्य
हतो
न
जीवति
41
▾
Meaning
Keep
भूतानि
तैस्तैर्निजयोनिकर्मभि-
र्भवन्ति
काले
न
भवन्ति
सर्वशः
।
न
तत्र
हात्मा
प्रकृतावपि
स्थित-
स्तस्या
गुणैरन्यतमो
निबध्यते
42
▾
Meaning
Keep
इदं
शरीरं
पुरुषस्य
मोहजं
यथा
पृथग्भौतिकमीयते
गृहम्
।
यथौदकैः
पार्थिवतैजसैर्जनः
कालेन
जातो
विकृतो
विनश्यति
43
▾
Meaning
Keep
यथानलो
दारुषु
भिन्न
ईयते
यथानिलो
देहगतः
पृथक्
स्थितः
।
यथा
नभः
सर्वगतं
न
सज्जते
तथा
पुमान्
सर्वगुणाश्रयः
परः
44
▾
Meaning
Keep
सुयज्ञो
नन्वयं
शेते
मूढा
यमनुशोचथ
।
यः
श्रोता
योऽनुवक्तेह
स
न
दृश्येत
कर्हिचित्
45
▾
Meaning
Keep
न
श्रोता
नानुवक्तायं
मुख्योऽप्यत्र
महानसुः
।
यस्त्विहेन्द्रियवानात्मा
स
चान्यः
प्राणदेहयोः
46
▾
Meaning
Keep
भूतेन्द्रियमनोलिङ्गान्
देहानुच्चावचान्
विभुः
।
भजत्युत्सृजति
ह्यन्यस्तच्चापि
स्वेन
तेजसा
47
▾
Meaning
Keep
यावल्लिङ्गान्वितो
ह्यात्मा
तावत्कर्म
निबन्धनम्
।
ततो
विपर्ययः
क्लेशो
मायायोगोऽनुवर्तते
48
▾
Meaning
Keep
वितथाभिनिवेशोऽयं
यद्गुणेष्वर्थदृग्वचः
।
यथा
मनोरथः
स्वप्नः
सर्वमैन्द्रियकं
मृषा
49
▾
Meaning
Keep
अथ
नित्यमनित्यं
वा
नेह
शोचन्ति
तद्विदः
।
नान्यथा
शक्यते
कर्तुं
स्वभावः
शोचतामिति
50
▾
Meaning
Keep
लुब्धको
विपिने
कश्चित्पक्षिणां
निर्मितोऽन्तकः
।
वितत्य
जालं
विदधे
तत्र
तत्र
प्रलोभयन्
51
▾
Meaning
Keep
कुलिङ्गमिथुनं
तत्र
विचरत्समदृश्यत
।
तयोः
कुलिङ्गी
सहसा
लुब्धकेन
प्रलोभिता
52
▾
Meaning
Keep
सासज्जत
शिचस्तन्त्यां
महिषी
कालयन्त्रिता
।
कुलिङ्गस्तां
तथाऽऽपन्नां
निरीक्ष्य
भृशदुःखितः
।
स्नेहादकल्पः
कृपणः
कृपणां
पर्यदेवयत्
53
▾
Meaning
Keep
अहो
अकरुणो
देवः
स्त्रियाकरुणया
विभुः
।
कृपणं
मामनुशोचन्त्या
दीनया
किं
करिष्यति
54
▾
Meaning
Keep
कामं
नयतु
मां
देवः
किमर्धेनात्मनो
हि
मे
।
दीनेन
जीवता
दुःखमनेन
विधुरायुषा
55
▾
Meaning
Keep
कथं
त्वजातपक्षांस्तान्
मातृहीनान्
बिभर्म्यहम्
।
मन्दभाग्याः
प्रतीक्षन्ते
नीडे
मे
मातरं
प्रजाः
56
▾
Meaning
Keep
एवं
कुलिङ्गं
विलपन्तमारा-
त्प्रियावियोगातुरमश्रुकण्ठम्
।
स
एव
तं
शाकुनिकः
शरेण
विव्याध
कालप्रहितो
विलीनः
57
▾
Meaning
Keep
एवं
यूयमपश्यन्त्य
आत्मापायमबुद्धयः
।
नैनं
प्राप्स्यथ
शोचन्त्यः
पतिं
वर्षशतैरपि
58
▾
Meaning
Keep
बाल
एवं
प्रवदति
सर्वे
विस्मितचेतसः
।
ज्ञातयो
मेनिरे
सर्वमनित्यमयथोत्थितम्
59
▾
Meaning
Keep
यम
एतदुपाख्याय
तत्रैवान्तरधीयत
।
ज्ञातयोऽपि
सुयज्ञस्य
चक्रुर्यत्साम्परायिकम्
60
▾
Meaning
Keep
ततः
शोचत
मा
यूयं
परं
चात्मानमेव
वा
।
क
आत्मा
कः
परो
वात्र
स्वीयः
पारक्य
एव
वा
।
स्वपराभिनिवेशेन
विनाज्ञानेन
देहिनाम्
61
▾
Meaning
Keep
इति
दैत्यपतेर्वाक्यं
दितिराकर्ण्य
सस्नुषा
।
पुत्रशोकं
क्षणात्त्यक्त्वा
तत्त्वे
चित्तमधारयत्
Previous
←
Why He Seems to Take Sides
Next
The Boon Hiranyakasipu Asked For
→