Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Prahlada's Praise
Śrīmad Bhāgavatam
›
Canto 7
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
सुरादयः
सर्वे
ब्रह्मरुद्रपुरःसराः
।
नोपैतुमशकन्
मन्युसंरम्भं
सुदुरासदम्
2
▾
Meaning
Keep
साक्षाच्छ्रीः
प्रेषिता
देवैर्दृष्ट्वा
तं
महदद्भुतम्
।
अदृष्टाश्रुतपूर्वत्
वात्सा
नोपेयाय
शङ्किता
3
▾
Meaning
Keep
प्रह्रादं
प्रेषयामास
ब्रह्मावस्थितमन्तिके
।
तात
प्रशमयोपेहि
स्वपित्रे
कुपितं
प्रभुम्
4
▾
Meaning
Keep
तथेति
शनकै
राजन्
महाभागवतोऽर्भकः
।
उपेत्य
भुवि
कायेन
ननाम
विधृताञ्जलिः
5
▾
Meaning
Keep
स्वपादमूले
पतितं
तमर्भकं
विलोक्य
देवः
कृपया
परिप्लुतः
।
उत्थाप्य
तच्छीर्ष्ण्यदधात्कराम्बुजं
कालाहिवित्रस्तधियां
कृताभयम्
6
▾
Meaning
Keep
स
तत्करस्पर्शधुताखिलाशुभः
सपद्यभिव्यक्तपरात्मदर्शनः
।
तत्पादपद्मं
हृदि
निर्वृतो
दधौ
हृष्यत्तनुः
क्लिन्नहृदश्रुलोचनः
Hymn
7
▾
Meaning
Keep
अस्तौषीद्धरिमेकाग्रमनसा
सुसमाहितः
।
प्रेमगद्गदया
वाचा
तन्न्यस्तहृदयेक्षणः
8
▾
Meaning
Keep
ब्रह्मादयः
सुरगणा
मुनयोऽथ
सिद्धाः
सत्त्वैकतानमतयो
वचसां
प्रवाहैः
।
नाराधितुं
पुरुगुणैरधुनापि
पिप्रुः
किं
तोष्टुमर्हति
स
मे
हरिरुग्रजातेः
9
▾
Meaning
Keep
मन्ये
धनाभिजनरूपतपःश्रुतौज-
स्तेजःप्रभावबलपौरुषबुद्धियोगाः
।
नाराधनाय
हि
भवन्ति
परस्य
पुंसो
भक्त्या
तुतोष
भगवान्
गजयूथपाय
10
▾
Meaning
Keep
विप्राद्
द्विषड्गुणयुतादरविन्दनाभपादारविन्दविमुखाच्छ्वपचं
वरिष्ठम्
।
मन्ये
तदर्पितमनोवचनेहितार्थप्राणं
पुनाति
स
कुलं
न
तु
भूरिमानः
11
▾
Meaning
Keep
नैवात्मनः
प्रभुरयं
निजलाभपूर्णो
मानं
जनादविदुषः
करुणो
वृणीते
।
यद्यज्जनो
भगवते
विदधीत
मानं
तच्चात्मने
प्रतिमुखस्य
यथा
मुखश्रीः
12
▾
Meaning
Keep
तस्मादहं
विगतविक्लव
ईश्वरस्य
सर्वात्मना
महि
गृणामि
यथा
मनीषम्
।
नीचोऽजया
गुणविसर्गमनुप्रविष्टः
पूयेत
येन
हि
पुमाननुवर्णितेन
13
▾
Meaning
Keep
सर्वे
ह्यमी
विधिकरास्तव
सत्त्वधाम्नो
ब्रह्मादयो
वयमिवेश
न
चोद्विजन्तः
।
क्षेमाय
भूतय
उतात्मसुखाय
चास्य
विक्रीडितं
भगवतो
रुचिरावतारैः
14
▾
Meaning
Keep
तद्यच्छ
मन्युमसुरश्च
हतस्त्वयाद्य
मोदेत
साधुरपि
वृश्चिकसर्पहत्या
।
लोकाश्च
निर्वृतिमिताः
प्रतियन्ति
सर्वे
रूपं
नृसिंह
विभयाय
जनाः
स्मरन्ति
15
▾
Meaning
Keep
नाहं
बिभेम्यजित
तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात्
।
आन्त्रस्रजःक्षतजकेसरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात्
16
▾
Meaning
Keep
त्रस्तोऽस्म्यहं
कृपणवत्सल
दुःसहोग्र
संसारचक्रकदनाद्
ग्रसतां
प्रणीतः
।
बद्धः
स्वकर्मभिरुशत्तम
तेऽङ्घ्रिमूलं
प्रीतोऽपवर्गशरणं
ह्वयसे
कदा
नु
17
▾
Meaning
Keep
यस्मात्
प्रियाप्रियवियोगसंयोगजन्म-
शोकाग्निना
सकलयोनिषु
दह्यमानः
।
दुःखौषधं
तदपि
दुःखमतद्धियाहं
भूमन्
भ्रमामि
वद
मे
तव
दास्ययोगम्
18
▾
Meaning
Keep
सोऽहं
प्रियस्य
सुहृदः
परदेवताया
लीलाकथास्तव
नृसिंह
विरिञ्चगीताः
।
अञ्जस्तितर्म्यनुगृणन्
गुणविप्रमुक्तो
दुर्गाणि
ते
पदयुगालयहंससङ्गः
19
▾
Meaning
Keep
बालस्य
नेह
शरणं
पितरौ
नृसिंह
नार्तस्य
चागदमुदन्वति
मज्जतो
नौः
।
तप्तस्य
तत्प्रतिविधिर्य
इहाञ्जसेष्ट-
स्तावद्विभो
तनुभृतां
त्वदुपेक्षितानाम्
20
▾
Meaning
Keep
यस्मिन्
यतो
यर्हि
येन
च
यस्य
यस्माद्
यस्मै
यथा
यदुत
यस्त्वपरः
परो
वा
।
भावः
करोति
विकरोति
पृथक्स्वभावः
संचोदितस्तदखिलं
भवतः
स्वरूपम्
21
▾
Meaning
Keep
माया
मनः
सृजति
कर्ममयं
बलीयः
कालेन
चोदितगुणानुमतेन
पुंसः
।
छन्दोमयं
यदजयार्पितषोडशारं
संसारचक्रमज
कोऽतितरेत्त्वदन्यः
22
▾
Meaning
Keep
स
त्वं
हि
नित्यविजितात्मगुणः
स्वधाम्ना
कालो
वशीकृतविसृज्यविसर्गशक्तिः
।
चक्रे
विसृष्टमजयेश्वर
षोडशारे
निष्पीड्यमानमुपकर्ष
विभो
प्रपन्नम्
23
▾
Meaning
Keep
दृष्टा
मया
दिवि
विभोऽखिलधिष्ण्यपाना-
मायुः
श्रियो
विभव
इच्छति
याञ्जनोऽयम्
।
येऽस्मत्पितुः
कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन
लुलिताः
स
तु
ते
निरस्तः
24
▾
Meaning
Keep
तस्मादमूस्तनुभृतामहमाशिषो
ज्ञ
आयुः
श्रियं
विभवमैन्द्रियमाविरिञ्चात्
।
नेच्छामि
ते
विलुलितानुरुविक्रमेण
कालात्मनोपनय
मां
निजभृत्यपार्श्वम्
25
▾
Meaning
Keep
कुत्राशिषः
श्रुतिसुखा
मृगतृष्णिरूपाः
क्वेदं
कलेवरमशेषरुजां
विरोहः
।
निर्विद्यते
न
तु
जनो
यदपीति
विद्वान्
कामानलं
मधुलवैः
शमयन्
दुरापैः
26
▾
Meaning
Keep
क्वाहं
रजःप्रभव
ईश
तमोऽधिकेऽस्मिन्
जातः
सुरेतरकुले
क्व
तवानुकम्पा
।
न
ब्रह्मणो
न
तु
भवस्य
न
वै
रमाया
यन्मेऽर्पितः
शिरसि
पद्मकरः
प्रसादः
27
▾
Meaning
Keep
नैषा
परावरमतिर्भवतो
ननु
स्या-
ज्जन्तोर्यथाऽऽत्मसुहृदो
जगतस्तथापि
।
संसेवया
सुरतरोरिव
ते
प्रसादः
सेवानुरूपमुदयो
न
परावरत्वम्
28
▾
Meaning
Keep
एवं
जनं
निपतितं
प्रभवाहिकूपे
कामाभिकाममनु
यः
प्रपतन्
प्रसङ्गात्
।
कृत्वाऽऽत्मसात्सुरर्षिणा
भगवन्
गृहीतः
सोऽहं
कथं
नु
विसृजे
तव
भृत्यसेवाम्
29
▾
Meaning
Keep
मत्प्राणरक्षणमनन्त
पितुर्वधश्च
मन्ये
स्वभृत्यऋषिवाक्यमृतं
विधातुम्
।
खड्गं
प्रगृह्य
यदवोचदसद्विधित्सु-
स्त्वामीश्वरो
मदपरोऽवतु
कं
हरामि
30
▾
Meaning
Keep
एकस्त्वमेव
जगदेतममुष्य
यत्त्व-
माद्यन्तयोः
पृथगवस्यसि
मध्यतश्च
।
सृष्ट्वा
गुणव्यतिकरं
निजमाययेदं
नानेव
तैरवसितस्तदनुप्रविष्टः
31
▾
Meaning
Keep
त्वं
वा
इदं
सदसदीश
भवांस्ततोऽन्यो
माया
यदात्मपरबुद्धिरियं
ह्यपार्था
।
यद्यस्य
जन्म
निधनं
स्थितिरीक्षणं
च
तद्वै
तदेव
वसुकालवदष्टितर्वोः
32
▾
Meaning
Keep
न्यस्येदमात्मनि
जगद्विलयाम्बुमध्ये
शेषेऽऽत्मना
निजसुखानुभवो
निरीहः
।
योगेन
मीलितदृगात्मनिपीतनिद्र-
स्तुर्ये
स्थितो
न
तु
तमो
न
गुणांश्च
युङ्क्षे
33
▾
Meaning
Keep
तस्यैव
ते
वपुरिदं
निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मण
आत्मगूढम्
।
अम्भस्यनन्तशयनाद्विरमत्समाधे-
र्नाभेरभूत्स्वकणिकावटवन्महाब्जम्
34
▾
Meaning
Keep
तत्सम्भवः
कविरतोऽन्यदपश्यमान-
स्त्वां
बीजमात्मनि
ततं
स्वबहिर्विचिन्त्य
।
नाविन्ददब्दशतमप्सु
निमज्जमानो
जातेऽङ्कुरे
कथमु
होपलभेत
बीजम्
35
▾
Meaning
Keep
स
त्वात्मयोनिरतिविस्मित
आश्रितोऽब्जं
कालेन
तीव्रतपसा
परिशुद्धभावः
।
त्वामात्मनीश
भुवि
गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये
विततं
ददर्श
36
▾
Meaning
Keep
एवं
सहस्रवदनाङ्घ्रिशिरःकरोरु
नासास्यकर्णनयनाभरणायुधाढ्यम्
।
मायामयं
सदुपलक्षितसन्निवेशं
दृष्ट्वा
महापुरुषमाप
मुदं
विरिञ्चः
37
▾
Meaning
Keep
तस्मै
भवान्
हयशिरस्तनुवं
हि
बिभ्रद्
वेदद्रुहावतिबलौ
मधुकैटभाख्यौ
।
हत्वाऽऽनयच्छ्रुतिगणांस्तु
रजस्तमश्च
सत्त्वं
तव
प्रियतमां
तनुमामनन्ति
38
▾
Meaning
Keep
इत्थं
नृतिर्यगृषिदेवझषावतारै-
र्लोकान्
विभावयसि
हंसि
जगत्प्रतीपान्
।
धर्मं
महापुरुष
पासि
युगानुवृत्तं
छन्नः
कलौ
यदभवस्त्रियुगोऽथ
स
त्वम्
39
▾
Meaning
Keep
नैतन्मनस्तव
कथासु
विकुण्ठनाथ
सम्प्रीयते
दुरितदुष्टमसाधु
तीव्रम्
।
कामातुरं
हर्षशोकभयैषणार्तं
तस्मिन्
कथं
तव
गतिं
विमृशामि
दीनः
40
▾
Meaning
Keep
जिह्वैकतोऽच्युत
विकर्षति
मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं
श्रवणं
कुतश्चित्
।
घ्राणोऽन्यतश्चपलदृक्
क्व
च
कर्मशक्ति-
र्बह्व्यः
सपत्न्य
इव
गेहपतिं
लुनन्ति
41
▾
Meaning
Keep
एवं
स्वकर्मपतितं
भववैतरण्यामन्योन्यजन्ममरणाशनभीतभीतम्
।
पश्यञ्जनं
स्वपरविग्रहवैरमैत्रं
हन्तेति
पारचर
पीपृहि
मूढमद्य
42
▾
Meaning
Keep
को
न्वत्र
तेऽखिलगुरो
भगवन्
प्रयास
उत्तारणेऽस्य
भवसम्भवलोपहेतोः
।
मूढेषु
वै
महदनुग्रह
आर्तबन्धो
किं
तेन
ते
प्रियजनाननुसेवतां
नः
43
▾
Meaning
Keep
नैवोद्विजे
पर
दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्तः
।
शोचे
ततो
विमुखचेतस
इन्द्रियार्थ-
मायासुखाय
भरमुद्वहतो
विमूढान्
44
▾
Meaning
Keep
प्रायेण
देव
मुनयः
स्वविमुक्तिकामा
मौनं
चरन्ति
विजने
न
परार्थनिष्ठाः
।
नैतान्विहाय
कृपणान्विमुमुक्ष
एको
नान्यं
त्वदस्य
शरणं
भ्रमतोऽनुपश्ये
45
▾
Meaning
Keep
यन्मैथुनादिगृहमेधिसुखं
हि
तुच्छं
कण्डूयनेन
करयोरिव
दुःखदुःखम्
।
तृप्यन्ति
नेह
कृपणा
बहुदुःखभाजः
कण्डूतिवन्मनसिजं
विषहेत
धीरः
46
▾
Meaning
Keep
मौनव्रतश्रुततपोऽध्ययनस्वधर्म-
व्याख्यारहोजपसमाधय
आपवर्ग्याः
।
प्रायः
परं
पुरुष
ते
त्वजितेन्द्रियाणां
वार्ता
भवन्त्युत
न
वात्र
तु
दाम्भिकानाम्
47
▾
Meaning
Keep
रूपे
इमे
सदसती
तव
वेदसृष्टे
बीजाङ्कुराविव
न
चान्यदरूपकस्य
।
युक्ताः
समक्षमुभयत्र
विचिन्वते
त्वां
योगेन
वह्निमिव
दारुषु
नान्यतः
स्यात्
48
▾
Meaning
Keep
त्वं
वायुरग्निरवनिर्वियदम्बुमात्राः
प्राणेन्द्रियाणि
हृदयं
चिदनुग्रहश्च
।
सर्वं
त्वमेव
सगुणो
विगुणश्च
भूमन्
नान्यत्त्वदस्त्यपि
मनोवचसा
निरुक्तम्
49
▾
Meaning
Keep
नैते
गुणा
न
गुणिनो
महदादयो
ये
सर्वे
मनः
प्रभृतयः
सहदेवमर्त्याः
।
आद्यन्तवन्त
उरुगाय
विदन्ति
हि
त्वा-
मेवं
विमृश्य
सुधियो
विरमन्ति
शब्दात्
50
▾
Meaning
Keep
तत्
तेऽर्हत्तम
नमःस्तुतिकर्मपूजाः
कर्म
स्मृतिश्चरणयोः
श्रवणं
कथायाम्
।
संसेवया
त्वयि
विनेति
षडङ्गया
किं
भक्तिं
जनः
परमहंसगतौ
लभेत
51
▾
Meaning
Keep
एतावद्वर्णितगुणो
भक्त्या
भक्तेन
निर्गुणः
।
प्रह्रादं
प्रणतं
प्रीतो
यतमन्युरभाषत
52
▾
Meaning
Keep
श्रीभगवानुवाच
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम्
53
▾
Meaning
Keep
मामप्रीणत
आयुष्मन्
दर्शनं
दुर्लभं
हि
मे
।
दृष्ट्वा
मां
न
पुनर्जन्तुरात्मानं
तप्तुमर्हति
54
▾
Meaning
Keep
प्रीणन्ति
ह्यथ
मां
धीराः
सर्वभावेन
साधवः
।
श्रेयस्कामा
महाभाग
सर्वासामाशिषां
पतिम्
55
▾
Meaning
Keep
एवं
प्रलोभ्यमानोऽपि
वरैर्लोकप्रलोभनैः
।
एकान्तित्वाद्भगवति
नैच्छत्तानसुरोत्तमः
Previous
←
The Man-Lion Comes Out Of The Pillar
Next
The Boon Prahlada Would Not Take
→