Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Bali Takes the City of the Gods
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
बलेः
पदत्रयं
भूमेः
कस्माद्धरिरयाचत
।
भूतेश्वरः
कृपणवल्लब्धार्थोऽपि
बबन्ध
तम्
2
▾
Meaning
Keep
एतद्वेदितुमिच्छामो
महत्कौतूहलं
हि
नः
।
यज्ञेश्वरस्य
पूर्णस्य
बन्धनं
चाप्यनागसः
3
▾
Meaning
Keep
पराजितश्रीरसुभिश्च
हापितो
हीन्द्रेण
राजन्
भृगुभिः
स
जीवितः
।
सर्वात्मना
तानभजद्भृगून्
बलिः
शिष्यो
महात्मार्थनिवेदनेन
4
▾
Meaning
Keep
तं
ब्राह्मणा
भृगवः
प्रीयमाणा
अयाजयन्
विश्वजिता
त्रिणाकम्
।
जिगीषमाणं
विधिनाभिषिच्य
महाभिषेकेण
महानुभावाः
5
▾
Meaning
Keep
ततो
रथः
काञ्चनपट्टनद्धो
हयाश्च
हर्यश्वतुरङ्गवर्णाः
।
ध्वजश्च
सिंहेन
विराजमानो
हुताशनादास
हविर्भिरिष्टात्
6
▾
Meaning
Keep
धनुश्च
दिव्यं
पुरटोपनद्धं
तूणावरिक्तौ
कवचं
च
दिव्यम्
।
पितामहस्तस्य
ददौ
च
माला-
मम्लानपुष्पां
जलजं
च
शुक्रः
7
▾
Meaning
Keep
एवं
स
विप्रार्जितयोधनार्थस्तैः
कल्पितस्वस्त्ययनोऽथ
विप्रान्
।
प्रदक्षिणीकृत्य
कृतप्रणामः
प्रह्रादमामन्त्र्य
नमश्चकार
8
▾
Meaning
Keep
अथारुह्य
रथं
दिव्यं
भृगुदत्तं
महारथः
।
सुस्रग्धरोऽथ
सन्नह्य
धन्वी
खड्गी
धृतेषुधिः
9
▾
Meaning
Keep
हेमाङ्गदलसद्बाहुः
स्फुरन्मकरकुण्डलः
।
रराज
रथमारूढो
धिष्ण्यस्थ
इव
हव्यवाट्
10
▾
Meaning
Keep
तुल्यैश्वर्यबलश्रीभिः
स्वयूथैर्दैत्ययूथपैः
।
पिबद्भिरिव
खं
दृग्भिर्दहद्भिः
परिधीनिव
11
▾
Meaning
Keep
वृतो
विकर्षन्
महतीमासुरीं
ध्वजिनीं
विभुः
।
ययाविन्द्रपुरीं
स्वृद्धां
कम्पयन्निव
रोदसी
12
▾
Meaning
Keep
रम्यामुपवनोद्यानैः
श्रीमद्भिर्नन्दनादिभिः
।
कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः
13
▾
Meaning
Keep
प्रवालफलपुष्पोरुभारशाखामरद्रुमैः
।
हंससारसचक्राह्वकारण्डवकुलाकुलाः
।
नलिन्यो
यत्र
क्रीडन्ति
प्रमदाः
सुरसेविताः
14
▾
Meaning
Keep
आकाशगङ्गया
देव्या
वृतां
परिखभूतया
।
प्राकारेणाग्निवर्णेन
साट्टालेनोन्नतेन
च
15
▾
Meaning
Keep
रुक्मपट्टकपाटैश्च
द्वारैः
स्फटिकगोपुरैः
।
जुष्टां
विभक्तप्रपथां
विश्वकर्मविनिर्मिताम्
16
▾
Meaning
Keep
सभाचत्वररथ्याढ्यां
विमानैर्न्यर्बुदैर्युताम्
।
शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः
17
▾
Meaning
Keep
यत्र
नित्यवयोरूपाः
श्यामा
विरजवाससः
।
भ्राजन्ते
रूपवन्नार्यो
ह्यर्चिर्भिरिव
वह्नयः
18
▾
Meaning
Keep
सुरस्त्रीकेशविभ्रष्टनवसौगन्धिकस्रजाम्
।
यत्रामोदमुपादाय
मार्ग
आवाति
मारुतः
19
▾
Meaning
Keep
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना
।
पाण्डुरेण
प्रतिच्छन्नमार्गे
यान्ति
सुरप्रियाः
20
▾
Meaning
Keep
मुक्तावितानैर्मणिहेमकेतुभि-
र्नानापताकावलभीभिरावृताम्
।
शिखण्डिपारावतभृङ्गनादितां
वैमानिकस्त्रीकलगीतमङ्गलाम्
21
▾
Meaning
Keep
मृदङ्गशङ्खानकदुन्दुभिस्वनैः
सतालवीणामुरजेष्टवेणुभिः
।
नृत्यैः
सवाद्यैरुपदेवगीतकै-
र्मनोरमां
स्वप्रभया
जितप्रभाम्
22
▾
Meaning
Keep
यां
न
व्रजन्त्यधर्मिष्ठाः
खला
भूतद्रुहः
शठाः
।
मानिनः
कामिनो
लुब्धा
एभिर्हीना
व्रजन्ति
यत्
23
▾
Meaning
Keep
तां
देवधानीं
स
वरूथिनीपति-
र्बहिः
समन्ताद्रुरुधे
पृतन्यया
।
आचार्यदत्तं
जलजं
महास्वनं
दध्मौ
प्रयुञ्जन्
भयमिन्द्रयोषिताम्
24
▾
Meaning
Keep
मघवांस्तमभिप्रेत्य
बलेः
परममुद्यमम्
।
सर्वदेवगणोपेतो
गुरुमेतदुवाच
ह
25
▾
Meaning
Keep
भगवन्नुद्यमो
भूयान्
बलेर्नः
पूर्ववैरिणः
।
अविषह्यमिमं
मन्ये
केनासीत्तेजसोर्जितः
26
▾
Meaning
Keep
नैनं
कश्चित्कुतो
वापि
प्रतिव्योढुमधीश्वरः
।
पिबन्निव
मुखेनेदं
लिहन्निव
दिशो
दश
।
दहन्निव
दिशो
दृग्भिः
संवर्ताग्निरिवोत्थितः
27
▾
Meaning
Keep
ब्रूहि
कारणमेतस्य
दुर्धर्षत्वस्य
मद्रिपोः
।
ओजः
सहो
बलं
तेजो
यत
एतत्समुद्यमः
28
▾
Meaning
Keep
जानामि
मघवञ्छत्रोरुन्नतेरस्य
कारणम्
।
शिष्यायोपभृतं
तेजो
भृगुभिर्ब्रह्मवादिभिः
29
▾
Meaning
Keep
भवद्विधो
भवान्
वापि
वर्जयित्वेश्वरं
हरिं
नास्य
शक्तः
पुरः
स्थातुं
कृतान्तस्य
यथा
जनाः
30
▾
Meaning
Keep
तस्मान्निलयमुत्सृज्य
यूयं
सर्वे
त्रिविष्टपम्
।
यात
कालं
प्रतीक्षन्तो
यतः
शत्रोर्विपर्ययः
31
▾
Meaning
Keep
एष
विप्रबलोदर्कः
सम्प्रत्यूर्जितविक्रमः
।
तेषामेवापमानेन
सानुबन्धो
विनङ्क्ष्यति
32
▾
Meaning
Keep
एवं
सुमन्त्रितार्थास्ते
गुरुणार्थानुदर्शिना
।
हित्वा
त्रिविष्टपं
जग्मुर्गीर्वाणाः
कामरूपिणः
33
▾
Meaning
Keep
देवेष्वथ
निलीनेषु
बलिर्वैरोचनः
पुरीम्
।
देवधानीमधिष्ठाय
वशं
निन्ये
जगत्त्रयम्
34
▾
Meaning
Keep
तं
विश्वजयिनं
शिष्यं
भृगवः
शिष्यवत्सलाः
।
शतेन
हयमेधानामनुव्रतमयाजयन्
35
▾
Meaning
Keep
ततस्तदनुभावेन
भुवनत्रयविश्रुताम्
।
कीर्तिं
दिक्षु
वितन्वानः
स
रेज
उडुराडिव
36
▾
Meaning
Keep
बुभुजे
च
श्रियं
स्वृद्धां
द्विजदेवोपलम्भिताम्
।
कृतकृत्यमिवात्मानं
मन्यमानो
महामनाः
Previous
←
The Work Appointed in Each Reign
Next
The Milk Vow
→