Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Dwarf Comes to Bali's Sacrifice
Śrīmad Bhāgavatam
›
Canto 8
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इत्थं
विरिञ्चस्तुतकर्मवीर्यः
प्रादुर्बभूवामृतभूरदित्याम्
।
चतुर्भुजः
शङ्खगदाब्जचक्रः
पिशङ्गवासा
नलिनायतेक्षणः
2
▾
Meaning
Keep
श्यामावदातो
झषराजकुण्डल-
त्विषोल्लसच्छ्रीवदनाम्बुजः
पुमान्
।
श्रीवत्सवक्षा
बलयाङ्गदोल्लस-
त्किरीटकाञ्चीगुणचारुनूपुरः
3
▾
Meaning
Keep
मधुव्रतव्रातविघुष्टया
स्वया
विराजितः
श्रीवनमालया
हरिः
।
प्रजापतेर्वेश्मतमः
स्वरोचिषा
विनाशयन्
कण्ठनिविष्टकौस्तुभः
4
▾
Meaning
Keep
दिशः
प्रसेदुः
सलिलाशयास्तदा
प्रजाः
प्रहृष्टा
ऋतवो
गुणान्विताः
।
द्यौरन्तरीक्षं
क्षितिरग्निजिह्वा
गावो
द्विजाः
सञ्जहृषुर्नगाश्च
5
▾
Meaning
Keep
श्रोणायां
श्रवणद्वादश्यां
मुहूर्तेऽभिजिति
प्रभुः
।
सर्वे
नक्षत्रताराद्याश्चक्रुस्तज्जन्म
दक्षिणम्
6
▾
Meaning
Keep
द्वादश्यां
सवितातिष्ठन्मध्यन्दिनगतो
नृप
।
विजया
नाम
सा
प्रोक्ता
यस्यां
जन्म
विदुर्हरेः
7
▾
Meaning
Keep
शङ्खदुन्दुभयो
नेदुर्मृदङ्गपणवानकाः
।
चित्रवादित्रतूर्याणां
निर्घोषस्तुमुलोऽभवत्
8
▾
Meaning
Keep
प्रीताश्चाप्सरसोऽनृत्यन्
गन्धर्वप्रवरा
जगुः
।
तुष्टुवुर्मुनयो
देवा
मनवः
पितरोऽग्नयः
9
▾
Meaning
Keep
सिद्धविद्याधरगणाः
सकिम्पुरुषकिन्नराः
।
चारणा
यक्षरक्षांसि
सुपर्णा
भुजगोत्तमाः
10
▾
Meaning
Keep
गायन्तोऽतिप्रशंसन्तो
नृत्यन्तो
विबुधानुगाः
।
अदित्या
आश्रमपदं
कुसुमैः
समवाकिरन्
11
▾
Meaning
Keep
दृष्ट्वादितिस्तं
निजगर्भसम्भवं
परं
पुमांसं
मुदमाप
विस्मिता
।
गृहीतदेहं
निजयोगमायया
प्रजापतिश्चाह
जयेति
विस्मितः
12
▾
Meaning
Keep
यत्तद्वपुर्भाति
विभूषणायुधै-
रव्यक्तचिद्व्यक्तमधारयद्धरिः
।
बभूव
तेनैव
स
वामनो
वटुः
सम्पश्यतोर्दिव्यगतिर्यथा
नटः
13
▾
Meaning
Keep
तं
वटुं
वामनं
दृष्ट्वा
मोदमाना
महर्षयः
।
कर्माणि
कारयामासुः
पुरस्कृत्य
प्रजापतिम्
14
▾
Meaning
Keep
तस्योपनीयमानस्य
सावित्रीं
सविताब्रवीत्
।
बृहस्पतिर्ब्रह्मसूत्रं
मेखलां
कश्यपोऽददात्
15
▾
Meaning
Keep
ददौ
कृष्णाजिनं
भूमिर्दण्डं
सोमो
वनस्पतिः
।
कौपीनाच्छादनं
माता
द्यौश्छत्रं
जगतः
पतेः
16
▾
Meaning
Keep
कमण्डलुं
वेदगर्भः
कुशान्
सप्तर्षयो
ददुः
।
अक्षमालां
महाराज
सरस्वत्यव्ययात्मनः
17
▾
Meaning
Keep
तस्मा
इत्युपनीताय
यक्षराट्
पात्रिकामदात्
।
भिक्षां
भगवती
साक्षादुमादादम्बिका
सती
18
▾
Meaning
Keep
स
ब्रह्मवर्चसेनैवं
सभां
सम्भावितो
वटुः
।
ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत
मारिषः
19
▾
Meaning
Keep
समिद्धमाहितं
वह्निं
कृत्वा
परिसमूहनम्
।
परिस्तीर्य
समभ्यर्च्य
समिद्भिरजुहोद्द्विजः
20
▾
Meaning
Keep
श्रुत्वाश्वमेधैर्यजमानमूर्जितं
बलिं
भृगूणामुपकल्पितैस्ततः
।
जगाम
तत्राखिलसारसम्भृतो
भारेण
गां
सन्नमयन्
पदे
पदे
21
▾
Meaning
Keep
तं
नर्मदायास्तट
उत्तरे
बले-
र्य
ऋत्विजस्ते
भृगुकच्छसंज्ञके
।
प्रवर्तयन्तो
भृगवः
क्रतूत्तमं
व्यचक्षतारादुदितं
यथा
रविम्
22
▾
Meaning
Keep
ते
ऋत्विजो
यजमानः
सदस्या
हतत्विषो
वामनतेजसा
नृप
।
सूर्यः
किलायात्युत
वा
विभावसुः
सनत्कुमारोऽथ
दिदृक्षया
क्रतोः
23
▾
Meaning
Keep
इत्थं
सशिष्येषु
भृगुष्वनेकधा
वितर्क्यमाणो
भगवान्
स
वामनः
।
छत्रं
सदण्डं
सजलं
कमण्डलुं
विवेश
बिभ्रद्धयमेधवाटम्
24
▾
Meaning
Keep
मौञ्ज्या
मेखलया
वीतमुपवीताजिनोत्तरम्
।
जटिलं
वामनं
विप्रं
मायामाणवकं
हरिम्
25
▾
Meaning
Keep
प्रविष्टं
वीक्ष्य
भृगवः
सशिष्यास्ते
सहाग्निभिः
।
प्रत्यगृह्णन्
समुत्थाय
सङ्क्षिप्तास्तस्य
तेजसा
26
▾
Meaning
Keep
यजमानः
प्रमुदितो
दर्शनीयं
मनोरमम्
।
रूपानुरूपावयवं
तस्मा
आसनमाहरत्
27
▾
Meaning
Keep
स्वागतेनाभिनन्द्याथ
पादौ
भगवतो
बलिः
।
अवनिज्यार्चयामास
मुक्तसङ्गमनोरमम्
28
▾
Meaning
Keep
तत्पादशौचं
जनकल्मषापहं
स
धर्मविन्मूर्ध्न्यदधात्
सुमङ्गलम्
।
यद्
देवदेवो
गिरिशश्चन्द्रमौलि-
र्दधार
मूर्ध्ना
परया
च
भक्त्या
29
▾
Meaning
Keep
स्वागतं
ते
नमस्तुभ्यं
ब्रह्मन्
किं
करवाम
ते
।
ब्रह्मर्षीणां
तपः
साक्षान्मन्ये
त्वाऽऽर्य
वपुर्धरम्
30
▾
Meaning
Keep
अद्य
नः
पितरस्तृप्ता
अद्य
नः
पावितं
कुलम्
।
अद्य
स्विष्टः
क्रतुरयं
यद्भवानागतो
गृहान्
31
▾
Meaning
Keep
अद्याग्नयो
मे
सुहुता
यथाविधि
द्विजात्मज
त्वच्चरणावनेजनैः
।
हतांहसो
वार्भिरियं
च
भूरहो
तथा
पुनीता
तनुभिः
पदैस्तव
32
▾
Meaning
Keep
यद्यद्वटो
वाञ्छसि
तत्प्रतीच्छ
मे
त्वामर्थिनं
विप्रसुतानुतर्कये
।
गां
काञ्चनं
गुणवद्धाम
मृष्टं
तथान्नपेयमुत
वा
विप्रकन्याम्
।
ग्रामान्
समृद्धांस्तुरगान्
गजान्
वा
रथांस्तथार्हत्तम
सम्प्रतीच्छ
Previous
←
Aditi Keeps the Vow, and He Comes
Next
Three Paces, Measured by My Foot
→