Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Saubhari in the Water
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विरूपः
केतुमाञ्छम्भुरम्बरीषसुतास्त्रयः
।
विरूपात्
पृषदश्वोऽभूत्तत्पुत्रस्तु
रथीतरः
2
▾
Meaning
Keep
रथीतरस्याप्रजस्य
भार्यायां
तन्तवेऽर्थितः
।
अङ्गिरा
जनयामास
ब्रह्मवर्चस्विनः
सुतान्
3
▾
Meaning
Keep
एते
क्षेत्रप्रसूता
वै
पुनस्त्वाङ्गिरसाः
स्मृताः
।
रथीतराणां
प्रवराः
क्षेत्रोपेता
द्विजातयः
4
▾
Meaning
Keep
क्षुवतस्तु
मनोर्जज्ञे
इक्ष्वाकुर्घ्राणतः
सुतः
।
तस्य
पुत्रशतज्येष्ठा
विकुक्षिनिमिदण्डकाः
5
▾
Meaning
Keep
तेषां
पुरस्तादभवन्नार्यावर्ते
नृपा
नृप
।
पञ्चविंशतिः
पश्चाच्च
त्रयो
मध्येऽपरेऽन्यतः
6
▾
Meaning
Keep
स
एकदाष्टकाश्राद्धे
इक्ष्वाकुः
सुतमादिशत्
।
मांसमानीयतां
मेध्यं
विकुक्षे
गच्छ
मा
चिरम्
7
▾
Meaning
Keep
तथेति
स
वनं
गत्वा
मृगान्
हत्वा
क्रियार्हणान्
।
श्रान्तो
बुभुक्षितो
वीरः
शशं
चाददपस्मृतिः
8
▾
Meaning
Keep
शेषं
निवेदयामास
पित्रे
तेन
च
तद्गुरुः
।
चोदितः
प्रोक्षणायाह
दुष्टमेतदकर्मकम्
9
▾
Meaning
Keep
ज्ञात्वा
पुत्रस्य
तत्कर्म
गुरुणाभिहितं
नृपः
।
देशान्निःसारयामास
सुतं
त्यक्तविधिं
रुषा
10
▾
Meaning
Keep
स
तु
विप्रेण
संवादं
ज्ञापकेन
समाचरन्
।
त्यक्त्वा
कलेवरं
योगी
स
तेनावाप
यत्परम्
11
▾
Meaning
Keep
पितर्युपरतेऽभ्येत्य
विकुक्षिः
पृथिवीमिमाम्
।
शासदीजे
हरिं
यज्ञैः
शशाद
इति
विश्रुतः
12
▾
Meaning
Keep
पुरञ्जयस्तस्य
सुत
इन्द्रवाह
इतीरितः
।
ककुत्स्थ
इति
चाप्युक्तः
शृणु
नामानि
कर्मभिः
13
▾
Meaning
Keep
कृतान्त
आसीत्समरो
देवानां
सह
दानवैः
।
पार्ष्णिग्राहो
वृतो
वीरो
देवैर्दैत्यपराजितैः
14
▾
Meaning
Keep
वचनाद्देवदेवस्य
विष्णोर्विश्वात्मनः
प्रभोः
।
वाहनत्वे
वृतस्तस्य
बभूवेन्द्रो
महावृषः
15
▾
Meaning
Keep
स
संनद्धो
धनुर्दिव्यमादाय
विशिखाञ्छितान्
।
स्तूयमानस्तमारुह्य
युयुत्सुः
ककुदि
स्थितः
16
▾
Meaning
Keep
तेजसाऽऽप्यायितो
विष्णोः
पुरुषस्य
महात्मनः
।
प्रतीच्यां
दिशि
दैत्यानां
न्यरुणत्त्रिदशैः
पुरम्
17
▾
Meaning
Keep
तैस्तस्य
चाभूत्प्रधनं
तुमुलं
लोमहर्षणम्
।
यमाय
भल्लैरनयद्दैत्यानभिययुर्मृधे
18
▾
Meaning
Keep
तस्येषुपाताभिमुखं
युगान्ताग्निमिवोल्बणम्
।
विसृज्य
दुद्रुवुर्दैत्या
हन्यमानाः
स्वमालयम्
19
▾
Meaning
Keep
जित्वा
पुरं
धनं
सर्वं
सश्रीकं
वज्रपाणये
।
प्रत्ययच्छत्स
राजर्षिरिति
नामभिराहृतः
20
▾
Meaning
Keep
पुरञ्जयस्य
पुत्रोऽभूदनेनास्तत्सुतः
पृथुः
।
विश्वगन्धिस्ततश्चन्द्रो
युवनाश्वस्तु
तत्सुतः
21
▾
Meaning
Keep
श्रावस्तस्तत्सुतो
येन
श्रावस्ती
निर्ममे
पुरी
।
बृहदश्वस्तु
शाबस्तिस्ततः
कुवलयाश्वकः
22
▾
Meaning
Keep
यः
प्रियार्थमुतङ्कस्य
धुन्धुनामासुरं
बली
।
सुतानामेकविंशत्या
सहस्रैरहनद्वृतः
23
▾
Meaning
Keep
धुन्धुमार
इति
ख्यातस्तत्सुतास्ते
च
जज्वलुः
।
धुन्धोर्मुखाग्निना
सर्वे
त्रय
एवावशेषिताः
24
▾
Meaning
Keep
दृढाश्वः
कपिलाश्वश्च
भद्राश्व
इति
भारत
।
दृढाश्वपुत्रो
हर्यश्वो
निकुम्भस्तत्सुतः
स्मृतः
25
▾
Meaning
Keep
बर्हणाश्वो
निकुम्भस्य
कृशाश्वोऽथास्य
सेनजित्
।
युवनाश्वोऽभवत्तस्य
सोऽनपत्यो
वनं
गतः
26
▾
Meaning
Keep
भार्याशतेन
निर्विण्ण
ऋषयोऽस्य
कृपालवः
।
इष्टिं
स्म
वर्तयाञ्चक्रुरैन्द्रीं
ते
सुसमाहिताः
27
▾
Meaning
Keep
राजा
तद्यज्ञसदनं
प्रविष्टो
निशि
तर्षितः
।
दृष्ट्वा
शयानान्
विप्रांस्तान्
पपौ
मन्त्रजलं
स्वयम्
28
▾
Meaning
Keep
उत्थितास्ते
निशम्याथ
व्युदकं
कलशं
प्रभो
।
पप्रच्छुः
कस्य
कर्मेदं
पीतं
पुंसवनं
जलम्
29
▾
Meaning
Keep
राज्ञा
पीतं
विदित्वावै
ईश्वरप्रहितेन
ते
।
ईश्वराय
नमश्चक्रुरहो
दैवबलं
बलम्
30
▾
Meaning
Keep
ततः
काल
उपावृत्ते
कुक्षिं
निर्भिद्य
दक्षिणम्
।
युवनाश्वस्य
तनयश्चक्रवर्ती
जजान
ह
31
▾
Meaning
Keep
कं
धास्यति
कुमारोऽयं
स्तन्यं
रोरूयते
भृशम्
।
मां
धाता
वत्स
मा
रोदीरितीन्द्रो
देशिनीमदात्
32
▾
Meaning
Keep
न
ममार
पिता
तस्य
विप्रदेवप्रसादतः
।
युवनाश्वोऽथ
तत्रैव
तपसा
सिद्धिमन्वगात्
33
▾
Meaning
Keep
त्रसद्दस्युरितीन्द्रोऽङ्ग
विदधे
नाम
यस्य
वै
।
यस्मात्त्रसन्ति
ह्युद्विग्ना
दस्यवो
रावणादयः
34
▾
Meaning
Keep
यौवनाश्वोऽथ
मान्धाता
चक्रवर्त्यवनीं
प्रभुः
।
सप्तद्वीपवतीमेकः
शशासाच्युततेजसा
35
▾
Meaning
Keep
ईजे
च
यज्ञं
क्रतुभिरात्मविद्भूरिदक्षिणैः
।
सर्वदेवमयं
देवं
सर्वात्मकमतीन्द्रियम्
36
▾
Meaning
Keep
द्रव्यं
मन्त्रो
विधिर्यज्ञो
यजमानस्तथर्त्विजः
।
धर्मो
देशश्च
कालश्च
सर्वमेतद्यदात्मकम्
37
▾
Meaning
Keep
यावत्सूर्य
उदेति
स्म
यावच्च
प्रतितिष्ठति
।
सर्वं
यौवनाश्वस्य
मान्धातुः
क्षेत्रमुच्यते
38
▾
Meaning
Keep
शशबिन्दोर्दुहितरि
बिन्दुमत्यामधान्नृपः
।
पुरुकुत्समम्बरीषं
मुचुकुन्दं
च
योगिनम्
।
तेषां
स्वसारः
पञ्चाशत्सौभरिं
वव्रिरे
पतिम्
39
▾
Meaning
Keep
यमुनान्तर्जले
मग्नस्तप्यमानः
परन्तपः
।
निर्वृतिं
मीनराजस्य
वीक्ष्य
मैथुनधर्मिणः
40
▾
Meaning
Keep
जातस्पृहो
नृपं
विप्रः
कन्यामेकामयाचत
।
सोऽप्याह
गृह्यतां
ब्रह्मन्
कामं
कन्या
स्वयंवरे
41
▾
Meaning
Keep
स
विचिन्त्याप्रियं
स्त्रीणां
जरठोऽहमसन्मतः
।
वलीपलित
एजत्क
इत्यहं
प्रत्युदाहृतः
42
▾
Meaning
Keep
साधयिष्ये
तथाऽऽत्मानं
सुरस्त्रीणामभीप्सितम्
।
किं
पुनर्मनुजेन्द्राणामिति
व्यवसितः
प्रभुः
43
▾
Meaning
Keep
मुनिः
प्रवेशितः
क्षत्त्रा
कन्यान्तःपुरमृद्धिमत्
।
वृतःस
राजकन्याभिरेकं
पञ्चाशता
वरः
44
▾
Meaning
Keep
तासां
कलिरभूद्भूयांस्तदर्थेऽपोह्य
सौहृदम्
।
ममानुरूपो
नायं
व
इति
तद्गतचेतसाम्
45
▾
Meaning
Keep
स
बह्वृचस्ताभिरपारणीय
तपःश्रियानर्घ्यपरिच्छदेषु
।
गृहेषु
नानोपवनामलाम्भः
सरस्सु
सौगन्धिककाननेषु
46
▾
Meaning
Keep
महार्हशय्यासनवस्त्रभूषण-
स्नानानुलेपाभ्यवहारमाल्यकैः
।
स्वलङ्कृतस्त्रीपुरुषेषु
नित्यदा
रेमेऽनुगायद्द्विजभृङ्गवन्दिषु
47
▾
Meaning
Keep
यद्गार्हस्थ्यं
तु
संवीक्ष्य
सप्तद्वीपवतीपतिः
।
विस्मितः
स्तम्भमजहात्सार्वभौमश्रियान्वितम्
48
▾
Meaning
Keep
एवं
गृहेष्वभिरतो
विषयान्
विविधैः
सुखैः
।
सेवमानो
न
चातुष्यदाज्यस्तोकैरिवानलः
49
▾
Meaning
Keep
स
कदाचिदुपासीन
आत्मापह्नवमात्मनः
।
ददर्श
बह्वृचाचार्यो
मीनसङ्गसमुत्थितम्
50
▾
Meaning
Keep
अहो
इमं
पश्यत
मे
विनाशं
तपस्विनः
सच्चरितव्रतस्य
।
अन्तर्जले
वारिचरप्रसङ्गा-
त्प्रच्यावितं
ब्रह्म
चिरं
धृतं
यत्
51
▾
Meaning
Keep
सङ्गं
त्यजेत
मिथुनव्रतीनां
मुमुक्षुः
सर्वात्मना
न
विसृजेद्बहिरिन्द्रियाणि
।
एकश्चरन्
रहसि
चित्तमनन्त
ईशे
युञ्जीत
तद्व्रतिषु
साधुषु
चेत्प्रसङ्गः
52
▾
Meaning
Keep
एकस्तपस्व्यहमथाम्भसि
मत्स्यसङ्गा-
त्पञ्चाशदासमुत
पञ्चसहस्रसर्गः
।
नान्तं
व्रजाम्युभयकृत्यमनोरथानां
मायागुणैर्हृतमतिर्विषयेऽर्थभावः
53
▾
Meaning
Keep
एवं
वसन्
गृहे
कालं
विरक्तो
न्यासमास्थितः
।
वनं
जगामानुययुस्तत्पत्न्यः
पतिदेवताः
54
▾
Meaning
Keep
तत्र
तप्त्वा
तपस्तीक्ष्णमात्मदर्शनमात्मवान्
।
सहैवाग्निभिरात्मानं
युयोज
परमात्मनि
55
▾
Meaning
Keep
ताः
स्वपत्युर्महाराज
निरीक्ष्याध्यात्मिकीं
गतिम्
।
अन्वीयुस्तत्प्रभावेण
अग्निं
शान्तमिवार्चिषः
Previous
←
The Disc Is Quieted
Next
Hariscandra and the Promised Son
→