Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Nimi Refuses a Body
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निमिरिक्ष्वाकुतनयो
वसिष्ठमवृतर्त्विजम्
।
आरभ्य
सत्रं
सोऽप्याह
शक्रेण
प्राग्वृतोऽस्मि
भोः
2
▾
Meaning
Keep
तं
निर्वर्त्यागमिष्यामि
तावन्मां
प्रतिपालय
।
तूष्णीमासीद्गृहपतिः
सोऽपीन्द्रस्याकरोन्मखम्
3
▾
Meaning
Keep
निमित्तश्चलमिदं
विद्वान्सत्रमारभतामात्मवान्
।
ऋत्विग्भिरपरैस्तावन्नागमद्यावता
गुरुः
4
▾
Meaning
Keep
शिष्यव्यतिक्रमं
वीक्ष्य
तं
निर्वर्त्या
गुरुः
।
अशपत्पतताद्देहो
निमेः
पण्डितमानिनः
5
▾
Meaning
Keep
निमिः
प्रतिददौ
शापं
गुरवेऽधर्मवर्तिने
।
तवापि
पतताद्देहो
लोभाद्धर्ममजानतः
6
▾
Meaning
Keep
इत्युत्ससर्ज
स्वं
देहं
निमिरध्यात्मकोविदः
।
मित्रावरुणयोर्जज्ञे
उर्वश्यां
प्रपितामहः
7
▾
Meaning
Keep
गन्धवस्तुषु
तद्देहं
निधाय
मुनिसत्तमाः
।
समाप्ते
सत्रयागेऽथ
देवानूचुः
समागतान्
8
▾
Meaning
Keep
राज्ञो
जीवतु
देहोऽयं
प्रसन्नाः
प्रभवो
यदि
।
तथेत्युक्ते
निमिः
प्राह
मा
भून्मे
देहबन्धनम्
9
▾
Meaning
Keep
यस्य
योगं
न
वाञ्छन्ति
वियोगभयकातराः
।
भजन्ति
चरणाम्भोजं
मुनयो
हरिमेधसः
10
▾
Meaning
Keep
देहं
नावरुरुत्सेऽहं
दुःखशोकभयावहम्
।
सर्वत्रास्य
यतो
मृत्युर्मत्स्यानामुदके
यथा
11
▾
Meaning
Keep
विदेह
उष्यतां
कामं
लोचनेषु
शरीरिणाम्
।
उन्मेषणनिमेषाभ्यां
लक्षितोऽध्यात्मसंस्थितः
12
▾
Meaning
Keep
अराजकभयं
नॄणां
मन्यमाना
महर्षयः
।
देहं
ममन्थुः
स्म
निमेः
कुमारः
समजायत
13
▾
Meaning
Keep
जन्मना
जनकः
सोऽभूद्वैदेहस्तु
विदेहजः
।
मिथिलो
मथनाज्जातो
मिथिला
येन
निर्मिता
14
▾
Meaning
Keep
तस्मादुदावसुस्तस्य
पुत्रोऽभून्नन्दिवर्धनः
।
ततः
सुकेतुस्तस्यापि
देवरातो
महीपते
15
▾
Meaning
Keep
तस्माद्बृहद्रथस्तस्य
महावीर्यः
सुधृत्पिता
।
सुधृतेर्धृष्टकेतुर्वै
हर्यश्वोऽथ
मरुस्ततः
16
▾
Meaning
Keep
मरोः
प्रतीपकस्तस्माज्जातः
कृतरथो
यतः
।
देवमीढस्तस्य
पुत्रो
विश्रुतोऽथ
महाधृतिः
17
▾
Meaning
Keep
कृतिरातस्ततस्तस्मान्महारोमाथ
तत्सुतः
।
स्वर्णरोमा
सुतस्तस्य
ह्रस्वरोमा
व्यजायत
18
▾
Meaning
Keep
ततः
सीरध्वजो
जज्ञे
यज्ञार्थं
कर्षतो
महीम्
।
सीता
सीराग्रतो
जाता
तस्मात्सीरध्वजः
स्मृतः
19
▾
Meaning
Keep
कुशध्वजस्तस्य
पुत्रस्ततो
धर्मध्वजो
नृपः
।
धर्मध्वजस्य
द्वौ
पुत्रौ
कृतध्वजमितध्वजौ
20
▾
Meaning
Keep
कृतध्वजात्केशिध्वजः
खाण्डिक्यस्तु
मितध्वजात्
।
कृतध्वजसुतो
राजन्नात्मविद्याविशारदः
21
▾
Meaning
Keep
खाण्डिक्यः
कर्मतत्त्वज्ञो
भीतः
केशिध्वजाद्द्रुतः
।
भानुमांस्तस्य
पुत्रोऽभूच्छतद्युम्नस्तु
तत्सुतः
22
▾
Meaning
Keep
शुचिस्तु
तनयस्तस्मात्सनद्वाजस्ततोऽभवत्
।
ऊर्जकेतुः
सनद्वाजादजोऽथ
पुरुजित्सुतः
23
▾
Meaning
Keep
अरिष्टनेमिस्तस्यापि
श्रुतायुस्तत्सुपार्श्वकः
।
ततश्चित्ररथो
यस्य
क्षेमाधिर्मिथिलाधिपः
24
▾
Meaning
Keep
तस्मात्समरथस्तस्य
सुतः
सत्यरथस्ततः
।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः
25
▾
Meaning
Keep
वस्वनन्तोऽथ
तत्पुत्रो
युयुधो
यत्सुभाषणः
।
श्रुतस्ततो
जयस्तस्माद्विजयोऽस्मादृतः
सुतः
26
▾
Meaning
Keep
शुनकस्तत्सुतो
जज्ञे
वीतहव्यो
धृतिस्ततः
।
बहुलाश्वो
धृतेस्तस्य
कृतिरस्य
महावशी
27
▾
Meaning
Keep
एते
वै
मैथिला
राजन्नात्मविद्याविशारदाः
।
योगेश्वरप्रसादेन
द्वन्द्वैर्मुक्ता
गृहेष्वपि
Previous
←
The Line of Kusa to Its End
Next
Pururava and Urvasi
→