Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Yayati Borrows His Son's Youth
Śrīmad Bhāgavatam
›
Canto 9
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यतिर्ययातिः
संयातिरायतिर्वियतिः
कृतिः
।
षडिमे
नहुषस्यासन्निन्द्रियाणीव
देहिनः
2
▾
Meaning
Keep
राज्यं
नैच्छद्यतिः
पित्रा
दत्तं
तत्परिणामवित्
।
यत्र
प्रविष्टः
पुरुष
आत्मानं
नावबुध्यते
3
▾
Meaning
Keep
पितरि
भ्रंशिते
स्थानादिन्द्राण्या
धर्षणाद्द्विजैः
।
प्रापितेऽजगरत्वं
वै
ययातिरभवन्नृपः
4
▾
Meaning
Keep
चतसृष्वादिशद्दिक्षु
भ्रातॄन्
भ्राता
यवीयसः
।
कृतदारो
जुगोपोर्वीं
काव्यस्य
वृषपर्वणः
5
▾
Meaning
Keep
ब्रह्मर्षिर्भगवान्
काव्यः
क्षत्रबन्धुश्च
नाहुषः
।
राजन्यविप्रयोः
कस्माद्विवाहः
प्रतिलोमकः
6
▾
Meaning
Keep
एकदा
दानवेन्द्रस्य
शर्मिष्ठा
नाम
कन्यका
।
सखीसहस्रसंयुक्ता
गुरुपुत्र्या
च
भामिनी
7
▾
Meaning
Keep
देवयान्या
पुरोद्याने
पुष्पितद्रुमसङ्कुले
।
व्यचरत्कलगीतालिनलिनीपुलिनेऽबला
8
▾
Meaning
Keep
ता
जलाशयमासाद्य
कन्याः
कमललोचनाः
।
तीरे
न्यस्य
दुकूलानि
विजह्रुः
सिञ्चतीर्मिथः
9
▾
Meaning
Keep
वीक्ष्य
व्रजन्तं
गिरिशं
सह
देव्या
वृषस्थितम्
।
सहसोत्तीर्य
वासांसि
पर्यधुर्व्रीडिताः
स्त्रियः
10
▾
Meaning
Keep
शर्मिष्ठाजानती
वासो
गुरुपुत्र्याः
समव्ययत्
।
स्वीयं
मत्वा
प्रकुपिता
देवयानीदमब्रवीत्
11
▾
Meaning
Keep
अहो
निरीक्ष्यतामस्या
दास्याः
कर्म
ह्यसाम्प्रतम्
।
अस्मद्धार्यं
धृतवती
शुनीव
हविरध्वरे
12
▾
Meaning
Keep
यैरिदं
तपसा
सृष्टं
मुखं
पुंसः
परस्य
ये
।
धार्यते
यैरिह
ज्योतिः
शिवः
पन्थाः
श्र्वदर्शितः
13
▾
Meaning
Keep
यान्
वन्दन्त्युपतिष्ठन्ते
लोकनाथाः
सुरेश्वराः
।
भगवानपि
विश्वात्मा
पावनः
श्रीनिकेतनः
14
▾
Meaning
Keep
वयं
तत्रापि
भृगवः
शिष्योऽस्या
नः
पितासुरः
।
अस्मद्धार्यं
धृतवती
शूद्रो
वेदमिवासती
15
▾
Meaning
Keep
एवं
क्षिपन्तीं
शर्मिष्ठा
गुरुपुत्रीमभाषत
।
रुषा
श्वसन्त्युरङ्गीव
धर्षिता
दष्टदच्छदा
16
▾
Meaning
Keep
आत्मवृत्तमविज्ञाय
कत्थसे
बहु
भिक्षुकि
।
किं
न
प्रतीक्षसेऽस्माकं
गृहान्
बलिभुजो
यथा
17
▾
Meaning
Keep
एवंविधैः
सुपरुषैः
क्षिप्त्वाऽऽचार्यसुतां
सतीम्
।
शर्मिष्ठा
प्राक्षिपत्कूपे
वासश्चादाय
मन्युना
18
▾
Meaning
Keep
तस्यां
गतायां
स्वगृहं
ययातिर्मृगयां
चरन्
।
प्राप्तो
यदृच्छया
कूपे
जलार्थी
तां
ददर्श
ह
19
▾
Meaning
Keep
दत्त्वा
स्वमुत्तरं
वासस्तस्यै
राजा
विवाससे
।
गृहीत्वा
पाणिना
पाणिमुज्जहार
दयापरः
20
▾
Meaning
Keep
तं
वीरमाहौशनसी
प्रेमनिर्भरया
गिरा
।
राजंस्त्वया
गृहीतो
मे
पाणिः
परपुरञ्जय
21
▾
Meaning
Keep
हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे ।
एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः ।
यदिदं कूपमग्नाया भवतो दर्शनं मम
22
▾
Meaning
Keep
न
ब्राह्मणो
मे
भविता
हस्तग्राहो
महाभुज
।
कचस्य
बार्हस्पत्यस्य
शापाद्यमशपं
पुरा
23
▾
Meaning
Keep
ययातिरनभिप्रेतं
दैवोपहृतमात्मनः
।
मनस्तु
तद्गतं
बुद्ध्वा
प्रतिजग्राह
तद्वचः
24
▾
Meaning
Keep
गते
राजनि
सा
वीरे
तत्र
स्म
रुदती
पितुः
।
न्यवेदयत्ततः
सर्वमुक्तं
शर्मिष्ठया
कृतम्
25
▾
Meaning
Keep
दुर्मना
भगवान्
काव्यः
पौरोहित्यं
विगर्हयन्
।
स्तुवन्
वृत्तिं
च
कापोतीं
दुहित्रा
स
ययौ
पुरात्
26
▾
Meaning
Keep
वृषपर्वा
तमाज्ञाय
प्रत्यनीकविवक्षितम्
।
गुरुं
प्रसादयन्
मूर्ध्ना
पादयोः
पतितः
पथि
27
▾
Meaning
Keep
क्षणार्धमन्युर्भगवान्
शिष्यं
व्याचष्ट
भार्गवः
।
कामोऽस्याः
क्रियतां
राजन्
नैनां
त्यक्तुमिहोत्सहे
28
▾
Meaning
Keep
तथेत्यवस्थिते
प्राह
देवयानी
मनोगतम्
।
पित्रा
दत्ता
यतो
यास्ये
सानुगा
यातु
मामनु
29
▾
Meaning
Keep
स्वानां
तत्सङ्कटं
वीक्ष्य
तदर्थस्य
च
गौरवम्
।
देवयानीं
पर्यचरत्स्त्रीसहस्रेण
दासवत्
30
▾
Meaning
Keep
नाहुषाय
सुतां
दत्त्वा
सह
शर्मिष्ठयोशना
।
तमाह
राजन्छर्मिष्ठामाधास्तल्पे
न
कर्हिचित्
31
▾
Meaning
Keep
विलोक्यौशनसीं
राजञ्छर्मिष्ठा
सुप्रजां
क्वचित्
।
तमेव
वव्रे
रहसि
सख्याः
पतिमृतौ
सती
32
▾
Meaning
Keep
राजपुत्र्यार्थितोऽपत्ये
धर्मं
चावेक्ष्य
धर्मवित्
।
स्मरञ्छुक्रवचः
काले
दिष्टमेवाभ्यपद्यत
33
▾
Meaning
Keep
यदुं
च
तुर्वसुं
चैव
देवयानी
व्यजायत
।
द्रुह्युं
चानुं
च
पूरुं
च
शर्मिष्ठा
वार्षपर्वणी
34
▾
Meaning
Keep
गर्भसम्भवमासुर्या
भर्तुर्विज्ञाय
मानिनी
।
देवयानी
पितुर्गेहं
ययौ
क्रोधविमूर्छिता
35
▾
Meaning
Keep
प्रियामनुगतः
कामी
वचोभिरुपमन्त्रयन्
।
न
प्रसादयितुं
शेके
पादसंवाहनादिभिः
36
▾
Meaning
Keep
शुक्रस्तमाह
कुपितः
स्त्रीकामानृतपूरुष
।
त्वां
जरा
विशतां
मन्द
विरूपकरणी
नृणाम्
37
▾
Meaning
Keep
अतृप्तोऽस्म्यद्य
कामानां
ब्रह्मन्दुहितरि
स्म
ते
।
व्यत्यस्यतां
यथाकामं
वयसा
योऽभिधास्यति
38
▾
Meaning
Keep
इति
लब्धव्यवस्थानः
पुत्रं
ज्येष्ठमवोचत
।
यदो
तात
प्रतीच्छेमां
जरां
देहि
निजं
वयः
39
▾
Meaning
Keep
मातामहकृतां
वत्स
न
तृप्तो
विषयेष्वहम्
।
वयसा
भवदीयेन
रंस्ये
कतिपयाः
समाः
40
▾
Meaning
Keep
नोत्सहे
जरसा
स्थातुमन्तरा
प्राप्तया
तव
।
अविदित्वा
सुखं
ग्राम्यं
वैतृष्ण्यं
नैति
पूरुषः
41
▾
Meaning
Keep
तुर्वसुश्चोदितः
पित्रा
द्रुह्युश्चानुश्च
भारत
।
प्रत्याचख्युरधर्मज्ञा
ह्यनित्ये
नित्यबुद्धयः
42
▾
Meaning
Keep
अपृच्छत्तनयं
पूरुं
वयसोनं
गुणाधिकम्
।
न
त्वमग्रजवद्वत्स
मां
प्रत्याख्यातुमर्हसि
43
▾
Meaning
Keep
को
नु
लोके
मनुष्येन्द्र
पितुरात्मकृतः
पुमान्
।
प्रतिकर्तुं
क्षमो
यस्य
प्रसादाद्विन्दते
परम्
44
▾
Meaning
Keep
उत्तमश्चिन्तितं
कुर्यात्प्रोक्तकारी
तु
मध्यमः
।
अधमोऽश्रद्धया
कुर्यादकर्तोच्चरितं
पितुः
45
▾
Meaning
Keep
इति
प्रमुदितः
पूरुः
प्रत्यगृह्णाज्जरां
पितुः
।
सोऽपि
तद्वयसा
कामान्
यथावज्जुजुषे
नृप
46
▾
Meaning
Keep
सप्तद्वीपपतिः
संयक्
पितृवत्पालयन्
प्रजाः
।
यथोपजोषं
विषयाञ्जुजुषेऽव्याहतेन्द्रियः
47
▾
Meaning
Keep
देवयान्यप्यनुदिनं
मनोवाग्देहवस्तुभिः
।
प्रेयसः
परमां
प्रीतिमुवाह
प्रेयसी
रहः
48
▾
Meaning
Keep
अयजद्यज्ञपुरुषं
क्रतुभिर्भूरिदक्षिणैः
।
सर्वदेवमयं
देवं
सर्ववेदमयं
हरिम्
49
▾
Meaning
Keep
यस्मिन्निदं
विरचितं
व्योम्नीव
जलदावलिः
।
नानेव
भाति
नाभाति
स्वप्नमायामनोरथः
50
▾
Meaning
Keep
तमेव
हृदि
विन्यस्य
वासुदेवं
गुहाशयम्
।
नारायणमणीयांसं
निराशीरयजत्प्रभुम्
51
▾
Meaning
Keep
एवं
वर्षसहस्राणि
मनःषष्ठैर्मनःसुखम्
।
विदधानोऽपि
नातृप्यत्सार्वभौमः
कदिन्द्रियैः
Previous
←
The Line of Ksatravrddha
Next
The Song of the Goat
→