Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Summer in Vrndavana, and the Killing of Pralamba
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
कृष्णः
परिवृतो
ज्ञातिभिर्मुदितात्मभिः
।
अनुगीयमानो
न्यविशद्व्रजं
गोकुलमण्डितम्
2
▾
Meaning
Keep
व्रजे
विक्रीडतोरेवं
गोपालच्छद्ममायया
।
ग्रीष्मो
नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम्
3
▾
Meaning
Keep
स
च
वृन्दावनगुणैर्वसन्त
इव
लक्षितः
।
यत्रास्ते
भगवान्
साक्षाद्रामेण
सह
केशवः
4
▾
Meaning
Keep
यत्र
निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम्
।
शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम्
5
▾
Meaning
Keep
सरित्सरःप्रस्रवणोर्मिवायुना
कह्लारकञ्जोत्पलरेणुहारिणा
।
न
विद्यते
यत्र
वनौकसां
दवो
निदाघवह्न्यर्कभवोऽतिशाद्वले
6
▾
Meaning
Keep
अगाधतोयह्रदिनी
तटोर्मिभि-
र्द्रवत्पुरीष्याः
पुलिनैः
समन्ततः
।
न
यत्र
चण्डांशुकरा
विषोल्बणा
भुवो
रसं
शाद्वलितं
च
गृह्णते
7
▾
Meaning
Keep
वनं
कुसुमितं
श्रीमन्नदच्चित्रमृगद्विजम्
।
गायन्मयूरभ्रमरं
कूजत्कोकिलसारसम्
8
▾
Meaning
Keep
क्रीडिष्यमाणस्तत्कृष्णो
भगवान्
बलसंयुतः
।
वेणुं
विरणयन्
गोपैर्गोधनैः
संवृतोऽविशत्
9
▾
Meaning
Keep
प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः
।
रामकृष्णादयो
गोपा
ननृतुर्युयुधुर्जगुः
10
▾
Meaning
Keep
कृष्णस्य
नृत्यतः
केचिज्जगुः
केचिदवादयन्
।
वेणुपाणितलैः
शृङ्गैः
प्रशशंसुरथापरे
11
▾
Meaning
Keep
गोपजातिप्रतिच्छन्ना
देवा
गोपालरूपिणौ
।
ईडिरे
कृष्णरामौ
च
नटा
इव
नटं
नृप
12
▾
Meaning
Keep
भ्रमणैर्लङ्घनैः
क्षेपैरास्फोटनविकर्षणैः
।
चिक्रीडतुर्नियुद्धेन
काकपक्षधरौ
क्वचित्
13
▾
Meaning
Keep
क्वचिन्नृत्यत्सु
चान्येषु
गायकौ
वादकौ
स्वयम्
।
शशंसतुर्महाराज
साधु
साध्विति
वादिनौ
14
▾
Meaning
Keep
क्वचित्
बिल्वैः
क्वचित्
कुम्भैः
क्व
चामलकमुष्टिभिः
।
अस्पृश्यनेत्रबन्धाद्यैः
क्वचिन्मृगखगेहया
15
▾
Meaning
Keep
क्वचिच्च
दर्दुरप्लावैर्विविधैरुपहासकैः
।
कदाचित्
स्यन्दोलिकया
कर्हिचिन्नृपचेष्टया
16
▾
Meaning
Keep
एवं
तौ
लोकसिद्धाभिः
क्रीडाभिश्चेरतुर्वने
।
नद्यद्रिद्रोणिकुञ्जेषु
काननेषु
सरस्सु
च
17
▾
Meaning
Keep
पशूंश्चारयतोर्गोपैस्तद्वने
रामकृष्णयोः
।
गोपरूपी
प्रलम्बोऽगादसुरस्तज्जिहीर्षया
18
▾
Meaning
Keep
तं
विद्वानपि
दाशार्हो
भगवान्
सर्वदर्शनः
।
अन्वमोदत
तत्सख्यं
वधं
तस्य
विचिन्तयन्
19
▾
Meaning
Keep
तत्रोपाहूय
गोपालान्
कृष्णः
प्राह
विहारवित्
।
हे
गोपा
विहरिष्यामो
द्वन्द्वीभूय
यथायथम्
20
▾
Meaning
Keep
तत्र
चक्रुः
परिवृढौ
गोपा
रामजनार्दनौ
।
कृष्णसङ्घट्टिनः
केचिदासन्
रामस्य
चापरे
21
▾
Meaning
Keep
आचेरुर्विविधाः
क्रीडा
वाह्यवाहकलक्षणाः
।
यत्रारोहन्ति
जेतारो
वहन्ति
च
पराजिताः
22
▾
Meaning
Keep
वहन्तो
वाह्यमानाश्च
चारयन्तश्च
गोधनम्
।
भाण्डीरकं
नाम
वटं
जग्मुः
कृष्णपुरोगमाः
23
▾
Meaning
Keep
रामसङ्घट्टिनो
यर्हि
श्रीदामवृषभादयः
।
क्रीडायां
जयिनस्तांस्तानूहुः
कृष्णादयो
नृप
24
▾
Meaning
Keep
उवाह
कृष्णो
भगवान्
श्रीदामानं
पराजितः
।
वृषभं
भद्रसेनस्तु
प्रलम्बो
रोहिणीसुतम्
25
▾
Meaning
Keep
अविषह्यं
मन्यमानः
कृष्णं
दानवपुङ्गवः
।
वहन्द्रुततरं
प्रागादवरोहणतः
परम्
26
▾
Meaning
Keep
तमुद्वहन्
धरणिधरेन्द्रगौरवं
महासुरो
विगतरयो
निजं
वपुः
।
स
आस्थितः
पुरटपरिच्छदो
बभौ
तडिद्द्युमानुडुपतिवाडिवाम्बुदः
27
▾
Meaning
Keep
निरीक्ष्य
तद्वपुरलमम्बरे
चर-
त्प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम्
।
ज्वलच्छिखं
कटककिरीटकुण्डल-
त्विषाद्भुतं
हलधर
ईषदत्रसत्
28
▾
Meaning
Keep
अथागतस्मृतिरभयो
रिपुं
बलो
विहायसार्थमिव
हरन्तमात्मनः
।
रुषाहनच्छिरसि
दृढेन
मुष्टिना
सुराधिपो
गिरिमिव
वज्ररंहसा
29
▾
Meaning
Keep
स
आहतः
सपदि
विशीर्णमस्तको
मुखाद्वमन्
रुधिरमपस्मृतोऽसुरः
।
महारवं
व्यसुरपतत्समीरयन्
गिरिर्यथा
मघवत
आयुधाहतः
30
▾
Meaning
Keep
दृष्ट्वा
प्रलम्बं
निहतं
बलेन
बलशालिना
।
गोपाः
सुविस्मिता
आसन्
साधु
साध्विति
वादिनः
31
▾
Meaning
Keep
आशिषोऽभिगृणन्तस्तं
प्रशशंसुस्तदर्हणम्
।
प्रेत्यागतमिवालिङ्ग्य
प्रेमविह्वलचेतसः
32
▾
Meaning
Keep
पापे
प्रलम्बे
निहते
देवाः
परमनिर्वृताः
।
अभ्यवर्षन्
बलं
माल्यैः
शशंसुः
साधु
साध्विति
Previous
←
Kaliya Sent Away, and the Forest Fire
Next
Swallowing the Forest Fire
→