Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Rains and the Autumn
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
तयोस्तदद्भुतं
कर्म
दावाग्नेर्मोक्षमात्मनः
।
गोपाः
स्त्रीभ्यः
समाचख्युः
प्रलम्बवधमेव
च
2
▾
Meaning
Keep
गोपवृद्धाश्च
गोप्यश्च
तदुपाकर्ण्य
विस्मिताः
।
मेनिरे
देवप्रवरौ
कृष्णरामौ
व्रजं
गतौ
3
▾
Meaning
Keep
ततः
प्रावर्तत
प्रावृट्
सर्वसत्त्वसमुद्भवा
।
विद्योतमानपरिधिर्विस्फूर्जितनभस्तला
4
▾
Meaning
Keep
सान्द्रनीलाम्बुदैर्व्योम
सविद्युत्स्तनयित्नुभिः
।
अस्पष्टज्योतिराच्छन्नं
ब्रह्मेव
सगुणं
बभौ
5
▾
Meaning
Keep
अष्टौ
मासान्
निपीतं
यद्भूम्याश्चोदमयं
वसु
।
स्वगोभिर्मोक्तुमारेभे
पर्जन्यः
काल
आगते
6
▾
Meaning
Keep
तडिद्वन्तो
महामेघाश्चण्डश्वसनवेपिताः
।
प्रीणनं
जीवनं
ह्यस्य
मुमुचुः
करुणा
इव
7
▾
Meaning
Keep
तपःकृशा
देवमीढा
आसीद्वर्षीयसी
मही
।
यथैव
काम्यतपसस्तनुः
सम्प्राप्य
तत्फलम्
8
▾
Meaning
Keep
निशामुखेषु
खद्योतास्तमसा
भान्ति
न
ग्रहाः
।
यथा
पापेन
पाषण्डा
न
हि
वेदाः
कलौ
युगे
9
▾
Meaning
Keep
श्रुत्वा
पर्जन्यनिनदं
मण्डुकाः
व्यसृजन्
गिरः
।
तूष्णीं
शयानाः
प्राग्यद्वद्ब्राह्मणा
नियमात्यये
10
▾
Meaning
Keep
आसन्नुत्पथवाहिन्यः
क्षुद्रनद्योऽनुशुष्यतीः
।
पुंसो
यथास्वतन्त्रस्य
देहद्रविणसम्पदः
11
▾
Meaning
Keep
हरिता
हरिभिः
शष्पैरिन्द्रगोपैश्च
लोहिता
।
उच्छिलीन्ध्रकृतच्छाया
नृणां
श्रीरिव
भूरभूत्
12
▾
Meaning
Keep
क्षेत्राणि
सस्यसम्पद्भिः
कर्षकाणां
मुदं
ददुः
।
मानिनामुपतापं
च
दैवाधीनमजानताम्
13
▾
Meaning
Keep
जलस्थलौकसः
सर्वे
नववारिनिषेवया
।
अबिभ्रद्
रुचिरं
रूपं
यथा
हरिनिषेवया
14
▾
Meaning
Keep
सरिद्भिः
सङ्गतः
सिन्धुश्चुक्षुभे
श्वसनोर्मिमान्
।
अपक्वयोगिनश्चित्तं
कामाक्तं
गुणयुग्
यथा
15
▾
Meaning
Keep
गिरयो
वर्षधाराभिर्हन्यमाना
न
विव्यथुः
।
अभिभूयमाना
व्यसनैर्यथाधोक्षजचेतसः
16
▾
Meaning
Keep
मार्गा
बभूवुः
सन्दिग्धास्तृणैश्छन्ना
ह्यसंस्कृताः
।
नाभ्यस्यमानाः
श्रुतयो
द्विजैः
कालहता
इव
17
▾
Meaning
Keep
लोकबन्धुषु
मेघेषु
विद्युतश्चलसौहृदाः
।
स्थैर्यं
न
चक्रुः
कामिन्यः
पुरुषेषु
गुणिष्विव
18
▾
Meaning
Keep
धनुर्वियति
माहेन्द्रं
निर्गुणं
च
गुणिन्यभात्
।
व्यक्ते
गुणव्यतिकरेऽगुणवान्
पुरुषो
यथा
19
▾
Meaning
Keep
न
रराजोडुपश्छन्नः
स्वज्योत्स्ना
राजितैर्घनैः
।
अहं
मत्या
भासितया
स्वभासा
पुरुषो
यथा
20
▾
Meaning
Keep
मेघागमोत्सवा
हृष्टाः
प्रत्यनन्दञ्छिखण्डिनः
।
गृहेषु
तप्ता
निर्विण्णा
यथाच्युतजनागमे
21
▾
Meaning
Keep
पीत्वापः
पादपाः
पद्भिरासन्
नानात्ममूर्तयः
।
प्राक्क्षामास्तपसा
श्रान्ता
यथा
कामानुसेवया
22
▾
Meaning
Keep
सरस्स्वशान्तरोधस्सु
न्यूषुरङ्गापि
सारसाः
।
गृहेष्वशान्तकृत्येषु
ग्राम्या
इव
दुराशयाः
23
▾
Meaning
Keep
जलौघैर्निरभिद्यन्त
सेतवो
वर्षतीश्वरे
।
पाषण्डिनामसद्वादैर्वेदमार्गाः
कलौ
यथा
24
▾
Meaning
Keep
व्यमुञ्चन्
वायुभिर्नुन्ना
भूतेभ्योऽथामृतं
घनाः
।
यथाऽऽशिषो
विश्पतयः
काले
काले
द्विजेरिताः
25
▾
Meaning
Keep
एवं
वनं
तद्वर्षिष्ठं
पक्वखर्जुरजम्बुमत्
।
गोगोपालैर्वृतो
रन्तुं
सबलः
प्राविशद्धरिः
26
▾
Meaning
Keep
धेनवो
मन्दगामिन्य
ऊधोभारेण
भूयसा
।
ययुर्भगवताऽऽहूता
द्रुतं
प्रीत्या
स्नुतस्तनीः
27
▾
Meaning
Keep
वनौकसः
प्रमुदिता
वनराजीर्मधुच्युतः
।
जलधारा
गिरेर्नादादासन्ना
ददृशे
गुहाः
28
▾
Meaning
Keep
क्वचिद्वनस्पतिक्रोडे
गुहायां
चाभिवर्षति
।
निर्विश्य
भगवान्
रेमे
कन्दमूलफलाशनः
29
▾
Meaning
Keep
दध्योदनं
समानीतं
शिलायां
सलिलान्तिके
।
सम्भोजनीयैर्बुभुजे
गोपैः
सङ्कर्षणान्वितः
30
▾
Meaning
Keep
शाद्वलोपरि
संविश्य
चर्वतो
मीलितेक्षणान्
।
तृप्तान्
वृषान्
वत्सतरान्
गाश्च
स्वोधोभरश्रमाः
31
▾
Meaning
Keep
प्रावृट्श्रियं
च
तां
वीक्ष्य
सर्वभूतमुदावहाम्
।
भगवान्
पूजयाञ्चक्रे
आत्मशक्त्युपबृंहिताम्
32
▾
Meaning
Keep
एवं
निवसतोस्तस्मिन्
रामकेशवयोर्व्रजे
।
शरत्समभवद्व्यभ्रा
स्वच्छाम्ब्वपरुषानिला
33
▾
Meaning
Keep
शरदा
नीरजोत्पत्त्या
नीराणि
प्रकृतिं
ययुः
।
भ्रष्टानामिव
चेतांसि
पुनर्योगनिषेवया
34
▾
Meaning
Keep
व्योम्नोऽब्भ्रं
भूतशाबल्यं
भुवः
पङ्कमपां
मलम्
।
शरज्जहाराश्रमिणां
कृष्णे
भक्तिर्यथाशुभम्
35
▾
Meaning
Keep
सर्वस्वं
जलदा
हित्वा
विरेजुः
शुभ्रवर्चसः
।
यथा
त्यक्तैषणाः
शान्ता
मुनयो
मुक्तकिल्बिषाः
36
▾
Meaning
Keep
गिरयो
मुमुचुस्तोयं
क्वचिन्न
मुमुचुः
शिवम्
।
यथा
ज्ञानामृतं
काले
ज्ञानिनो
ददते
न
वा
37
▾
Meaning
Keep
नैवाविदन्
क्षीयमाणं
जलं
गाधजलेचराः
।
यथाऽऽयुरन्वहं
क्षय्यं
नरा
मूढाः
कुटुम्बिनः
38
▾
Meaning
Keep
गाधवारिचरास्तापमविन्दञ्छरदर्कजम्
।
यथा
दरिद्रः
कृपणः
कुटुम्ब्यविजितेन्द्रिय
39
▾
Meaning
Keep
शनैः
शनैर्जहुः
पङ्कं
स्थलान्यामं
च
वीरुधः
।
यथाहंममतां
धीराः
शरीरादिष्वनात्मसु
40
▾
Meaning
Keep
निश्चलाम्बुरभूत्तूष्णीं
समुद्रः
शरदागमे
।
आत्मन्युपरते
सम्यङ्मुनिर्व्युपरतागमः
41
▾
Meaning
Keep
केदारेभ्यस्त्वपोऽगृह्णन्
कर्षका
दृढसेतुभिः
।
यथा
प्राणैः
स्रवज्ज्ञानं
तन्निरोधेन
योगिनः
42
▾
Meaning
Keep
शरदर्कांशुजांस्तापान्
भूतानामुडुपोऽहरत्
।
देहाभिमानजं
बोधो
मुकुन्दो
व्रजयोषिताम्
43
▾
Meaning
Keep
खमशोभत
निर्मेघं
शरद्विमलतारकम्
।
सत्त्वयुक्तं
यथा
चित्तं
शब्दब्रह्मार्थदर्शनम्
44
▾
Meaning
Keep
अखण्डमण्डलो
व्योम्नि
रराजोडुगणैः
शशी
।
यथा
यदुपतिः
कृष्णो
वृष्णिचक्रावृतो
भुवि
45
▾
Meaning
Keep
आश्लिष्य
समशीतोष्णं
प्रसूनवनमारुतम्
।
जनास्तापं
जहुर्गोप्यो
न
कृष्णहृतचेतसः
46
▾
Meaning
Keep
गावो
मृगाः
खगा
नार्यः
पुष्पिण्यः
शरदाभवन्
।
अन्वीयमानाः
स्ववृषैः
फलैरीशक्रिया
इव
47
▾
Meaning
Keep
उदहृष्यन्
वारिजानि
सूर्योत्थाने
कुमुद्विना
।
राज्ञा
तु
निर्भया
लोका
यथा
दस्यून्
विना
नृप
48
▾
Meaning
Keep
पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च
महोत्सवैः
।
बभौ
भूः
पक्वसस्याढ्या
कलाभ्यां
नितरां
हरेः
49
▾
Meaning
Keep
वणिङ्मुनिनृपस्नाता
निर्गम्यार्थान्
प्रपेदिरे
।
वर्षरुद्धा
यथा
सिद्धाः
स्वपिण्डान्
काल
आगते
Previous
←
Swallowing the Forest Fire
Next
The Song of the Flute
→