Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Leaving of Vrndavana, and Akrura in the River
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सुखोपविष्टः
पर्यङ्के
रामकृष्णोरुमानितः
।
लेभे
मनोरथान्
सर्वान्
पथि
यान्
स
चकार
ह
2
▾
Meaning
Keep
किमलभ्यं
भगवति
प्रसन्ने
श्रीनिकेतने
।
तथापि
तत्परा
राजन्न
हि
वाञ्छन्ति
किञ्चन
3
▾
Meaning
Keep
सायंतनाशनं
कृत्वा
भगवान्
देवकीसुतः
।
सुहृत्सु
वृत्तं
कंसस्य
पप्रच्छान्यच्चिकीर्षितम्
4
▾
Meaning
Keep
श्रीभगवानुवाच ।
तात सौम्यागतः कच्चित्स्वागतं भद्रमस्तु वः ।
अपि स्वज्ञातिबन्धूनामनमीवमनामयम्
5
▾
Meaning
Keep
किं
नु
नः
कुशलं
पृच्छे
एधमाने
कुलामये
।
कंसे
मातुलनाम्नाङ्ग
स्वानां
नस्तत्प्रजासु
च
6
▾
Meaning
Keep
अहो
अस्मदभूद्भूरि
पित्रोर्वृजिनमार्ययोः
।
यद्धेतोः
पुत्रमरणं
यद्धेतोर्बन्धनं
तयोः
7
▾
Meaning
Keep
दिष्ट्याद्य
दर्शनं
स्वानां
मह्यं
वः
सौम्य
काङ्क्षितम्
।
सञ्जातं
वर्ण्यतां
तात
तवागमनकारणम्
8
▾
Meaning
Keep
पृष्टो
भगवता
सर्वं
वर्णयामास
माधवः
।
वैरानुबन्धं
यदुषु
वसुदेववधोद्यमम्
9
▾
Meaning
Keep
यत्संदेशो
यदर्थं
वा
दूतः
सम्प्रेषितः
स्वयम्
।
यदुक्तं
नारदेनास्य
स्वजन्मानकदुन्दुभेः
10
▾
Meaning
Keep
श्रुत्वाक्रूरवचः
कृष्णो
बलश्च
परवीरहा
।
प्रहस्य
नन्दं
पितरं
राज्ञाऽऽदिष्टं
विजज्ञतुः
11
▾
Meaning
Keep
गोपान्
समादिशत्सोऽपि
गृह्यतां
सर्वगोरसः
।
उपायनानि
गृह्णीध्वं
युज्यन्तां
शकटानि
च
12
▾
Meaning
Keep
यास्यामः
श्वो
मधुपुरीं
दास्यामो
नृपते
रसान्
।
द्रक्ष्यामः
सुमहत्पर्व
यान्ति
जानपदाः
किल
।
एवमाघोषयत्क्षत्रा
नन्दगोपः
स्वगोकुले
13
▾
Meaning
Keep
गोप्यस्तास्तदुपश्रुत्य
बभूवुर्व्यथिता
भृशम्
।
रामकृष्णौ
पुरीं
नेतुमक्रूरं
व्रजमागतम्
14
▾
Meaning
Keep
काश्चित्तत्कृतहृत्तापश्वासम्लानमुखश्रियः
।
स्रंसद्दुकूलवलयकेशग्रन्थ्यश्च
काश्चन
15
▾
Meaning
Keep
अन्याश्च
तदनुध्याननिवृत्ताशेषवृत्तयः
।
नाभ्यजानन्निमं
लोकमात्मलोकं
गता
इव
16
▾
Meaning
Keep
स्मरन्त्यश्चापराः
शौरेरनुरागस्मितेरिताः
।
हृदिस्पृशश्चित्रपदा
गिरः
सम्मुमुहुः
स्त्रियः
17
▾
Meaning
Keep
गतिं
सुललितां
चेष्टां
स्निग्धहासावलोकनम्
।
शोकापहानि
नर्माणि
प्रोद्दामचरितानि
च
18
▾
Meaning
Keep
चिन्तयन्त्यो
मुकुन्दस्य
भीता
विरहकातराः
।
समेताः
सङ्घशः
प्रोचुरश्रुमुख्योऽच्युताशयाः
19
▾
Meaning
Keep
अहो
विधातस्तव
न
क्वचिद्दया
संयोज्य
मैत्र्या
प्रणयेन
देहिनः
।
तांश्चाकृतार्थान्
वियुनङ्क्ष्यपार्थकं
विक्रीडितं
तेऽर्भकचेष्टितं
यथा
20
▾
Meaning
Keep
यस्त्वं
प्रदर्श्यासितकुन्तलावृतं
मुकुन्दवक्त्रं
सुकपोलमुन्नसम्
।
शोकापनोदस्मितलेशसुन्दरं
करोषि
पारोक्ष्यमसाधु
ते
कृतम्
21
▾
Meaning
Keep
क्रूरस्त्वमक्रूर
समाख्यया
स्म
न-
श्चक्षुर्हि
दत्तं
हरसे
बताज्ञवत्
।
येनैकदेशेऽखिलसर्गसौष्ठवं
त्वदीयमद्राक्ष्म
वयं
मधुद्विषः
22
▾
Meaning
Keep
न
नन्दसूनुः
क्षणभङ्गसौहृदः
समीक्षते
नः
स्वकृतातुरा
बत
।
विहाय
गेहान्
स्वजनान्
सुतान्
पतीं-
स्तद्दास्यमद्धोपगता
नवप्रियः
23
▾
Meaning
Keep
सुखं
प्रभाता
रजनीयमाशिषः
सत्या
बभूवुः
पुरयोषितां
ध्रुवम्
।
याः
सम्प्रविष्टस्य
मुखं
व्रजस्पतेः
पास्यन्त्यपाङ्गोत्कलितस्मितासवम्
24
▾
Meaning
Keep
तासां
मुकुन्दो
मधुमञ्जुभाषितै-
र्गृहीतचित्तः
परवान्
मनस्व्यपि
।
कथं
पुनर्नः
प्रतियास्यतेऽबला
ग्राम्याः
सलज्जस्मितविभ्रमैर्भ्रमन्
25
▾
Meaning
Keep
अद्य
ध्रुवं
तत्र
दृशो
भविष्यते
दाशार्हभोजान्धकवृष्णिसात्वताम्
।
महोत्सवः
श्रीरमणं
गुणास्पदं
द्रक्ष्यन्ति
ये
चाध्वनि
देवकीसुतम्
26
▾
Meaning
Keep
मैतद्विधस्याकरुणस्य
नाम
भूदक्रूर
इत्येतदतीव
दारुणः
।
योऽसावनाश्वास्य
सुदुःखितं
जनं
प्रियात्प्रियं
नेष्यति
पारमध्वनः
27
▾
Meaning
Keep
अनार्द्रधीरेष
समास्थितो
रथं
तमन्वमी
च
त्वरयन्ति
दुर्मदाः
।
गोपा
अनोभिः
स्थविरैरुपेक्षितं
दैवं
च
नोऽद्य
प्रतिकूलमीहते
28
▾
Meaning
Keep
निवारयामः
समुपेत्य
माधवं
किं
नोऽकरिष्यन्
कुलवृद्धबान्धवाः
।
मुकुन्दसङ्गान्निमिषार्धदुस्त्यजा-
द्दैवेन
विध्वंसितदीनचेतसाम्
29
▾
Meaning
Keep
यस्यानुरागललितस्मितवल्गुमन्त्र-
लीलावलोकपरिरम्भणरासगोष्ठ्याम्
।
नीताः
स्म
नः
क्षणमिव
क्षणदा
विना
तं
गोप्यः
कथं
न्वतितरेम
तमो
दुरन्तम्
30
▾
Meaning
Keep
योऽह्नःक्षये
व्रजमनन्तसखः
परीतो
गोपैर्विशन्खुररजश्छुरितालकस्रक्
।
वेणुं
क्वणन्
स्मितकटाक्षनिरीक्षणेन
चित्तं
क्षिणोत्यमुमृते
नु
कथं
भवेम
31
▾
Meaning
Keep
एवं
ब्रुवाणा
विरहातुरा
भृशं
व्रजस्त्रियः
कृष्णविषक्तमानसाः
।
विसृज्य
लज्जां
रुरुदुः
स्म
सुस्वरं
गोविन्द
दामोदर
माधवेति
32
▾
Meaning
Keep
स्त्रीणामेवं
रुदन्तीनामुदिते
सवितर्यथ
।
अक्रूरश्चोदयामास
कृतमैत्रादिको
रथम्
33
▾
Meaning
Keep
गोपास्तमन्वसज्जन्त
नन्दाद्याः
शकटैस्ततः
।
आदायोपायनं
भूरि
कुम्भान्
गोरससम्भृतान्
34
▾
Meaning
Keep
गोप्यश्च
दयितं
कृष्णमनुव्रज्यानुरञ्जिताः
।
प्रत्यादेशं
भगवतः
काङ्क्षन्त्यश्चावतस्थिरे
35
▾
Meaning
Keep
तास्तथा
तप्यतीर्वीक्ष्य
स्वप्रस्थाने
यदूत्तमः
।
सान्त्वयामास
सप्रेमैरायास्य
इति
दौत्यकैः
36
▾
Meaning
Keep
यावदालक्ष्यते
केतुर्यावद्रेणू
रथस्य
च
।
अनुप्रस्थापितात्मानो
लेख्यानीवोपलक्षिताः
37
▾
Meaning
Keep
ता
निराशा
निववृतुर्गोविन्दविनिवर्तने
।
विशोका
अहनी
निन्युर्गायन्त्यः
प्रियचेष्टितम्
38
▾
Meaning
Keep
भगवानपि
सम्प्राप्तो
रामाक्रूरयुतो
नृप
।
रथेन
वायुवेगेन
कालिन्दीमघनाशिनीम्
39
▾
Meaning
Keep
तत्रोपस्पृश्य
पानीयं
पीत्वा
मृष्टं
मणिप्रभम्
।
वृक्षषण्डमुपव्रज्य
सरामो
रथमाविशत्
40
▾
Meaning
Keep
अक्रूरस्तावुपामन्त्र्य
निवेश्य
च
रथोपरि
।
कालिन्द्या
ह्रदमागत्य
स्नानं
विधिवदाचरत्
41
▾
Meaning
Keep
निमज्ज्य
तस्मिन्
सलिले
जपन्
ब्रह्म
सनातनम्
।
तावेव
ददृशेऽक्रूरो
रामकृष्णौ
समन्वितौ
42
▾
Meaning
Keep
तौ
रथस्थौ
कथमिह
सुतावानकदुन्दुभेः
।
तर्हि
स्वित्स्यन्दने
न
स्त
इत्युन्मज्ज्य
व्यचष्ट
सः
43
▾
Meaning
Keep
तत्रापि
च
यथा
पूर्वमासीनौ
पुनरेव
सः
।
न्यमज्जद्दर्शनं
यन्मे
मृषा
किं
सलिले
तयोः
44
▾
Meaning
Keep
भूयस्तत्रापि
सोऽद्राक्षीत्स्तूयमानमहीश्वरम्
।
सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः
45
▾
Meaning
Keep
सहस्रशिरसं
देव
सहस्रफणमौलिनम्
।
नीलाम्बरं
बिसश्वेतं
शृङ्गैःश्वेतमिव
स्थितम्
46
▾
Meaning
Keep
तस्योत्सङ्गे
घनश्यामं
पीतकौशेयवाससम्
।
पुरुषं
चतुर्भुजं
शान्तं
पद्मपत्रारुणेक्षणम्
47
▾
Meaning
Keep
चारुप्रसन्नवदनं
चारुहासनिरीक्षणम्
।
सुभ्रून्नसं
चारुकर्णं
सुकपोलारुणाधरम्
48
▾
Meaning
Keep
प्रलम्बपीवरभुजं
तुङ्गांसोरःस्थलश्रियम्
।
कम्बुकण्ठं
निम्ननाभिं
वलिमत्पल्लवोदरम्
49
▾
Meaning
Keep
बृहत्कटितटश्रोणिकरभोरुद्वयान्वितम्
।
चारुजानुयुगं
चारुजङ्घायुगलसंयुतम्
50
▾
Meaning
Keep
तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम्
।
नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम्
51
▾
Meaning
Keep
सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः
।
कटिसूत्रब्रह्मसूत्रहारनूपुरकुण्डलैः
52
▾
Meaning
Keep
भ्राजमानं
पद्मकरं
शङ्खचक्रगदाधरम्
।
श्रीवत्सवक्षसं
भ्राजत्कौस्तुभं
वनमालिनम्
53
▾
Meaning
Keep
सुनन्दनन्दप्रमुखैः
पार्षदैः
सनकादिभिः
।
सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च
द्विजोत्तमैः
54
▾
Meaning
Keep
प्रह्रादनारदवसुप्रमुखैर्भागवतोत्तमैः
।
स्तूयमानं
पृथग्भावैर्वचोभिरमलात्मभिः
55
▾
Meaning
Keep
श्रिया
पुष्ट्या
गिरा
कान्त्या
कीर्त्या
तुष्ट्येलयोर्जया
।
विद्ययाविद्यया
शक्त्या
मायया
च
निषेवितम्
56
▾
Meaning
Keep
विलोक्य
सुभृशं
प्रीतो
भक्त्या
परमया
युतः
।
हृष्यत्तनूरुहो
भावपरिक्लिन्नात्मलोचनः
57
▾
Meaning
Keep
गिरा
गद्गदयास्तौषीत्सत्त्वमालम्ब्य
सात्वतः
।
प्रणम्य
मूर्ध्नावहितः
कृताञ्जलिपुटः
शनैः
Previous
←
Akrura Goes to Vrndavana
Next
Akrura's Praise
→