Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Pradyumna Is Stolen and Comes Back
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
कामस्तु
वासुदेवांशो
दग्धः
प्राग्रुद्रमन्युना
।
देहोपपत्तये
भूयस्तमेव
प्रत्यपद्यत
2
▾
Meaning
Keep
स
एव
जातो
वैदर्भ्यां
कृष्णवीर्यसमुद्भवः
।
प्रद्युम्न
इति
विख्यातः
सर्वतोऽनवमः
पितुः
3
▾
Meaning
Keep
तं
शम्बरः
कामरूपी
हृत्वा
तोकमनिर्दशम्
।
स
विदित्वाऽऽत्मनः
शत्रुं
प्रास्योदन्वत्यगाद्गृहम्
4
▾
Meaning
Keep
तं
निर्जगार
बलवान्
मीनः
सोऽप्यपरैः
सह
।
वृतो
जालेन
महता
गृहीतो
मत्स्यजीविभिः
5
▾
Meaning
Keep
तं
शम्बराय
कैवर्ता
उपाजह्रुरुपायनम्
।
सूदा
महानसं
नीत्वावद्यन्
सुधितिनाद्भुतम्
6
▾
Meaning
Keep
दृष्ट्वा
तदुदरे
बालं
मायावत्यै
न्यवेदयन्
।
नारदोऽकथयत्सर्वं
तस्याः
शङ्कितचेतसः
।
बालस्य
तत्त्वमुत्पत्तिं
मत्स्योदरनिवेशनम्
7
▾
Meaning
Keep
सा
च
कामस्य
वै
पत्नी
रतिर्नाम
यशस्विनी
।
पत्युर्निर्दग्धदेहस्य
देहोत्पत्तिं
प्रतीक्षती
8
▾
Meaning
Keep
निरूपिता
शम्बरेण
सा
सूदौदनसाधने
।
कामदेवं
शिशुं
बुद्ध्वा
चक्रे
स्नेहं
तदार्भके
9
▾
Meaning
Keep
नातिदीर्घेण
कालेन
स
कार्ष्णि
रूढयौवनः
।
जनयामास
नारीणां
वीक्षन्तीनां
च
विभ्रमम्
10
▾
Meaning
Keep
सा
तं
पतिं
पद्मदलायतेक्षणं
प्रलम्बबाहुं
नरलोकसुन्दरम्
।
सव्रीडहासोत्तभितभ्रुवेक्षती
प्रीत्योपतस्थे
रतिरङ्ग
सौरतैः
11
▾
Meaning
Keep
तामाह
भगवान्
कार्ष्णिर्मातस्ते
मतिरन्यथा
।
मातृभावमतिक्रम्य
वर्तसे
कामिनी
यथा
12
▾
Meaning
Keep
भवान्
नारायणसुतः
शम्बरेण
हृतो
गृहात्
।
अहं
तेऽधिकृता
पत्नी
रतिः
कामो
भवान्
प्रभो
13
▾
Meaning
Keep
एष
त्वानिर्दशं
सिन्धावक्षिपच्छम्बरोऽसुरः
।
मत्स्योऽग्रसीत्तदुदरादिह
प्राप्तो
भवान्
प्रभो
14
▾
Meaning
Keep
तमिमं
जहि
दुर्धर्षं
दुर्जयं
शत्रुमात्मनः
।
मायाशतविदं
तं
च
मायाभिर्मोहनादिभिः
15
▾
Meaning
Keep
परिशोचति
ते
माता
कुररीव
गतप्रजा
।
पुत्रस्नेहाकुला
दीना
विवत्सा
गौरिवातुरा
16
▾
Meaning
Keep
प्रभाष्यैवं
ददौ
विद्यां
प्रद्युम्नाय
महात्मने
।
मायावती
महामायां
सर्वमायाविनाशिनीम्
17
▾
Meaning
Keep
स
च
शम्बरमभ्येत्य
संयुगाय
समाह्वयत्
।
अविषह्यैस्तमाक्षेपैः
क्षिपन्
सञ्जनयन्
कलिम्
18
▾
Meaning
Keep
सोऽधिक्षिप्तो
दुर्वाचोभिः
पादाहत
इवोरगः
।
निश्चक्राम
गदापाणिरमर्षात्ताम्रलोचनः
19
▾
Meaning
Keep
गदामाविध्य
तरसा
प्रद्युम्नाय
महात्मने
।
प्रक्षिप्य
व्यनदन्नादं
वज्रनिष्पेषनिष्ठुरम्
20
▾
Meaning
Keep
तामापतन्तीं
भगवान्
प्रद्युम्नो
गदया
गदाम्
।
अपास्य
शत्रवे
क्रुद्धः
प्राहिणोत्स्वगदां
नृप
21
▾
Meaning
Keep
स
च
मायां
समाश्रित्य
दैतेयीं
मयदर्शितम्
।
मुमुचेऽस्त्रमयं
वर्षं
कार्ष्णौ
वैहायसोऽसुरः
22
▾
Meaning
Keep
बाध्यमानोऽस्त्रवर्षेण
रौक्मिणेयो
महारथः
।
सत्त्वात्मिकां
महाविद्यां
सर्वमायोपमर्दिनीम्
23
▾
Meaning
Keep
ततो
गौह्यकगान्धर्वपैशाचोरगराक्षसीः
।
प्रायुङ्क्त
शतशो
दैत्यः
कार्ष्णिर्व्यधमयत्स
ताः
24
▾
Meaning
Keep
निशातमसिमुद्यम्य
सकिरीटं
सकुण्डलम्
।
शम्बरस्य
शिरः
कायात्ताम्रश्मश्र्वोजसाहरत्
25
▾
Meaning
Keep
आकीर्यमाणो
दिविजैः
स्तुवद्भिः
कुसुमोत्करैः
।
भार्ययाम्बरचारिण्या
पुरं
नीतो
विहायसा
26
▾
Meaning
Keep
अन्तःपुरवरं
राजन्
ललनाशतसङ्कुलम्
।
विवेश
पत्न्या
गगनाद्विद्युतेव
बलाहकः
27
▾
Meaning
Keep
तं
दृष्ट्वा
जलदश्यामं
पीतकौशेयवाससम्
।
प्रलम्बबाहुं
ताम्राक्षं
सुस्मितं
रुचिराननम्
28
▾
Meaning
Keep
स्वलङ्कृतमुखाम्भोजं
नीलवक्रालकालिभिः
।
कृष्णं
मत्वा
स्त्रियो
ह्रीता
निलिल्युस्तत्र
तत्र
ह
29
▾
Meaning
Keep
अवधार्य
शनैरीषद्वैलक्षण्येन
योषितः
।
उपजग्मुः
प्रमुदिताः
सस्त्रीरत्नं
सुविस्मिताः
30
▾
Meaning
Keep
अथ
तत्रासितापाङ्गी
वैदर्भी
वल्गुभाषिणी
।
अस्मरत्स्वसुतं
नष्टं
स्नेहस्नुतपयोधरा
31
▾
Meaning
Keep
को
न्वयं
नरवैदूर्यः
कस्य
वा
कमलेक्षणः
।
धृतः
कया
वा
जठरे
केयं
लब्धा
त्वनेन
वा
32
▾
Meaning
Keep
मम
चाप्यात्मजो
नष्टो
नीतो
यः
सूतिकागृहात्
।
एतत्तुल्यवयोरूपो
यदि
जीवति
कुत्रचित्
33
▾
Meaning
Keep
कथं
त्वनेन
सम्प्राप्तं
सारूप्यं
शार्ङ्गधन्वनः
।
आकृत्यावयवैर्गत्या
स्वरहासावलोकनैः
34
▾
Meaning
Keep
स
एव
वा
भवेन्नूनं
यो
मे
गर्भे
धृतोऽर्भकः
।
अमुष्मिन्
प्रीतिरधिका
वामः
स्फुरति
मे
भुजः
35
▾
Meaning
Keep
एवं
मीमांसमानायां
वैदर्भ्यां
देवकीसुतः
।
देवक्यानकदुन्दुभ्यामुत्तमश्लोक
आगमत्
36
▾
Meaning
Keep
विज्ञातार्थोऽपि
भगवांस्तूष्णीमास
जनार्दनः
।
नारदोऽकथयत्सर्वं
शम्बराहरणादिकम्
37
▾
Meaning
Keep
तच्छ्रुत्वा
महदाश्चर्यं
कृष्णान्तःपुरयोषितः
।
अभ्यनन्दन्
बहूनब्दान्
नष्टं
मृतमिवागतम्
38
▾
Meaning
Keep
देवकी
वसुदेवश्च
कृष्णरामौ
तथा
स्त्रियः
।
दम्पती
तौ
परिष्वज्य
रुक्मिणी
च
ययुर्मुदम्
39
▾
Meaning
Keep
नष्टं
प्रद्युम्नमायातमाकर्ण्य
द्वारकौकसः
।
अहो
मृत
इवायातो
बालो
दिष्ट्येति
हाब्रुवन्
40
▾
Meaning
Keep
यं
वै
मुहुः
पितृसरूपनिजेशभावा-
स्तन्मातरो
यदभजन्
रहरूढभावाः
।
चित्रं
न
तत्खलु
रमास्पदबिम्बबिम्बे
कामे
स्मरेऽक्षविषये
किमुतान्यनार्यः
Previous
←
Rukmi Is Beaten and Shaved
Next
The Syamantaka Jewel
→