Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Satadhanvan and the Jewel
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विज्ञातार्थोऽपि
गोविन्दो
दग्धानाकर्ण्य
पाण्डवान्
।
कुन्तीं
च
कुल्यकरणे
सह
रामो
ययौ
कुरून्
2
▾
Meaning
Keep
भीष्मं
कृपं
सविदुरं
गान्धारीं
द्रोणमेव
च
।
तुल्यदुःखौ
च
सङ्गम्य
हा
कष्टमिति
होचतुः
3
▾
Meaning
Keep
लब्ध्वैतदन्तरं
राजन्
शतधन्वानमूचतुः
।
अक्रूरकृतवर्माणौ
मणिः
कस्मान्न
गृह्यते
4
▾
Meaning
Keep
योऽस्मभ्यं
सम्प्रतिश्रुत्य
कन्यारत्नं
विगर्ह्य
नः
।
कृष्णायादान्न
सत्राजित्कस्माद्भ्रातरमन्वियात्
5
▾
Meaning
Keep
एवं
भिन्नमतिस्ताभ्यां
सत्राजितमसत्तमः
।
शयानमवधील्लोभात्स
पापः
क्षीणजीवितः
6
▾
Meaning
Keep
स्त्रीणां
विक्रोशमानानां
क्रन्दन्तीनामनाथवत्
।
हत्वा
पशून्
सौनिकवन्मणिमादाय
जग्मिवान्
7
▾
Meaning
Keep
सत्यभामा
च
पितरं
हतं
वीक्ष्य
शुचार्पिता
।
व्यलपत्तात
तातेति
हा
हतास्मीति
मुह्यती
8
▾
Meaning
Keep
तैलद्रोण्यां
मृतं
प्रास्य
जगाम
गजसाह्वयम्
।
कृष्णाय
विदितार्थाय
तप्ताऽऽचख्यौ
पितुर्वधम्
9
▾
Meaning
Keep
तदाकर्ण्येश्वरौ
राजन्ननुसृत्य
नृलोकताम्
।
अहो
नः
परमं
कष्टमित्यस्राक्षौ
विलेपतुः
10
▾
Meaning
Keep
आगत्य
भगवांस्तस्मात्सभार्यः
साग्रजः
पुरम्
।
शतधन्वानमारेभे
हन्तुं
हर्तुं
मणिं
ततः
11
▾
Meaning
Keep
सोऽपि
कृतोद्यमं
ज्ञात्वा
भीतः
प्राणपरीप्सया
।
साहाय्ये
कृतवर्माणमयाचत
स
चाब्रवीत्
12
▾
Meaning
Keep
नाहमीश्वरयोः
कुर्यां
हेलनं
रामकृष्णयोः
।
को
नु
क्षेमाय
कल्पेत
तयोर्वृजिनमाचरन्
13
▾
Meaning
Keep
कंसः
सहानुगोऽपीतो
यद्द्वेषात्त्याजितः
श्रिया
।
जरासन्धः
सप्तदश
संयुगाद्
विरथो
गतः
14
▾
Meaning
Keep
प्रत्याख्यातः
स
चाक्रूरं
पार्ष्णिग्राहमयाचत
।
सोऽप्याह
को
विरुध्येत
विद्वानीश्वरयोर्बलम्
15
▾
Meaning
Keep
य
इदं
लीलया
विश्वं
सृजत्यवति
हन्ति
च
।
चेष्टां
विश्वसृजो
यस्य
न
विदुर्मोहिताजया
16
▾
Meaning
Keep
यः
सप्तहायनः
शैलमुत्पाट्यैकेन
पाणिना
।
दधार
लीलया
बाल
उच्छिलीन्ध्रमिवार्भकः
17
▾
Meaning
Keep
नमस्तस्मै
भगवते
कृष्णायाद्भुतकर्मणे
।
अनन्तायादिभूताय
कूटस्थायात्मने
नमः
18
▾
Meaning
Keep
प्रत्याख्यातः
स
तेनापि
शतधन्वा
महामणिम्
।
तस्मिन्
न्यस्याश्वमारुह्य
शतयोजनगं
ययौ
19
▾
Meaning
Keep
गरुडध्वजमारुह्य
रथं
रामजनार्दनौ
।
अन्वयातां
महावेगैरश्वै
राजन्
गुरुद्रुहम्
20
▾
Meaning
Keep
मिथिलायामुपवने
विसृज्य
पतितं
हयम्
।
पद्भ्यामधावत्
संत्रस्तः
कृष्णोऽप्यन्वद्रवद्
रुषा
21
▾
Meaning
Keep
पदातेर्भगवांस्तस्य
पदातिस्तिग्मनेमिना
।
चक्रेण
शिर
उत्कृत्य
वाससोर्व्यचिनोन्मणिम्
22
▾
Meaning
Keep
अलब्धमणिरागत्य
कृष्ण
आहाग्रजान्तिकम्
।
वृथा
हतः
शतधनुर्मणिस्तत्र
न
विद्यते
23
▾
Meaning
Keep
तत
आह
बलो
नूनं
स
मणिः
शतधन्वना
।
कस्मिंश्चित्पुरुषे
न्यस्तस्तमन्वेष
पुरं
व्रज
24
▾
Meaning
Keep
अहं
वैदेहमिच्छामि
द्रष्टुं
प्रियतमं
मम
।
इत्युक्त्वा
मिथिलां
राजन्
विवेश
यदुनन्दनः
25
▾
Meaning
Keep
तं
दृष्ट्वा
सहसोत्थाय
मैथिलः
प्रीतमानसः
।
अर्हयामास
विधिवदर्हणीयं
समर्हणैः
26
▾
Meaning
Keep
उवास
तस्यां
कतिचिन्मिथिलायां
समा
विभुः
।
मानितः
प्रीतियुक्तेन
जनकेन
महात्मना
।
ततोऽशिक्षद्गदां
काले
धार्तराष्ट्रः
सुयोधनः
27
▾
Meaning
Keep
केशवो
द्वारकामेत्य
निधनं
शतधन्वनः
।
अप्राप्तिं
च
मणेः
प्राह
प्रियायाः
प्रियकृद्विभुः
28
▾
Meaning
Keep
ततः
स
कारयामास
क्रिया
बन्धोर्हतस्य
वै
।
साकं
सुहृद्भिर्भगवान्
या
याः
स्युः
साम्परायिकीः
29
▾
Meaning
Keep
अक्रूरः
कृतवर्मा
च
श्रुत्वा
शतधनोर्वधम्
।
व्यूषतुर्भयवित्रस्तौ
द्वारकायाः
प्रयोजकौ
30
▾
Meaning
Keep
अक्रूरे
प्रोषितेऽरिष्टान्यासन्
वै
द्वारकौकसाम्
।
शारीरा
मानसास्तापा
मुहुर्दैविकभौतिकाः
31
▾
Meaning
Keep
इत्यङ्गोपदिशन्त्येके
विस्मृत्य
प्रागुदाहृतम्
।
मुनिवासनिवासे
किं
घटेतारिष्टदर्शनम्
32
▾
Meaning
Keep
देवेऽवर्षति
काशीशः
श्वफल्कायागताय
वै
।
स्वसुतां
गान्दिनीं
प्रादात्ततोऽवर्षत्स्म
काशिषु
33
▾
Meaning
Keep
तत्सुतस्तत्प्रभावोऽसावक्रूरो
यत्र
यत्र
ह
।
देवोऽभिवर्षते
तत्र
नोपतापा
न
मारीकाः
34
▾
Meaning
Keep
इति
वृद्धवचः
श्रुत्वा
नैतावदिह
कारणम्
।
इति
मत्वा
समानाय्य
प्राहाक्रूरं
जनार्दनः
35
▾
Meaning
Keep
पूजयित्वाभिभाष्यैनं
कथयित्वा
प्रियाः
कथाः
।
विज्ञाताखिलचित्तज्ञः
स्मयमान
उवाच
ह
36
▾
Meaning
Keep
ननु
दानपते
न्यस्तस्त्वय्यास्ते
शतधन्वना
।
स्यमन्तको
मणिः
श्रीमान्
विदितः
पूर्वमेव
नः
37
▾
Meaning
Keep
सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः
सुताः
।
दायं
निनीयापः
पिण्डान्
विमुच्यर्णं
च
शेषितम्
38
▾
Meaning
Keep
तथापि
दुर्धरस्त्वन्यैस्त्वय्यास्तां
सुव्रते
मणिः
।
किन्तु
मामग्रजः
सम्यङ्न
प्रत्येति
मणिं
प्रति
39
▾
Meaning
Keep
दर्शयस्व
महाभाग
बन्धूनां
शान्तिमावह
।
अव्युच्छिन्ना
मखास्तेऽद्य
वर्तन्ते
रुक्मवेदयः
40
▾
Meaning
Keep
एवं
सामभिरालब्धः
श्वफल्कतनयो
मणिम्
।
आदाय
वाससाच्छन्नः
ददौ
सूर्यसमप्रभम्
41
▾
Meaning
Keep
स्यमन्तकं
दर्शयित्वा
ज्ञातिभ्यो
रज
आत्मनः
।
विमृज्य
मणिना
भूयस्तस्मै
प्रत्यर्पयत्प्रभुः
42
▾
Meaning
Keep
यस्त्वेतद्भगवत
ईश्वरस्य
विष्णो-
र्वीर्याढ्यं
वृजिनहरं
सुमङ्गलं
च
।
आख्यानं
पठति
शृणोत्यनुस्मरेद्वा
दुष्कीर्तिं
दुरितमपोह्य
याति
शान्तिम्
Previous
←
The Syamantaka Jewel
Next
The Wives Krsna Won
→