Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Killing of Naraka
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यथा
हतो
भगवता
भौमो
येने
च
ताः
स्त्रियः
।
निरुद्धा
एतदाचक्ष्व
विक्रमं
शार्ङ्गधन्वनः
2
▾
Meaning
Keep
इन्द्रेण
हृतच्छत्रेण
हृतकुण्डलबन्धुना
।
हृतामराद्रिस्थानेन
ज्ञापितो
भौमचेष्टितम्
।
सभार्यो
गरुडारूढः
प्राग्ज्योतिषपुरं
ययौ
3
▾
Meaning
Keep
गिरिदुर्गैः
शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम्
।
मुरपाशायुतैर्घोरैर्दृढैः
सर्वत
आवृतम्
4
▾
Meaning
Keep
गदया
निर्बिभेदाद्रीन्
शस्त्रदुर्गाणि
सायकैः
।
चक्रेणाग्निं
जलं
वायुं
मुरपाशांस्तथासिना
5
▾
Meaning
Keep
शङ्खनादेन
यन्त्राणि
हृदयानि
मनस्विनाम्
।
प्राकारं
गदया
गुर्व्या
निर्बिभेद
गदाधरः
6
▾
Meaning
Keep
पाञ्चजन्यध्वनिं
श्रुत्वा
युगान्तशनिभीषणम्
।
मुरः
शयान
उत्तस्थौ
दैत्यः
पञ्चशिरा
जलात्
7
▾
Meaning
Keep
त्रिशूलमुद्यम्य
सुदुर्निरीक्षणो
युगान्तसूर्यानलरोचिरुल्बणः
।
ग्रसंस्त्रिलोकीमिव
पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्यसुतं
यथोरगः
8
▾
Meaning
Keep
आविध्य
शूलं
तरसा
गरुत्मते
निरस्य
वक्त्रैर्व्यनदत्
स
पञ्चभिः
।
स
रोदसी
सर्वदिशोऽन्तरं
महानापूरयन्नण्डकटाहमावृणोत्
9
▾
Meaning
Keep
तदापतद्
वै
त्रिशिखं
गरुत्मते
हरिः
शराभ्यामभिनत्त्रिधोजसा
।
मुखेषु
तं
चापि
शरैरताडयत्
तस्मै
गदां
सोऽपि
रुषा
व्यमुञ्चत
10
▾
Meaning
Keep
तामापतन्तीं
गदया
गदां
मृधे
गदाग्रजो
निर्बिभिदे
सहस्रधा
।
उद्यम्य
बाहूनभिधावतोऽजितः
शिरांसि
चक्रेण
जहार
लीलया
11
▾
Meaning
Keep
व्यसुः
पपाताम्भसि
कृत्तशीर्षो
निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा
।
तस्यात्मजाः
सप्त
पितुर्वधातुराः
प्रतिक्रियामर्षजुषः
समुद्यताः
12
▾
Meaning
Keep
ताम्रोऽन्तरिक्षः
श्रवणो
विभावसु-
र्वसुर्नभस्वानरुणश्च
सप्तमः
।
पीठं
पुरस्कृत्य
चमूपतिं
मृधे
भौमप्रयुक्ता
निरगन्
धृतायुधाः
13
▾
Meaning
Keep
प्रायुञ्जतासाद्य
शरानसीन्
गदाः
शक्त्यृष्टिशूलान्यजिते
रुषोल्बणाः
।
तच्छस्त्रकूटं
भगवान्
स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त
ह
14
▾
Meaning
Keep
तान्
पीठमुख्याननयद्यमक्षयं
निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः
।
स्वानीकपानच्युतचक्रसायकै-
स्तथा
निरस्तान्
नरको
धरासुतः
15
▾
Meaning
Keep
निरीक्ष्य
दुर्मर्षण
आस्रवन्मदै-
र्गजैः
पयोधिप्रभवैर्निराक्रमत्
।
दृष्ट्वा
सभार्यं
गरुडोपरि
स्थितं
सूर्योपरिष्टात्सतडिद्घनं
यथा
।
कृष्णं
स
तस्मै
व्यसृजच्छतघ्नीं
योधाश्च
सर्वे
युगपत्स्म
विव्यधुः
16
▾
Meaning
Keep
तद्भौमसैन्यं
भगवान्
गदाग्रजो
विचित्रवाजैर्निशितैः
शिलीमुखैः
।
निकृत्तबाहूरुशिरोध्रविग्रहं
चकार
तर्ह्येव
हताश्वकुञ्जरम्
17
▾
Meaning
Keep
यानि
योधैः
प्रयुक्तानि
शस्त्रास्त्राणि
कुरूद्वह
।
हरिस्तान्यच्छिनत्
तीक्ष्णैः
शरैरेकैक
शस्त्रीभिः
18
▾
Meaning
Keep
उह्यमानः
सुपर्णेन
पक्षाभ्यां
निघ्नता
गजान्
।
गुरुत्मता
हन्यमानास्तुण्डपक्षनखेर्गजाः
19
▾
Meaning
Keep
पुरमेवाविशन्नार्ता
नरको
युध्ययुध्यत
।
दृष्ट्वा
विद्रावितं
सैन्यं
गरुडेनार्दितं
स्वकम्
20
▾
Meaning
Keep
तं
भौमः
प्राहरच्छक्त्या
वज्रः
प्रतिहतो
यतः
।
नाकम्पत
तया
विद्धो
मालाहत
इव
द्विपः
21
▾
Meaning
Keep
शूलं
भौमोऽच्युतं
हन्तुमाददे
वितथोद्यमः
।
तद्विसर्गात्पूर्वमेव
नरकस्य
शिरो
हरिः
।
अपाहरद्गजस्थस्य
चक्रेण
क्षुरनेमिना
22
▾
Meaning
Keep
सकुण्डलं
चारुकिरीटभूषणं
बभौ
पृथिव्यां
पतितं
समुज्ज्वलम्
।
हा
हेति
साध्वित्यृषयः
सुरेश्वरा
माल्यैर्मुकुन्दं
विकिरन्त
ईडिरे
23
▾
Meaning
Keep
ततश्च
भूः
कृष्णमुपेत्य
कुण्डले
प्रतप्तजाम्बूनदरत्नभास्वरे
।
सवैजयन्त्या
वनमालयार्पय-
त्प्राचेतसं
छत्रमथो
महामणिम्
Hymn
24
▾
Meaning
Keep
अस्तौषीदथ
विश्वेशं
देवी
देववरार्चितम्
।
प्राञ्जलिः
प्रणता
राजन्
भक्तिप्रवणया
धिया
25
▾
Meaning
Keep
नमस्ते
देवदेवेश
शङ्खचक्रगदाधर
।
भक्तेच्छोपात्तरूपाय
परमात्मन्
नमोऽस्तु
ते
26
▾
Meaning
Keep
नमः
पङ्कजनाभाय
नमः
पङ्कजमालिने
।
नमः
पङ्कजनेत्राय
नमस्ते
पङ्कजाङ्घ्रये
27
▾
Meaning
Keep
नमो
भगवते
तुभ्यं
वासुदेवाय
विष्णवे
।
पुरुषायादिबीजाय
पूर्णबोधाय
ते
नमः
28
▾
Meaning
Keep
अजाय
जनयित्रेऽस्य
ब्रह्मणेऽनन्तशक्तये
।
परावरात्मन्
भूतात्मन्
परमात्मन्
नमोऽस्तु
ते
29
▾
Meaning
Keep
त्वं
वै
सिसृक्षुरज
उत्कटं
प्रभो
तमो
निरोधाय
बिभर्ष्यसंवृतः
।
स्थानाय
सत्त्वं
जगतो
जगत्पते
कालः
प्रधानं
पुरुषो
भवान्
परः
30
▾
Meaning
Keep
अहं
पयो
ज्योतिरथानिलो
नभो
मात्राणि
देवा
मन
इन्द्रियाणि
।
कर्ता
महानित्यखिलं
चराचरं
त्वय्यद्वितीये
भगवनयं
भ्रमः
31
▾
Meaning
Keep
तस्यात्मजोऽयं
तव
पादपङ्कजं
भीतः
प्रपन्नार्तिहरोपसादितः
।
तत्पालयैनं
कुरु
हस्तपङ्कजं
शिरस्यमुष्याखिलकल्मषापहम्
32
▾
Meaning
Keep
इति
भूम्यार्थितो
वाग्भिर्भगवान्
भक्तिनम्रया
।
दत्त्वाभयं
भौमगृहं
प्राविशत्सकलर्द्धिमत्
33
▾
Meaning
Keep
तत्र
राजन्यकन्यानां
षट्सहस्राधिकायुतम्
।
भौमाहृतानां
विक्रम्य
राजभ्यो
ददृशे
हरिः
34
▾
Meaning
Keep
तं
प्रविष्टं
स्त्रियो
वीक्ष्य
नरवीरं
विमोहिताः
।
मनसा
वव्रिरेऽभीष्टं
पतिं
दैवोपसादितम्
35
▾
Meaning
Keep
भूयात्पतिरयं
मह्यं
धाता
तदनुमोदताम्
।
इति
सर्वाः
पृथक्कृष्णे
भावेन
हृदयं
दधुः
36
▾
Meaning
Keep
ताः
प्राहिणोद्द्वारवतीं
सुमृष्टविरजोऽम्बराः
।
नरयानैर्महाकोशान्
रथाश्वान्
द्रविणं
महत्
37
▾
Meaning
Keep
ऐरावतकुलेभांश्च
चतुर्दन्तांस्तरस्विनः
।
पाण्डुरांश्च
चतुःषष्टिं
प्रेरयामास
केशवः
38
▾
Meaning
Keep
गत्वा
सुरेन्द्रभवनं
दत्त्वादित्यै
च
कुण्डले
।
पूजितस्त्रिदशेन्द्रेण
सहेन्द्र्याण्या
च
स
प्रियः
39
▾
Meaning
Keep
चोदितो
भार्ययोत्पाट्य
पारिजातं
गरुत्मति
।
आरोप्य
सेन्द्रान्
विबुधान्
निर्जित्योपानयत्
पुरम्
40
▾
Meaning
Keep
स्थापितः
सत्यभामाया
गृहोद्यानोपशोभनः
।
अन्वगुर्भ्रमराः
स्वर्गात्तद्गन्धासवलम्पटाः
41
▾
Meaning
Keep
ययाच
आनम्य
किरीटकोटिभिः
पादौ
स्पृशन्नच्युतमर्थसाधनम्
।
सिद्धार्थ
एतेन
विगृह्यते
महा-
नहो
सुराणां
च
तमो
धिगाढ्यताम्
42
▾
Meaning
Keep
अथो
मुहूर्त
एकस्मिन्
नानागारेषु
ताः
स्त्रियः
।
यथोपयेमे
भगवांस्तावद्रूपधरोऽव्ययः
43
▾
Meaning
Keep
गृहेषु
तासामनपाय्यतर्ककृ-
न्निरस्तसाम्यातिशयेष्ववस्थितः
।
रेमे
रमाभिर्निजकामसम्प्लुतो
यथेतरो
गार्हकमेधिकांश्चरन्
44
▾
Meaning
Keep
इत्थं
रमापतिमवाप्य
पतिं
स्त्रियस्ता
ब्रह्मादयोऽपि
न
विदुः
पदवीं
यदीयाम्
।
भेजुर्मुदाविरतमेधितयानुराग-
हासावलोकनवसङ्गमजल्पलज्जाः
45
▾
Meaning
Keep
प्रत्युद्गमासनवरार्हणपादशौच-
ताम्बूलविश्रमणवीजनगन्धमाल्यैः
।
केशप्रसारशयनस्नपनोपहार्यै-
र्दासीशता
अपि
विभोर्विदधुः
स्म
दास्यम्
Previous
←
The Wives Krsna Won
Next
Krsna Teases Rukmini
→