Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Balarama Goes Round the Fords
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ततः
पर्वण्युपावृत्ते
प्रचण्डः
पांशुवर्षणः
।
भीमो
वायुरभूद्
राजन्पूयगन्धस्तु
सर्वशः
2
▾
Meaning
Keep
ततोऽमेध्यमयं
वर्षं
बल्वलेन
विनिर्मितम्
।
अभवद्यज्ञशालायां
सोऽन्वदृश्यत
शूलधृक्
3
▾
Meaning
Keep
तं
विलोक्य
बृहत्कायं
भिन्नाञ्जनचयोपमम्
।
तप्तताम्रशिखाश्मश्रुं
दंष्ट्रोग्रभ्रुकुटीमुखम्
4
▾
Meaning
Keep
सस्मार
मूषलं
रामः
परसैन्यविदारणम्
।
हलं
च
दैत्यदमनं
ते
तूर्णमुपतस्थतुः
5
▾
Meaning
Keep
तमाकृष्य
हलाग्रेण
बल्वलं
गगनेचरम्
।
मूषलेनाहनत्क्रुद्धो
मूर्ध्नि
ब्रह्मद्रुहं
बलः
6
▾
Meaning
Keep
सोऽपतद्भुवि
निर्भिन्नललाटोऽसृक्समुत्सृजन्
।
मुञ्चन्नार्तस्वरं
शैलो
यथा
वज्रहतोऽरुणः
7
▾
Meaning
Keep
संस्तुत्य
मुनयो
रामं
प्रयुज्यावितथाशिषः
।
अभ्यषिञ्चन्महाभागा
वृत्रघ्नं
विबुधा
यथा
8
▾
Meaning
Keep
वैजयन्तीं
ददुर्मालां
श्रीधामाम्लानपङ्कजाम्
।
रामाय
वाससी
दिव्ये
दिव्यान्याभरणानि
च
9
▾
Meaning
Keep
अथ
तैरभ्यनुज्ञातः
कौशिकीमेत्य
ब्राह्मणैः
।
स्नात्वा
सरोवरमगाद्
यतः
सरयूरास्रवत्
10
▾
Meaning
Keep
अनुस्रोतेन
सरयूं
प्रयागमुपगम्य
सः
।
स्नात्वा
सन्तर्प्य
देवादीन्
जगाम
पुलहाश्रमम्
11
▾
Meaning
Keep
गोमतीं
गण्डकीं
स्नात्वा
विपाशां
शोण
आप्लुतः
।
गयां
गत्वा
पितॄनिष्ट्वा
गङ्गासागरसङ्गमे
12
▾
Meaning
Keep
उपस्पृश्य
महेन्द्राद्रौ
रामं
दृष्ट्वाभिवाद्य
च
।
सप्तगोदावरीं
वेणां
पम्पां
भीमरथीं
ततः
13
▾
Meaning
Keep
स्कन्दं
दृष्ट्वा
ययौ
रामः
श्रीशैलं
गिरिशालयम्
।
द्रविडेषु
महापुण्यं
दृष्ट्वाद्रिं
वेङ्कटं
प्रभुः
14
▾
Meaning
Keep
कामकोष्णीं
पुरीं
काञ्चीं
कावेरीं
च
सरिद्वराम्
।
श्रीरङगाख्यं
महापुण्यं
यत्र
सन्निहितो
हरिः
15
▾
Meaning
Keep
ऋषभाद्रिं
हरेः
क्षेत्रं
दक्षिणां
मथुरां
तथा
।
सामुद्रं
सेतुमगमत्महापातकनाशनम्
16
▾
Meaning
Keep
तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो
हलायुधः
।
कृतमालां
ताम्रपर्णीं
मलयं
च
कुलाचलम्
17
▾
Meaning
Keep
तत्रागस्त्यं
समासीनं
नमस्कृत्याभिवाद्य
च
।
योजितस्तेन
चाशीर्भिरनुज्ञातो
गतोऽर्णवम्
।
दक्षिणं
तत्र
कन्याख्यां
दुर्गां
देवीं
ददर्श
सः
18
▾
Meaning
Keep
ततः
फाल्गुनमासाद्य
पञ्चाप्सरसमुत्तमम्
।
विष्णुः
सन्निहितो
यत्र
स्नात्वास्पर्शद्गवायुतम्
19
▾
Meaning
Keep
ततोऽभिव्रज्य
भगवान्
केरलांस्तु
त्रिगर्तकान्
।
गोकर्णाख्यं
शिवक्षेत्रं
सान्निध्यं
यत्र
धूर्जटेः
20
▾
Meaning
Keep
आर्यां
द्वैपायनीं
दृष्ट्वा
शूर्पारकमगाद्बलः
।
तापीं
पयोष्णीं
निर्विन्ध्यामुपस्पृश्याथ
दण्डकम्
21
▾
Meaning
Keep
प्रविश्य
रेवामगमद्यत्र
माहिष्मती
पुरी
।
मनुतीर्थमुपस्पृश्य
प्रभासं
पुनरागमत्
22
▾
Meaning
Keep
श्रुत्वा
द्विजैः
कथ्यमानं
कुरुपाण्डवसंयुगे
।
सर्वराजन्यनिधनं
भारं
मेने
हृतं
भुवः
23
▾
Meaning
Keep
स
भीमदुर्योधनयोर्गदाभ्यां
युध्यतोर्मृधे
।
वारयिष्यन्
विनशनं
जगाम
यदुनन्दनः
24
▾
Meaning
Keep
युधिष्ठिरस्तु
तं
दृष्ट्वा
यमौ
कृष्णार्जुनावपि
।
अभिवाद्याभवंस्तूष्णीं
किं
विवक्षुरिहागतः
25
▾
Meaning
Keep
गदापाणी
उभौ
दृष्ट्वा
संरब्धौ
विजयैषिणौ
।
मण्डलानि
विचित्राणि
चरन्ताविदमब्रवीत्
26
▾
Meaning
Keep
युवां
तुल्यबलौ
वीरौ
हे
राजन्
हे
वृकोदर
।
एकं
प्राणाधिकं
मन्ये
उतैकं
शिक्षयाधिकम्
27
▾
Meaning
Keep
तस्मादेकतरस्येह
युवयोः
समवीर्ययोः
।
न
लक्ष्यते
जयोऽन्यो
वा
विरमत्वफलो
रणः
28
▾
Meaning
Keep
न
तद्वाक्यं
जगृहतुर्बद्धवैरौ
नृपार्थवत्
।
अनुस्मरन्तावन्योन्यं
दुरुक्तं
दुष्कृतानि
च
29
▾
Meaning
Keep
दिष्टं
तदनुमन्वानो
रामो
द्वारवतीं
ययौ
।
उग्रसेनादिभिः
प्रीतैर्ज्ञातिभिः
समुपागतः
30
▾
Meaning
Keep
तं
पुनर्नैमिषं
प्राप्तमृषयोऽयाजयन्
मुदा
।
क्रत्वङ्गं
क्रतुभिः
सर्वैर्निवृत्ताखिलविग्रहम्
31
▾
Meaning
Keep
तेभ्यो
विशुद्धं
विज्ञानं
भगवान्
व्यतरद्विभुः
।
येनैवात्मन्यदो
विश्वमात्मानं
विश्वगं
विदुः
32
▾
Meaning
Keep
स्वपत्यावभृथस्नातो
ज्ञातिबन्धुसुहृद्
वृतः
।
रेजे
स्वज्योत्स्नयेवेन्दुः
सुवासाः
सुष्ठ्वलङ्कृतः
33
▾
Meaning
Keep
ईदृग्विधान्यसंख्यानि
बलस्य
बलशालिनः
।
अनन्तस्याप्रमेयस्य
मायामर्त्यस्य
सन्ति
हि
34
▾
Meaning
Keep
योऽनुस्मरेत
रामस्य
कर्माण्यद्भुतकर्मणः
।
सायं
प्रातरनन्तस्य
विष्णोः
स
दयितो
भवेत्
Previous
←
Dantavakra, and the Bard at Naimisa
Next
The Poor Brahmin at the Door
→