Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Poor Brahmin at the Door
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
भगवन्
यानि
चान्यानि
मुकुन्दस्य
महात्मनः
।
वीर्याण्यनन्तवीर्यस्य
श्रोतुमिच्छामि
हे
प्रभो
2
▾
Meaning
Keep
को
नु
श्रुत्वासकृद्ब्रह्मन्नुत्तमश्लोकसत्कथाः
।
विरमेत
विशेषज्ञो
विषण्णः
काममार्गणैः
3
▾
Meaning
Keep
सा
वाग्यया
तस्य
गुणान्
गृणीते
करौ
च
तत्कर्मकरौ
मनश्च
।
स्मरेद्वसन्तं
स्थिरजङ्गमेषु
शृणोति
तत्पुण्यकथाः
स
कर्णः
4
▾
Meaning
Keep
शिरस्तु
तस्योभयलिङ्गमानमे-
त्तदेव
यत्पश्यति
तद्धि
चक्षुः
।
अङ्गानि
विष्णोरथ
तज्जनानां
पादोदकं
यानि
भजन्ति
नित्यम्
5
▾
Meaning
Keep
विष्णुरातेन
सम्पृष्टो
भगवान्
बादरायणिः
।
वासुदेवे
भगवति
निमग्नहृदयोऽब्रवीत्
6
▾
Meaning
Keep
कृष्णस्यासीत्सखा
कश्चिद्ब्राह्मणो
ब्रह्मवित्तमः
।
विरक्त
इन्द्रियार्थेषु
प्रशान्तात्मा
जितेन्द्रियः
7
▾
Meaning
Keep
यदृच्छयोपपन्नेन
वर्तमानो
गृहाश्रमी
।
तस्य
भार्या
कुचैलस्य
क्षुत्क्षामा
च
तथाविधा
8
▾
Meaning
Keep
पतिव्रता
पतिं
प्राह
म्लायता
वदनेन
सा
।
दरिद्रं
सीदमाना
सा
वेपमानाभिगम्य
च
9
▾
Meaning
Keep
ननु
ब्रह्मन्
भगवतः
सखा
साक्षाच्छ्रियः
पतिः
।
ब्रह्मण्यश्च
शरण्यश्च
भगवान्
सात्वतर्षभः
10
▾
Meaning
Keep
तमुपैहि
महाभाग
साधूनां
च
परायणम्
।
दास्यति
द्रविणं
भूरि
सीदते
ते
कुटुम्बिने
11
▾
Meaning
Keep
आस्तेऽधुना
द्वारवत्यां
भोजवृष्ण्यन्धकेश्वरः
।
स्मरतः
पादकमलमात्मानमपि
यच्छति
।
किं
न्वर्थकामान्
भजतो
नात्यभीष्टाञ्जगद्गुरुः
12
▾
Meaning
Keep
स
एवं
भार्यया
विप्रो
बहुशः
प्रार्थितो
मुहुः
।
अयं
हि
परमो
लाभ
उत्तमश्लोकदर्शनम्
13
▾
Meaning
Keep
इति
सञ्चिन्त्य
मनसा
गमनाय
मतिं
दधे
।
अप्यस्त्युपायनं
किञ्चिद्गृहे
कल्याणि
दीयताम्
14
▾
Meaning
Keep
याचित्वा
चतुरो
मुष्टीन्
विप्रान्
पृथुकतण्डुलान्
।
चैलखण्डेन
तान्
बद्ध्वा
भर्त्रे
प्रादादुपायनम्
15
▾
Meaning
Keep
स
तानादाय
विप्राग्र्यः
प्रययौ
द्वारकां
किल
।
कृष्णसन्दर्शनं
मह्यं
कथं
स्यादिति
चिन्तयन्
16
▾
Meaning
Keep
त्रीणि
गुल्मान्यतीयाय
तिस्रः
कक्षाश्च
स
द्विजः
।
विप्रोऽगम्यान्धकवृष्णीनां
गृहेष्वच्युतधर्मिणाम्
17
▾
Meaning
Keep
गृहं
द्व्यष्टसहस्राणां
महिषीणां
हरेर्द्विजः
।
विवेशैकतमं
श्रीमद्ब्रह्मानन्दं
गतो
यथा
18
▾
Meaning
Keep
तं
विलोक्याच्युतो
दूरात्प्रियापर्यङ्कमास्थितः
।
सहसोत्थाय
चाभ्येत्य
दोर्भ्यां
पर्यग्रहीन्मुदा
19
▾
Meaning
Keep
सख्युः
प्रियस्य
विप्रर्षेरङ्गसङ्गातिनिर्वृतः
।
प्रीतो
व्यमुञ्चदब्बिन्दून्
नेत्राभ्यां
पुष्करेक्षणः
20
▾
Meaning
Keep
अथोपवेश्य
पर्यङ्के
स्वयं
सख्युः
समर्हणम्
।
उपहृत्यावनिज्यास्य
पादौ
पादावनेजनीः
21
▾
Meaning
Keep
अग्रहीच्छिरसा
राजन्
भगवाँल्लोकपावनः
।
व्यलिम्पद्
दिव्यगन्धेन
चन्दनागुरुकुङ्कुमैः
22
▾
Meaning
Keep
धूपैः
सुरभिभिर्मित्रं
प्रदीपावलिभिर्मुदा
।
अर्चित्वाऽऽवेद्य
ताम्बूलं
गां
च
स्वागतमब्रवीत्
23
▾
Meaning
Keep
कुचैलं
मलिनं
क्षामं
द्विजं
धमनिसन्ततम्
।
देवी
पर्यचरत्साक्षाच्चामरव्यजनेन
वै
24
▾
Meaning
Keep
अन्तःपुरजनो
दृष्ट्वा
कृष्णेनामलकीर्तिना
।
विस्मितोऽभूदतिप्रीत्या
अवधूतं
सभाजितम्
25
▾
Meaning
Keep
किमनेन
कृतं
पुण्यमवधूतेन
भिक्षुणा
।
श्रिया
हीनेन
लोकेऽस्मिन्
गर्हितेनाधमेन
च
26
▾
Meaning
Keep
योऽसौ
त्रिलोकगुरुणा
श्रीनिवासेन
सम्भृतः
।
पर्यङ्कस्थां
श्रियं
हित्वा
परिष्वक्तोऽग्रजो
यथा
27
▾
Meaning
Keep
कथयाञ्चक्रतुर्गाथाः
पूर्वा
गुरुकुले
सतोः
।
आत्मनोर्
ललिता
राजन्
करौ
गृह्य
परस्परम्
28
▾
Meaning
Keep
श्रीभगवानुवाच ।
अपि ब्रह्मन् गुरुकुलाद्भवता लब्धदक्षिणात् ।
समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा
29
▾
Meaning
Keep
प्रायो
गृहेषु
ते
चित्तमकामविहितं
तथा
।
नैवातिप्रीयसे
विद्वन्
धनेषु
विदितं
हि
मे
30
▾
Meaning
Keep
केचित्
कुर्वन्ति
कर्माणि
कामैरहतचेतसः
।
त्यजन्तः
प्रकृतीर्दैवीर्यथाहं
लोकसंग्रहम्
31
▾
Meaning
Keep
कच्चिद्गुरुकुले
वासं
ब्रह्मन्
स्मरसि
नौ
यतः
।
द्विजो
विज्ञाय
विज्ञेयं
तमसः
पारमश्नुते
32
▾
Meaning
Keep
स
वै
सत्कर्मणां
साक्षाद्द्विजातेरिह
सम्भवः
।
आद्योऽङ्ग
यत्राश्रमिणां
यथाहं
ज्ञानदो
गुरुः
33
▾
Meaning
Keep
नन्वर्थकोविदा
ब्रह्मन्
वर्णाश्रमवतामिह
।
ये
मया
गुरुणा
वाचा
तरन्त्यञ्जो
भवार्णवम्
34
▾
Meaning
Keep
नाहमिज्याप्रजातिभ्यां
तपसोपशमेन
वा
।
तुष्येयं
सर्वभूतात्मा
गुरुशुश्रूषया
यथा
35
▾
Meaning
Keep
अपि
नः
स्मर्यते
ब्रह्मन्
वृत्तं
निवसतां
गुरौ
।
गुरुदारैश्चोदितानामिन्धनानयने
क्वचित्
36
▾
Meaning
Keep
प्रविष्टानां
महारण्यमपर्तौ
सुमहद्द्विज
।
वातवर्षमभूत्तीव्रं
निष्ठुराः
स्तनयित्नवः
37
▾
Meaning
Keep
सूर्यश्चास्तं
गतस्तावत्
तमसा
चावृता
दिशः
।
निम्नं
कूलं
जलमयं
न
प्राज्ञायत
किञ्चन
38
▾
Meaning
Keep
वयं
भृशं
तत्र
महानिलाम्बुभि-
र्निहन्यमाना
महुरम्बुसम्प्लवे
।
दिशोऽविदन्तोऽथ
परस्परं
वने
गृहीतहस्ताः
परिबभ्रिमातुराः
39
▾
Meaning
Keep
एतद्विदित्वा
उदिते
रवौ
सान्दीपनिर्गुरुः
।
अन्वेषमाणो
नः
शिष्यानाचार्योऽपश्यदातुरान्
40
▾
Meaning
Keep
अहो
हे
पुत्रका
यूयमस्मदर्थेऽतिदुःखिताः
।
आत्मा
वै
प्राणिनां
प्रेष्ठस्तमनादृत्य
मत्पराः
41
▾
Meaning
Keep
एतदेव
हि
सच्छिष्यैः
कर्तव्यं
गुरुनिष्कृतम्
।
यद्वै
विशुद्धभावेन
सर्वार्थात्मार्पणं
गुरौ
42
▾
Meaning
Keep
तुष्टोऽहं
भो
द्विजश्रेष्ठाः
सत्याः
सन्तु
मनोरथाः
।
छन्दांस्ययातयामानि
भवन्त्विह
परत्र
च
43
▾
Meaning
Keep
इत्थंविधान्यनेकानि
वसतां
गुरुवेश्मनि
।
गुरोरनुग्रहेणैव
पुमान्
पूर्णः
प्रशान्तये
44
▾
Meaning
Keep
किमस्माभिरनिर्वृत्तं
देवदेव
जगद्गुरो
।
भवता
सत्यकामेन
येषां
वासो
गुरोरभूत्
45
▾
Meaning
Keep
यस्यच्छन्दोमयं
ब्रह्म
देह
आवपनं
विभो
।
श्रेयसां
तस्य
गुरुषु
वासोऽत्यन्तविडम्बनम्
Previous
←
Balarama Goes Round the Fords
Next
A Handful of Flattened Rice
→