Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Sages at Samanta-pancaka, and Vasudeva's Sacrifice
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रुत्वा
पृथा
सुबलपुत्र्यथ
याज्ञसेनी
माधव्यथ
क्षितिपपत्न्य
उत
स्वगोप्यः
।
कृष्णेऽखिलात्मनि
हरौ
प्रणयानुबन्धं
सर्वा
विसिस्म्युरलमश्रुकलाकुलाक्ष्यः
2
▾
Meaning
Keep
इति
सम्भाषमाणासु
स्त्रीभिः
स्त्रीषु
नृभिर्नृषु
।
आययुर्मुनयस्तत्र
कृष्णरामदिदृक्षया
3
▾
Meaning
Keep
द्वैपायनो
नारदश्च
च्यवनो
देवलोऽसितः
।
विश्वामित्रः
शतानन्दो
भरद्वाजोऽथ
गौतमः
4
▾
Meaning
Keep
रामः
सशिष्यो
भगवान्
वसिष्ठो
गालवो
भृगुः
।
पुलस्त्यः
कश्यपोऽत्रिश्च
मार्कण्डेयो
बृहस्पतिः
5
▾
Meaning
Keep
द्वितस्त्रितश्चैकतश्च
ब्रह्मपुत्रास्तथाङ्गिराः
।
अगस्त्यो
याज्ञवल्क्यश्च
वामदेवादयोऽपरे
6
▾
Meaning
Keep
तान्
दृष्ट्वा
सहसोत्थाय
प्रागासीना
नृपादयः
।
पाण्डवाः
कृष्णरामौ
च
प्रणेमुर्विश्ववन्दितान्
7
▾
Meaning
Keep
तानानर्चुर्यथा
सर्वे
सहरामोऽच्युतोऽर्चयत्
।
स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः
8
▾
Meaning
Keep
उवाच
सुखमासीनान्
भगवान्
धर्मगुप्तनुः
।
सदसस्तस्य
महतो
यतवाचोऽनुशृण्वतः
9
▾
Meaning
Keep
श्रीभगवानुवाच ।
अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।
देवानामपि दुष्प्रापं यद्योगेश्वरदर्शनम्
10
▾
Meaning
Keep
किं
स्वल्पतपसां
नॄणामर्चायां
देवचक्षुषाम्
।
दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम्
11
▾
Meaning
Keep
न
ह्यम्मयानि
तीर्थानि
न
देवा
मृच्छिलामयाः
।
ते
पुनन्त्युरुकालेन
दर्शनादेव
साधवः
12
▾
Meaning
Keep
नाग्निर्न
सूर्यो
न
च
चन्द्रतारका
न
भूर्जलं
खं
श्वसनोऽथ
वाङ्मनः
।
उपासिता
भेदकृतो
हरन्त्यघं
विपश्चितो
घ्नन्ति
मुहूर्तसेवया
13
▾
Meaning
Keep
यस्यात्मबुद्धिः
कुणपे
त्रिधातुके
स्वधीः
कलत्रादिषु
भौम
इज्यधीः
।
यत्तीर्थबुद्धिः
सलिले
न
कर्हिचि-
ज्जनेष्वभिज्ञेषु
स
एव
गोखरः
14
▾
Meaning
Keep
निशम्येत्थं
भगवतः
कृष्णस्याकुण्ठमेधसः
।
वचो
दुरन्वयं
विप्रास्तूष्णीमासन्
भ्रमद्धियः
15
▾
Meaning
Keep
चिरं
विमृश्य
मुनय
ईश्वरस्येशितव्यताम्
।
जनसङ्ग्रह
इत्यूचुः
स्मयन्तस्तं
जगद्गुरुम्
16
▾
Meaning
Keep
यन्मायया
तत्त्वविदुत्तमा
वयं
विमोहिता
विश्वसृजामधीश्वराः
।
यदीशितव्यायति
गूढ
ईहया
अहो
विचित्रं
भगवद्विचेष्टितम्
17
▾
Meaning
Keep
अनीह
एतद्बहुधैक
आत्मना
सृजत्यवत्यत्ति
न
बध्यते
यथा
।
भौमैर्हि
भूमिर्बहुनामरूपिणी
अहो
विभूम्नश्चरितं
विडम्बनम्
18
▾
Meaning
Keep
अथापि
काले
स्वजनाभिगुप्तये
बिभर्षि
सत्त्वं
खलनिग्रहाय
च
।
स्वलीलया
वेदपथं
सनातनं
वर्णाश्रमात्मा
पुरुषः
परो
भवान्
19
▾
Meaning
Keep
ब्रह्म
ते
हृदयं
शुक्लं
तपःस्वाध्यायसंयमैः
।
यत्रोपलब्धं
सद्व्यक्तमव्यक्तं
च
ततः
परम्
20
▾
Meaning
Keep
तस्माद्ब्रह्मकुलं
ब्रह्मन्
शास्त्रयोनेस्त्वमात्मनः
।
सभाजयसि
सद्धाम
तद्ब्रह्मण्याग्रणीर्भवान्
21
▾
Meaning
Keep
अद्य
नो
जन्मसाफल्यं
विद्यायास्तपसो
दृशः
।
त्वया
संगम्य
सद्गत्या
यदन्तः
श्रेयसां
परः
22
▾
Meaning
Keep
नमस्तस्मै
भगवते
कृष्णायाकुण्ठमेधसे
।
स्वयोगमाययाच्छन्नमहिम्ने
परमात्मने
23
▾
Meaning
Keep
न
यं
विदन्त्यमी
भूपा
एकारामाश्च
वृष्णयः
।
मायाजवनिकाच्छन्नमात्मानं
कालमीश्वरम्
24
▾
Meaning
Keep
यथा
शयानः
पुरुष
आत्मानं
गुणतत्त्वदृक्
।
नाममात्रेन्द्रियाभातं
न
वेद
रहितं
परम्
25
▾
Meaning
Keep
एवं
त्वा
नाममात्रेषु
विषयेष्विन्द्रियेहया
।
मायया
विभ्रमच्चित्तो
न
वेद
स्मृत्युपप्लवात्
26
▾
Meaning
Keep
तस्याद्य
ते
ददृशिमाङ्घ्रिमघौघमर्षतीर्थास्पदं
हृदि
कृतं
सुविपक्वयोगैः
।
उत्सिक्तभक्त्युपहताशयजीवकोशा
आपुर्भवद्गतिमथानुगृहाण
भक्तान्
27
▾
Meaning
Keep
इत्यनुज्ञाप्य
दाशार्हं
धृतराष्ट्रं
युधिष्ठिरम्
।
राजर्षे
स्वाश्रमान्
गन्तुं
मुनयो
दधिरे
मनः
28
▾
Meaning
Keep
तद्
वीक्ष्य
तानुपव्रज्य
वसुदेवो
महायशाः
।
प्रणम्य
चोपसंगृह्य
बभाषेदं
सुयन्त्रितः
29
▾
Meaning
Keep
नमो
वः
सर्वदेवेभ्य
ऋषयः
श्रोतुमर्हथ
।
कर्मणा
कर्मनिर्हारो
यथा
स्यान्नस्तदुच्यताम्
30
▾
Meaning
Keep
नाति
चित्रमिदं
विप्रा
वसुदेवो
बुभुत्सया
।
कृष्णं
मत्वार्भकं
यन्नः
पृच्छति
श्रेय
आत्मनः
31
▾
Meaning
Keep
सन्निकर्षो
हि
मर्त्यानामनादरणकारणम्
।
गाङ्गं
हित्वा
यथान्याम्भस्तत्रत्यो
याति
शुद्धये
32
▾
Meaning
Keep
यस्यानुभूतिः
कालेन
लयोत्पत्त्यादिनास्य
वै
।
स्वतोऽन्यस्माच्च
गुणतो
न
कुतश्चन
रिष्यति
33
▾
Meaning
Keep
तं
क्लेशकर्मपरिपाकगुणप्रवाहै-
रव्याहतानुभवमीश्वरमद्वितीयम्
।
प्राणादिभिः
स्वविभवैरुपगूढमन्यो
मन्येत
सूर्यमिव
मेघहिमोपरागैः
34
▾
Meaning
Keep
अथोचुर्मुनयो
राजन्नाभाष्यानकदुन्दुभिम्
।
सर्वेषां
शृण्वतां
राज्ञां
तथैवाच्युतरामयोः
35
▾
Meaning
Keep
कर्मणा
कर्मनिर्हार
एष
साधु
निरूपितः
।
यच्छ्रद्धया
यजेद्विष्णुं
सर्वयज्ञेश्वरं
मखैः
36
▾
Meaning
Keep
चित्तस्योपशमोऽयं
वै
कविभिः
शास्त्रचक्षुषा
।
दर्शितः
सुगमो
योगो
धर्मश्चात्ममुदावहः
37
▾
Meaning
Keep
अयं
स्वस्त्ययनः
पन्था
द्विजातेर्गृहमेधिनः
।
यच्छ्रद्धयाऽऽप्तवित्तेन
शुक्लेनेज्येत
पूरुषः
38
▾
Meaning
Keep
वित्तैषणां
यज्ञदानैर्गृहैर्दारसुतैषणाम्
।
आत्मलोकैषणां
देव
कालेन
विसृजेद्बुधः
।
ग्रामे
त्यक्तैषणाः
सर्वे
ययुर्धीरास्तपोवनम्
39
▾
Meaning
Keep
ऋणैस्त्रिभिर्द्विजो
जातो
देवर्षिपितॄणां
प्रभो
।
यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य
त्यजन्
पतेत्
40
▾
Meaning
Keep
त्वं
त्वद्य
मुक्तो
द्वाभ्यां
वै
ऋषिपित्रोर्महामते
।
यज्ञैर्देवर्णमुन्मुच्य
निरृणोऽशरणो
भव
41
▾
Meaning
Keep
वसुदेव
भवान्नूनं
भक्त्या
परमया
हरिम्
।
जगतामीश्वरं
प्रार्चः
स
यद्वां
पुत्रतां
गतः
42
▾
Meaning
Keep
इति
तद्वचनं
श्रुत्वा
वसुदेवो
महामनाः
।
तान्
ऋषीन्
ऋत्विजो
वव्रे
मूर्ध्नाऽऽनम्य
प्रसाद्य
च
43
▾
Meaning
Keep
त
एनमृषयो
राजन्
वृता
धर्मेण
धार्मिकम्
।
तस्मिन्नयाजयन्
क्षेत्रे
मखैरुत्तमकल्पकैः
44
▾
Meaning
Keep
तद्दीक्षायां
प्रवृत्तायां
वृष्णयः
पुष्करस्रजः
।
स्नाताः
सुवाससो
राजन्
राजानः
सुष्ठ्वलङ्कृताः
45
▾
Meaning
Keep
तन्महिष्यश्च
मुदिता
निष्ककण्ठ्यः
सुवाससः
।
दीक्षाशालामुपाजग्मुरालिप्ता
वस्तुपाणयः
46
▾
Meaning
Keep
नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः
।
ननृतुर्नटनर्तक्यस्तुष्टुवुः
सूतमागधाः
।
जगुः
सुकण्ठ्यो
गन्धर्व्यः
सङ्गीतं
सहभर्तृकाः
47
▾
Meaning
Keep
तमभ्यषिञ्चन्
विधिवदक्तमभ्यक्तमृत्विजः
।
पत्नीभिरष्टादशभिः
सोमराजमिवोडुभिः
48
▾
Meaning
Keep
ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः
।
स्वलंकृताभिर्विबभौ
दीक्षितोऽजिनसंवृतः
49
▾
Meaning
Keep
तस्यर्त्विजो
महाराज
रत्नकौशेयवाससः
।
ससदस्या
विरेजुस्ते
यथा
वृत्रहणोऽध्वरे
50
▾
Meaning
Keep
तदा
रामश्च
कृष्णश्च
स्वैः
स्वैर्बन्धुभिरन्वितौ
।
रेजतुः
स्वसुतैर्दारैर्जीवेशौ
स्वविभूतिभिः
51
▾
Meaning
Keep
ईजेऽनुयज्ञं
विधिना
अग्निहोत्रादिलक्षणैः
।
प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम्
52
▾
Meaning
Keep
अथर्त्विग्भ्योऽददात्
काले
यथाम्नातं
स
दक्षिणाः
।
स्वलंकृतेभ्योऽलंकृत्य
गोभूकन्या
महाधनाः
53
▾
Meaning
Keep
पत्नीसंयाजावभृथ्यैश्चरित्वा
ते
महर्षयः
।
सस्नू
रामह्रदे
विप्रा
यजमानपुरःसराः
54
▾
Meaning
Keep
स्नातोऽलङ्कारवासांसि
वन्दिभ्योऽदात्तथा
स्त्रियः
।
ततः
स्वलङ्कृतो
वर्णानाश्वभ्योऽन्नेन
पूजयत्
55
▾
Meaning
Keep
बन्धून्
सदारान्
ससुतान्
पारिबर्हेण
भूयसा
।
विदर्भकोशलकुरून्
काशिकेकयसृञ्जयान्
56
▾
Meaning
Keep
सदस्यर्त्विक्सुरगणान्
नृभूतपितृचारणान्
।
श्रीनिकेतमनुज्ञाप्य
शंसन्तः
प्रययुः
क्रतुम्
57
▾
Meaning
Keep
धृतराष्ट्रोऽनुजः
पार्था
भीष्मो
द्रोणः
पृथा
यमौ
।
नारदो
भगवान्
व्यासः
सुहृत्सम्बन्धिबान्धवाः
58
▾
Meaning
Keep
बन्धून्
परिष्वज्य
यदून्
सौहृदाक्लिन्नचेतसः
।
ययुर्विरहकृच्छ्रेण
स्वदेशांश्चापरे
जनाः
59
▾
Meaning
Keep
नन्दस्तु
सह
गोपालैर्बृहत्या
पूजयार्चितः
।
कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्बन्धुवत्सलः
60
▾
Meaning
Keep
वसुदेवोऽञ्जसोत्तीर्य
मनोरथमहार्णवम्
।
सुहृद्वृतः
प्रीतमना
नन्दमाह
करे
स्पृशन्
61
▾
Meaning
Keep
भ्रातरीशकृतः
पाशो
नृणां
यः
स्नेहसंज्ञितः
।
तं
दुस्त्यजमहं
मन्ये
शूराणामपि
योगिनाम्
62
▾
Meaning
Keep
अस्मास्वप्रतिकल्पेयं
यत्
कृताज्ञेषु
सत्तमैः
।
मैत्र्यर्पिताफला
वापि
न
निवर्तेत
कर्हिचित्
63
▾
Meaning
Keep
प्रागकल्पाच्च
कुशलं
भ्रातर्वो
नाचराम
हि
।
अधुना
श्रीमदान्धाक्षा
न
पश्यामः
पुरः
सतः
64
▾
Meaning
Keep
मा
राज्यश्रीरभूत्पुंसः
श्रेयस्कामस्य
मानद
।
स्वजनानुत
बन्धून्
वा
न
पश्यति
ययान्धदृक्
65
▾
Meaning
Keep
एवं
सौहृदशैथिल्यचित्त
आनकदुन्दुभिः
।
रुरोद
तत्कृतां
मैत्रीं
स्मरन्नश्रुविलोचनः
66
▾
Meaning
Keep
नन्दस्तु
सख्युः
प्रियकृत्प्रेम्णा
गोविन्दरामयोः
।
अद्य
श्व
इति
मासांस्त्रीन्
यदुभिर्मानितोऽवसत्
67
▾
Meaning
Keep
ततः
कामैः
पूर्यमाणः
सव्रजः
सहबान्धवः
।
परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः
68
▾
Meaning
Keep
वसुदेवोग्रसेनाभ्यां
कृष्णोद्धवबलादिभिः
।
दत्तमादाय
पारिबर्हं
यापितो
यदुभिर्ययौ
69
▾
Meaning
Keep
नन्दो
गोपाश्च
गोप्यश्च
गोविन्दचरणाम्बुजे
।
मनः
क्षिप्तं
पुनर्हर्तुमनीशा
मथुरां
ययुः
70
▾
Meaning
Keep
बन्धुषु
प्रतियातेषु
वृष्णयः
कृष्णदेवताः
।
वीक्ष्य
प्रावृषमासन्नाद्
ययुर्द्वारवतीं
पुनः
71
▾
Meaning
Keep
जनेभ्यः
कथयाञ्चक्रुर्यदुदेवमहोत्सवम्
।
यदासीत्तीर्थयात्रायां
सुहृत्संदर्शनादिकम्
Previous
←
How Each of Them Was Married
Next
Vasudeva Is Taught, and Devaki's Sons Return
→