Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Subhadra Carried Off, and Two Hosts in Mithila
Śrīmad Bhāgavatam
›
Canto 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
ब्रह्मन्
वेदितुमिच्छामः
स्वसारां
रामकृष्णयोः
।
यथोपयेमे
विजयो
या
ममासीत्पितामही
2
▾
Meaning
Keep
अर्जुनस्तीर्थयात्रायां
पर्यटन्नवनीं
प्रभुः
।
गतः
प्रभासमशृणोन्मातुलेयीं
स
आत्मनः
3
▾
Meaning
Keep
दुर्योधनाय
रामस्तां
दास्यतीति
न
चापरे
।
तल्लिप्सुः
स
यतिर्भूत्वा
त्रिदण्डी
द्वारकामगात्
4
▾
Meaning
Keep
तत्र
वै
वार्षिकान्
मासानवात्सीत्स्वार्थसाधकः
।
पौरैः
सभाजितोऽभीक्ष्णं
रामेणाजानता
च
सः
5
▾
Meaning
Keep
एकदा
गृहमानीय
आतिथ्येन
निमन्त्र्य
तम्
।
श्रद्धयोपहृतं
भैक्ष्यं
बलेन
बुभुजे
किल
6
▾
Meaning
Keep
सोऽपश्यत्तत्र
महतीं
कन्यां
वीरमनोहराम्
।
प्रीत्युत्फुल्लेक्षणस्तस्यां
भावक्षुब्धं
मनो
दधे
7
▾
Meaning
Keep
सापि
तं
चकमे
वीक्ष्य
नारीणां
हृदयङ्गमम्
।
हसन्ती
व्रीडितापाङ्गी
तन्न्यस्तहृदयेक्षणा
8
▾
Meaning
Keep
तां
परं
समनुध्यायन्नन्तरं
प्रेप्सुरर्जुनः
।
न
लेभे
शं
भ्रमच्चित्तः
कामेनातिबलीयसा
9
▾
Meaning
Keep
महत्यां
देवयात्रायां
रथस्थां
दुर्गनिर्गताम्
।
जहारानुमतः
पित्रोः
कृष्णस्य
च
महारथः
10
▾
Meaning
Keep
रथस्थो
धनुरादाय
शूरांश्चारुन्धतो
भटान्
।
विद्राव्य
क्रोशतां
स्वानां
स्वभागं
मृगराडिव
11
▾
Meaning
Keep
तच्छ्रुत्वा
क्षुभितो
रामः
पर्वणीव
महार्णवः
।
गृहीतपादः
कृष्णेन
सुहृद्भिश्चान्वशाम्यत
12
▾
Meaning
Keep
प्राहिणोत्पारिबर्हाणि
वरवध्वोर्मुदा
बलः
।
महाधनोपस्करेभरथाश्वनरयोषितः
13
▾
Meaning
Keep
कृष्णस्यासीद्द्विजश्रेष्ठः
श्रुतदेव
इति
श्रुतः
।
कृष्णैकभक्त्या
पूर्णार्थः
शान्तः
कविरलम्पटः
14
▾
Meaning
Keep
स
उवास
विदेहेषु
मिथिलायां
गृहाश्रमी
।
अनीहयाऽऽगताहार्यनिर्वर्तितनिजक्रियः
15
▾
Meaning
Keep
यात्रामात्रं
त्वहरहर्दैवादुपनमत्युत
।
नाधिकं
तावता
तुष्टः
क्रिया
चक्रे
यथोचिताः
16
▾
Meaning
Keep
तथा
तद्राष्ट्रपालोऽङ्ग
बहुलाश्व
इति
श्रुतः
।
मैथिलो
निरहम्मान
उभावप्यच्युतप्रियौ
17
▾
Meaning
Keep
तयोः
प्रसन्नो
भगवान्
दारुकेणाहृतं
रथम्
।
आरुह्य
साकं
मुनिभिर्विदेहान्
प्रययौ
प्रभुः
18
▾
Meaning
Keep
नारदो
वामदेवोऽत्रिः
कृष्णो
रामोऽसितोऽरुणिः
।
अहं
बृहस्पतिः
कण्वो
मैत्रेयश्च्यवनादयः
19
▾
Meaning
Keep
तत्र
तत्र
तमायान्तं
पौरा
जानपदा
नृप
।
उपतस्थुः
सार्घ्यहस्ता
ग्रहैः
सूर्यमिवोदितम्
20
▾
Meaning
Keep
आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य-
पाञ्चालकुन्तिमधुकेकयकोसलार्णाः
।
अन्ये
च
तन्मुखसरोजमुदारहास-
स्निग्धेक्षणं
नृप
पपुर्दृशिभिर्नृनार्यः
21
▾
Meaning
Keep
तेभ्यः
स्ववीक्षणविनष्टतमिस्रदृग्भ्यः
क्षेमं
त्रिलोकगुरुरर्थदृशं
च
यच्छन्
।
शृण्वन्
दिगन्तधवलं
स्वयशोऽशुभघ्नं
गीतं
सुरैर्नृभिरगाच्छनकैर्विदेहान्
22
▾
Meaning
Keep
तेऽच्युतं
प्राप्तमाकर्ण्य
पौरा
जानपदा
नृप
।
अभीयुर्मुदितास्तस्मै
गृहीतार्हणपाणयः
23
▾
Meaning
Keep
दृष्ट्वा
त
उत्तमश्लोकं
प्रीत्युत्फुल्लाननाशयाः
।
कैर्धृताञ्जलिभिर्नेमुः
श्रुतपूर्वांस्तथा
मुनीन्
24
▾
Meaning
Keep
स्वानुग्रहाय
सम्प्राप्तं
मन्वानौ
तं
जगद्गुरुम्
।
मैथिलः
श्रुतदेवश्च
पादयोः
पेततुः
प्रभोः
25
▾
Meaning
Keep
न्यमन्त्रयेतां
दाशार्हमातिथ्येन
सह
द्विजैः
।
मैथिलः
श्रुतदेवश्च
युगपत्संहताञ्जली
26
▾
Meaning
Keep
भगवांस्तदभिप्रेत्य
द्वयोः
प्रियचिकीर्षया
।
उभयोराविशद्गेहमुभाभ्यां
तदलक्षितः
27
▾
Meaning
Keep
श्रोतुमत्यसतां
दूशन्राज्जनकः
स्वगृहागतान्
।
आनीतेष्वासनाग्र्येषु
सुखासीनान्
महामनाः
28
▾
Meaning
Keep
प्रवृद्धभक्त्या
उद्धर्षहृदयास्राविलेक्षणः
।
नत्वा
तदङ्घ्रीन्
प्रक्षाल्य
तदपो
लोकपावनीः
29
▾
Meaning
Keep
सकुटुम्बो
वहन्
मूर्ध्ना
पूजयाञ्चक्र
ईश्वरान्
।
गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः
30
▾
Meaning
Keep
वाचा
मधुरया
प्रीणन्निदमाहान्नतर्पितान्
।
पादावङ्कगतौ
विष्णोः
संस्पृशञ्छनकैर्मुदा
31
▾
Meaning
Keep
भवान्
हि
सर्वभूतानामात्मा
साक्षी
स्वदृग्विभो
।
अथ
नस्त्वत्पदाम्भोजं
स्मरतां
दर्शनं
गतः
32
▾
Meaning
Keep
स्ववचस्तदृतं
कर्तुमस्मद्दृग्गोचरो
भवान्
।
यदात्थैकान्तभक्तान्मे
नानन्तः
श्रीरजः
प्रियः
33
▾
Meaning
Keep
को
नु
त्वच्चरणाम्भोजमेवंविद्विसृजेत्पुमान्
।
निष्किञ्चनानां
शान्तानां
मुनीनां
यस्त्वमात्मदः
34
▾
Meaning
Keep
योऽवतीर्य
यदोर्वंशे
नृणां
संसरतामिह
।
यशो
वितेने
तच्छान्त्यै
त्रैलोक्यवृजिनापहम्
35
▾
Meaning
Keep
नमस्तुभ्यं
भगवते
कृष्णायाकुण्ठमेधसे
।
नारायणाय
ऋषये
सुशान्तं
तप
ईयुषे
36
▾
Meaning
Keep
दिनानि
कतिचिद्भूमन्
गृहान्
नो
निवस
द्विजैः
।
समेतः
पादरजसा
पुनीहीदं
निमेः
कुलम्
37
▾
Meaning
Keep
इत्युपामन्त्रितो
राज्ञा
भगवाँल्लोकभावनः
।
उवास
कुर्वन्
कल्याणं
मिथिलानरयोषिताम्
38
▾
Meaning
Keep
श्रुतदेवोऽच्युतं
प्राप्तं
स्वगृहाञ्जनको
यथा
।
नत्वा
मुनीन्
सुसंहृष्टो
धुन्वन्
वासो
ननर्त
ह
39
▾
Meaning
Keep
तृणपीठबृषीष्वेतानानीतेषूपवेश्य
सः
।
स्वागतेनाभिनन्द्याङ्घ्रीन्
सभार्योऽवनिजे
मुदा
40
▾
Meaning
Keep
तदम्भसा
महाभाग
आत्मानं
सगृहान्वयम्
।
स्नापयाञ्चक्र
उद्धर्षो
लब्धसर्वमनोरथः
41
▾
Meaning
Keep
फलार्हणोशीरशिवामृताम्बुभि-
र्मृदा
सुरभ्या
तुलसीकुशाम्बुजैः
।
आराधयामास
यथोपपन्नया
सपर्यया
सत्त्वविवर्धनान्धसा
42
▾
Meaning
Keep
स
तर्कयामास
कुतो
ममान्वभूद्
गृहान्धकूपे
पतितस्य
सङ्गमः
।
यः
सर्वतीर्थास्पदपादरेणुभिः
कृष्णेन
चास्यात्मनिकेतभूसुरैः
43
▾
Meaning
Keep
सूपविष्टान्
कृतातिथ्यान्
श्रुतदेव
उपस्थितः
।
सभार्यस्वजनापत्य
उवाचाङ्घ्र्यभिमर्शनः
44
▾
Meaning
Keep
नाद्य
नो
दर्शनं
प्राप्तः
परं
परमपूरुषः
।
यर्हीदं
शक्तिभिः
सृष्ट्वा
प्रविष्टो
ह्यात्मसत्तया
45
▾
Meaning
Keep
यथा
शयानः
पुरुषो
मनसैवात्ममायया
।
सृष्ट्वा
लोकं
परं
स्वाप्नमनुविश्यावभासते
46
▾
Meaning
Keep
शृण्वतां
गदतां
शश्वदर्चतां
त्वाभिवन्दताम्
।
नृणां
संवदतामन्तर्हृदि
भास्यमलात्मनाम्
47
▾
Meaning
Keep
हृदिस्थोऽप्यतिदूरस्थः
कर्मविक्षिप्तचेतसाम्
।
आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम्
48
▾
Meaning
Keep
नमोऽस्तु
तेऽध्यात्मविदां
परात्मने
अनात्मने
स्वात्मविभक्तमृत्यवे
।
सकारणाकारणलिङ्गमीयुषे
स्वमाययासंवृतरुद्धदृष्टये
49
▾
Meaning
Keep
स
त्वं
शाधि
स्वभृत्यान्नः
किं
देव
करवाम
हे
।
एतदन्तो
नृणां
क्लेशो
यद्भवानक्षिगोचरः
50
▾
Meaning
Keep
तदुक्तमित्युपाकर्ण्य
भगवान्
प्रणतार्तिहा
।
गृहीत्वा
पाणिना
पाणिं
प्रहसंस्तमुवाच
ह
51
▾
Meaning
Keep
श्रीभगवानुवाच ।
ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।
संचरन्ति मया लोकान् पुनन्तः पादरेणुभिः
52
▾
Meaning
Keep
देवाः
क्षेत्राणि
तीर्थानि
दर्शनस्पर्शनार्चनैः
।
शनैः
पुनन्ति
कालेन
तदप्यर्हत्तमेक्षया
53
▾
Meaning
Keep
ब्राह्मणो
जन्मना
श्रेयान्
सर्वेषां
प्राणिनामिह
।
तपसा
विद्यया
तुष्ट्या
किमु
मत्कलया
युतः
54
▾
Meaning
Keep
न
ब्राह्मणान्मे
दयितं
रूपमेतच्चतुर्भुजम्
।
सर्ववेदमयो
विप्रः
सर्वदेवमयो
ह्यहम्
55
▾
Meaning
Keep
दुष्प्रज्ञा
अविदित्वैवमवजानन्त्यसूयवः
।
गुरुं
मां
विप्रमात्मानमर्चादाविज्यदृष्टयः
56
▾
Meaning
Keep
चराचरमिदं
विश्वं
भावा
ये
चास्य
हेतवः
।
मद्रूपाणीति
चेतस्याधत्ते
विप्रो
मदीक्षया
57
▾
Meaning
Keep
तस्माद्ब्रह्मऋषीनेतान्
ब्रह्मन्
मच्छ्रद्धयार्चय
।
एवं
चेदर्चितोऽस्म्यद्धा
नान्यथा
भूरिभूतिभिः
58
▾
Meaning
Keep
स
इत्थं
प्रभुणाऽऽदिष्टः
सहकृष्णान्
द्विजोत्तमान्
।
आराध्यैकात्मभावेन
मैथिलश्चाप
सद्गतिम्
59
▾
Meaning
Keep
एवं
स्वभक्तयो
राजन्
भगवान्
भक्तभक्तिमान्
।
उषित्वाऽऽदिश्य
सन्मार्गं
पुनर्द्वारवतीमगात्
Previous
←
Vasudeva Is Taught, and Devaki's Sons Return
Next
The Vedas Praise the One They Cannot Point To
→