Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Python, the Bee and Pingala
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
सुखमैन्द्रियकं
राजन्
स्वर्गे
नरक
एव
च
।
देहिनां
यद्यथा
दुःखं
तस्मान्नेच्छेत
तद्बुधः
2
▾
Meaning
Keep
ग्रासं
सुमृष्टं
विरसं
महान्तं
स्तोकमेव
वा
।
यदृच्छयैवापतितं
ग्रसेदाजगरोऽक्रियः
3
▾
Meaning
Keep
शयीताहानि
भूरीणि
निराहारोऽनुपक्रमः
।
यदि
नोपनमेद्ग्रासो
महाहिरिव
दिष्टभुक्
4
▾
Meaning
Keep
ओजः
सहो
बलयुतं
बिभ्रद्देहमकर्मकम्
।
शयानो
वीतनिद्रश्च
नेहेतेन्द्रियवानपि
5
▾
Meaning
Keep
मुनिः
प्रसन्नगम्भीरो
दुर्विगाह्यो
दुरत्ययः
।
अनन्तपारो
ह्यक्षोभ्यः
स्तिमितोद
इवार्णवः
6
▾
Meaning
Keep
समृद्धकामो
हीनो
वा
नारायणपरो
मुनिः
।
नोत्सर्पेत
न
शुष्येत
सरिद्भिरिव
सागरः
7
▾
Meaning
Keep
दृष्ट्वा
स्त्रियं
देवमायां
तद्भावैरजितेन्द्रियः
।
प्रलोभितः
पतत्यन्धे
तमस्यग्नौ
पतङ्गवत्
8
▾
Meaning
Keep
योषिद्धिरण्याभरणाम्बरादि-
द्रव्येषु
मायारचितेषु
मूढः
।
प्रलोभितात्मा
ह्युपभोगबुद्ध्या
पतङ्गवन्नश्यति
नष्टदृष्टिः
9
▾
Meaning
Keep
स्तोकं
स्तोकं
ग्रसेद्ग्रासं
देहो
वर्तेत
यावता
।
गृहानहिंसन्नातिष्ठेद्वृत्तिं
माधुकरीं
मुनिः
10
▾
Meaning
Keep
अणुभ्यश्च
महद्भ्यश्च
शास्त्रेभ्यः
कुशलो
नरः
।
सर्वतः
सारमादद्यात्पुष्पेभ्य
इव
षट्पदः
11
▾
Meaning
Keep
सायंतनं
श्वस्तनं
वा
न
सङ्गृह्णीत
भिक्षितम्
।
पाणिपात्रोदरामत्रो
मक्षिकेव
न
सङ्ग्रही
12
▾
Meaning
Keep
सायंतनं
श्वस्तनं
वा
न
सङ्गृह्णीत
भिक्षुकः
।
मक्षिका
इव
सङ्गृह्णन्
सह
तेन
विनश्यति
13
▾
Meaning
Keep
पदापि
युवतीं
भिक्षुर्न
स्पृशेद्दारवीमपि
।
स्पृशन्
करीव
बध्येत
करिण्या
अङ्गसङ्गतः
14
▾
Meaning
Keep
नाधिगच्छेत्स्त्रियं
प्राज्ञः
कर्हिचिन्मृत्युमात्मनः
।
बलाधिकैः
स
हन्येत
गजैरन्यैर्गजो
यथा
15
▾
Meaning
Keep
न
देयं
नोपभोग्यं
च
लुब्धैर्यद्
दुःखसंचितम्
।
भुङ्क्ते
तदपि
तच्चान्यो
मधुहेवार्थविन्मधु
16
▾
Meaning
Keep
सुदुःखोपार्जितैर्वित्तैराशासानां
गृहाशिषः
।
मधुहेवाग्रतो
भुङ्क्ते
यतिर्वै
गृहमेधिनाम्
17
▾
Meaning
Keep
ग्राम्यगीतं
न
शृणुयाद्यतिर्वनचरः
क्वचित्
।
शिक्षेत
हरिणाद्बद्धान्मृगयोर्गीतमोहितात्
18
▾
Meaning
Keep
नृत्यवादित्रगीतानि
जुषन्
ग्राम्याणि
योषिताम्
।
आसां
क्रीडनको
वश्य
ऋष्यशृङ्गो
मृगीसुतः
19
▾
Meaning
Keep
जिह्वयातिप्रमाथिन्या
जनो
रसविमोहितः
।
मृत्युमृच्छत्यसद्बुद्धिर्मीनस्तु
बडिशैर्यथा
20
▾
Meaning
Keep
इन्द्रियाणि
जयन्त्याशु
निराहारा
मनीषिणः
।
वर्जयित्वा
तु
रसनं
तन्निरन्नस्य
वर्धते
21
▾
Meaning
Keep
तावज्जितेन्द्रियो
न
स्याद्विजितान्येन्द्रियः
पुमान्
।
न
जयेद्रसनं
यावज्जितं
सर्वं
जिते
रसे
22
▾
Meaning
Keep
पिङ्गला
नाम
वेश्याऽऽसीद्
विदेहनगरे
पुरा
।
तस्या
मे
शिक्षितं
किंचिन्निबोध
नृपनन्दन
23
▾
Meaning
Keep
सा
स्वैरिण्येकदा
कान्तं
सङ्केत
उपनेष्यती
।
अभूत्काले
बहिर्द्वारि
बिभ्रती
रूपमुत्तमम्
24
▾
Meaning
Keep
मार्ग
आगच्छतो
वीक्ष्य
पुरुषान्
पुरुषर्षभ
।
ताञ्छुल्कदान्
वित्तवतः
कान्तान्
मेनेऽर्थकामुका
25
▾
Meaning
Keep
आगतेष्वपयातेषु
सा
संकेतोपजीविनी
।
अप्यन्यो
वित्तवान्
कोऽपि
मामुपैष्यति
भूरिदः
26
▾
Meaning
Keep
एवं
दुराशया
ध्वस्तनिद्रा
द्वार्यवलम्बती
।
निर्गच्छन्ती
प्रविशती
निशीथं
समपद्यत
27
▾
Meaning
Keep
तस्या
वित्ताशया
शुष्यद्वक्त्राया
दीनचेतसः
।
निर्वेदः
परमो
जज्ञे
चिन्ताहेतुः
सुखावहः
28
▾
Meaning
Keep
तस्या
निर्विण्णचित्ताया
गीतं
शृणु
यथा
मम
।
निर्वेद
आशापाशानां
पुरुषस्य
यथा
ह्यसिः
29
▾
Meaning
Keep
न
ह्यङ्गाजातनिर्वेदो
देहबन्धं
जिहासति
।
यथा
विज्ञानरहितो
मनुजो
ममतां
नृप
30
▾
Meaning
Keep
अहो
मे
मोहविततिं
पश्यताविजितात्मनः
।
या
कान्तादसतः
कामं
कामये
येन
बालिशा
31
▾
Meaning
Keep
सन्तं
समीपे
रमणं
रतिप्रदं
वित्तप्रदं
नित्यमिमं
विहाय
।
अकामदं
दुःखभयाधिशोक-
मोहप्रदं
तुच्छमहं
भजेऽज्ञा
32
▾
Meaning
Keep
अहो
मयाऽऽत्मा
परितापितो
वृथा
साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया
।
स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्
क्रीतेन
वित्तं
रतिमात्मनेच्छती
33
▾
Meaning
Keep
यदस्थिभिर्निर्मितवंशवंश्य-
स्थूणं
त्वचा
रोमनखैः
पिनद्धम्
।
क्षरन्नवद्वारमगारमेत-
द्विण्मूत्रपूर्णं
मदुपैति
कान्या
34
▾
Meaning
Keep
विदेहानां
पुरे
ह्यस्मिन्नहमेकैव
मूढधीः
।
यान्यमिच्छन्त्यसत्यस्मादात्मदात्काममच्युतात्
35
▾
Meaning
Keep
सुहृत्प्रेष्ठतमो
नाथ
आत्मा
चायं
शरीरिणाम्
।
तं
विक्रीयात्मनैवाहं
रमेऽनेन
यथा
रमा
36
▾
Meaning
Keep
कियत्प्रियं
ते
व्यभजन्
कामा
ये
कामदा
नराः
।
आद्यन्तवन्तो
भार्याया
देवा
वा
कालविद्रुताः
37
▾
Meaning
Keep
नूनं
मे
भगवान्
प्रीतो
विष्णुः
केनापि
कर्मणा
।
निर्वेदोऽयं
दुराशाया
यन्मे
जातः
सुखावहः
38
▾
Meaning
Keep
मैवं
स्युर्मन्दभाग्यायाः
क्लेशा
निर्वेदहेतवः
।
येनानुबन्धं
निर्हृत्य
पुरुषः
शममृच्छति
39
▾
Meaning
Keep
तेनोपकृतमादाय
शिरसा
ग्राम्यसङ्गताः
।
त्यक्त्वा
दुराशाः
शरणं
व्रजामि
तमधीश्वरम्
40
▾
Meaning
Keep
संतुष्टा
श्रद्दधत्येतद्
यथालाभेन
जीवती
।
विहराम्यमुनैवाहमात्मना
रमणेन
वै
41
▾
Meaning
Keep
संसारकूपे
पतितं
विषयैर्मुषितेक्षणम्
।
ग्रस्तं
कालाहिनाऽऽत्मानं
कोऽन्यस्त्रातुमधीश्वरः
42
▾
Meaning
Keep
आत्मैव
ह्यात्मनो
गोप्ता
निर्विद्येत
यदाखिलात्
।
अप्रमत्त
इदं
पश्येद्ग्रस्तं
कालाहिना
जगत्
43
▾
Meaning
Keep
एवं
व्यवसितमतिर्दुराशां
कान्ततर्षजाम्
।
छित्त्वोपशममास्थाय
शय्यामुपविवेश
सा
44
▾
Meaning
Keep
आशा
हि
परमं
दुःखं
नैराश्यं
परमं
सुखम्
।
यथा
संछिद्य
कान्ताशां
सुखं
सुष्वाप
पिङ्गला
Previous
←
The Four and Twenty Teachers
Next
The Girl's Bangles and the Body as Teacher
→