Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Two Firesticks
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुलाचारमकामात्मा समाचरेत्
2
▾
Meaning
Keep
अन्वीक्षेत
विशुद्धात्मा
देहिनां
विषयात्मनाम्
।
गुणेषु
तत्त्वध्यानेन
सर्वारम्भविपर्ययम्
3
▾
Meaning
Keep
सुप्तस्य
विषयालोको
ध्यायतो
वा
मनोरथः
।
नानात्मकत्वाद्विफलस्तथा
भेदात्मधीर्गुणैः
4
▾
Meaning
Keep
निवृत्तं
कर्म
सेवेत
प्रवृत्तं
मत्परस्त्यजेत्
।
जिज्ञासायां
सम्प्रवृत्तो
नाद्रियेत्कर्मचोदनाम्
5
▾
Meaning
Keep
यमानभीक्ष्णं
सेवेत
नियमान्
मत्परः
क्वचित्
।
मदभिज्ञं
गुरुं
शान्तमुपासीत
मदात्मकम्
6
▾
Meaning
Keep
अमान्यमत्सरो
दक्षो
निर्ममो
दृढसौहृदः
।
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक्
7
▾
Meaning
Keep
जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु
।
उदासीनः
समं
पश्यन्
सर्वेष्वर्थमिवात्मनः
8
▾
Meaning
Keep
विलक्षणः
स्थूलसूक्ष्माद्देहादात्मेक्षिता
स्वदृक्
।
यथाग्निर्दारुणो
दाह्याद्दाहकोऽन्यः
प्रकाशकः
9
▾
Meaning
Keep
निरोधोत्पत्त्यणुबृहन्नानात्वं
तत्कृतान्
गुणान्
।
अन्तः
प्रविष्ट
आधत्त
एवं
देहगुणान्
परः
10
▾
Meaning
Keep
योऽसौ
गुणैर्विरचितो
देहोऽयं
पुरुषस्य
हि
।
संसारस्तन्निबन्धोऽयं
पुंसो
विद्याच्छिदात्मनः
11
▾
Meaning
Keep
तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं
केवलं
परम्
।
सङ्गम्य
निरसेदेतद्वस्तुबुद्धिं
यथाक्रमम्
12
▾
Meaning
Keep
आचार्योऽरणिराद्यः
स्यादन्तेवास्युत्तरारणिः
।
तत्सन्धानं
प्रवचनं
विद्यासन्धिः
सुखावहः
13
▾
Meaning
Keep
वैशारदी
सातिविशुद्धबुद्धि-
र्धुनोति
मायां
गुणसम्प्रसूताम्
।
गुणांश्च
सन्दह्य
यदात्ममेतत्
स्वयं
च
शाम्यत्यसमिद्यथाग्निः
14
▾
Meaning
Keep
अथैषां
कर्मकर्तॄणां
भोक्तॄणां
सुखदुःखयोः
।
नानात्वमथ
नित्यत्वं
लोककालागमात्मनाम्
15
▾
Meaning
Keep
मन्यसे
सर्वभावानां
संस्था
ह्यौत्पत्तिकी
यथा
।
तत्तदाकृतिभेदेन
जायते
भिद्यते
च
धीः
16
▾
Meaning
Keep
एवमप्यङ्ग
सर्वेषां
देहिनां
देहयोगतः
।
कालावयवतः
सन्ति
भावा
जन्मादयोऽसकृत्
17
▾
Meaning
Keep
अत्रापि
कर्मणां
कर्तुरस्वातन्त्र्यं
च
लक्ष्यते
।
भोक्तुश्च
दुःखसुखयोः
को
न्वर्थो
विवशं
भजेत्
18
▾
Meaning
Keep
न
देहिनां
सुखं
किंचिद्
विद्यते
विदुषामपि
।
तथा
च
दुःखं
मूढानां
वृथाहङ्करणं
परम्
19
▾
Meaning
Keep
यदि
प्राप्तिं
विघातं
च
जानन्ति
सुखदुःखयोः
।
तेऽप्यद्धा
न
विदुर्योगं
मृत्युर्न
प्रभवेद्यथा
20
▾
Meaning
Keep
को
न्वर्थः
सुखयत्येनं
कामो
वा
मृत्युरन्तिके
।
आघातं
नीयमानस्य
वध्यस्येव
न
तुष्टिदः
21
▾
Meaning
Keep
श्रुतं
च
दृष्टवद्दुष्टं
स्पर्धासूयात्ययव्ययैः
।
बह्वन्तरायकामत्वात्कृषिवच्चापि
निष्फलम्
22
▾
Meaning
Keep
अन्तरायैरविहितो
यदि
धर्मः
स्वनुष्ठितः
।
तेनापि
निर्जितं
स्थानं
यथा
गच्छति
तच्छृणु
23
▾
Meaning
Keep
इष्ट्वेह
देवता
यज्ञैः
स्वर्लोकं
याति
याज्ञिकः
।
भुञ्जीत
देववत्तत्र
भोगान्
दिव्यान्
निजार्जितान्
24
▾
Meaning
Keep
स्वपुण्योपचिते
शुभ्रे
विमान
उपगीयते
।
गन्धर्वैर्विहरन्
मध्ये
देवीनां
हृद्यवेषधृक्
25
▾
Meaning
Keep
स्त्रीभिः
कामगयानेन
किङ्किणीजालमालिना
।
क्रीडन्
नवेदात्मपातं
सुराक्रीडेषु
निर्वृतः
26
▾
Meaning
Keep
तावत्
प्रमोदते
स्वर्गे
यावत्
पुण्यं
समाप्यते
।
क्षीणपुन्यः
पतत्यर्वागनिच्छन्
कालचालितः
27
▾
Meaning
Keep
यद्यधर्मरतः
सङ्गादसतां
वाजितेन्द्रियः
।
कामात्मा
कृपणो
लुब्धः
स्त्रैणो
भूतविहिंसकः
28
▾
Meaning
Keep
पशूनविधिनाऽऽलभ्य
प्रेतभूतगणान्
यजन्
।
नरकानवशो
जन्तुर्गत्वा
यात्युल्बणं
तमः
29
▾
Meaning
Keep
कर्माणि
दुःखोदर्काणि
कुर्वन्
देहेन
तैः
पुनः
।
देहमाभजते
तत्र
किं
सुखं
मर्त्यधर्मिणः
30
▾
Meaning
Keep
लोकानां
लोकपालानां
मद्भयं
कल्पजीविनाम्
।
ब्रह्मणोऽपि
भयं
मत्तो
द्विपरार्धपरायुषः
31
▾
Meaning
Keep
गुणाः
सृजन्ति
कर्माणि
गुणोऽनुसृजते
गुणान्
।
जीवस्तु
गुणसंयुक्तो
भुङ्क्ते
कर्मफलान्यसौ
32
▾
Meaning
Keep
यावत्स्याद्गुणवैषम्यं
तावन्नानात्वमात्मनः
।
नानात्वमात्मनो
यावत्पारतन्त्र्यं
तदैव
हि
33
▾
Meaning
Keep
यावदस्यास्वतन्त्रत्वं
तावदीश्वरतो
भयम्
।
य
एतत्समुपासीरंस्ते
मुह्यन्ति
शुचार्पिताः
34
▾
Meaning
Keep
काल
आत्माऽऽगमो
लोकः
स्वभावो
धर्म
एव
च
।
इति
मां
बहुधा
प्राहुर्गुणव्यतिकरे
सति
35
▾
Meaning
Keep
गुणेषु
वर्तमानोऽपि
देहजेष्वनपावृतः
।
गुणैर्न
बद्धयते
देही
बद्धयते
वा
कथं
विभो
36
▾
Meaning
Keep
कथं
वर्तेत
विहरेत्कैर्वा
ज्ञायेत
लक्षणैः
।
किं
भुञ्जीतोऽत
विसृजेच्छयीतासीत
याति
वा
37
▾
Meaning
Keep
एतदच्युत
मे
ब्रूहि
प्रश्नं
प्रश्नविदां
वर
।
नित्यमुक्तो
नित्यबद्ध
एक
एवेति
मे
भ्रमः
Previous
←
The Girl's Bangles and the Body as Teacher
Next
Two Birds in One Tree
→