Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Way of Enumeration
Śrīmad Bhāgavatam
›
Canto 11
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रीभगवानुवाच ।
अथ ते सम्प्रवक्ष्यामि सांख्यं पूर्वैर्विनिश्चितम् ।
यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम्
2
▾
Meaning
Keep
आसीज्ज्ञानमथो
ह्यर्थ
एकमेवाविकल्पितम्
।
यदा
विवेकनिपुणा
आदौ
कृतयुगेऽयुगे
3
▾
Meaning
Keep
तन्मायाफलरूपेण
केवलं
निर्विकल्पितम्
।
वाङ्मनोऽगोचरं
सत्यं
द्विधा
समभवद्
बृहत्
4
▾
Meaning
Keep
तयोरेकतरो
ह्यर्थः
प्रकृतिः
सोभयात्मिका
।
ज्ञानं
त्वन्यतमो
भावः
पुरुषः
सोऽभिधीयते
5
▾
Meaning
Keep
तमो
रजः
सत्त्वमिति
प्रकृतेरभवन्
गुणाः
।
मया
प्रक्षोभ्यमाणायाः
पुरुषानुमतेन
च
6
▾
Meaning
Keep
तेभ्यः
समभवत्
सूत्रं
महान्
सूत्रेण
संयुतः
।
ततो
विकुर्वतो
जातो
योऽहङ्कारो
विमोहनः
7
▾
Meaning
Keep
वैकारिकस्तैजसश्च
तामसश्चेत्यहं
त्रिवृत्
।
तन्मात्रेन्द्रियमनसां
कारणं
चिदचिन्मयः
8
▾
Meaning
Keep
अर्थस्तन्मात्रिकाज्जज्ञे
तामसादिन्द्रियाणि
च
।
तैजसाद्देवता
आसन्नेकादश
च
वैकृतात्
9
▾
Meaning
Keep
मया
सञ्चोदिता
भावाः
सर्वे
संहत्यकारिणः
।
अण्डमुत्पादयामासुर्ममायतनमुत्तमम्
10
▾
Meaning
Keep
तस्मिन्नहं
समभवमण्डे
सलिलसंस्थितौ
।
मम
नाभ्यामभूत्पद्मं
विश्वाख्यं
तत्र
चात्मभूः
11
▾
Meaning
Keep
सोऽसृजत्तपसा
युक्तो
रजसा
मदनुग्रहात्
।
लोकान्
सपालान्
विश्वात्मा
भूर्भुवःस्वरिति
त्रिधा
12
▾
Meaning
Keep
देवानामोक
आसीत्स्वर्भूतानां
च
भुवः
पदम्
।
मर्त्यादीनां
च
भूर्लोकः
सिद्धानां
त्रितयात्परम्
13
▾
Meaning
Keep
अधोऽसुराणां
नागानां
भूमेरोकोऽसृजत्प्रभुः
।
त्रिलोक्यां
गतयः
सर्वाः
कर्मणां
त्रिगुणात्मनाम्
14
▾
Meaning
Keep
योगस्य
तपसश्चैव
न्यासस्य
गतयोऽमलाः
।
महर्जनस्तपः
सत्यं
भक्तियोगस्य
मद्गतिः
15
▾
Meaning
Keep
मया
कालात्मना
धात्रा
कर्मयुक्तमिदं
जगत्
।
गुणप्रवाह
एतस्मिन्नुन्मज्जति
निमज्जति
16
▾
Meaning
Keep
अणुर्बृहत्कृशः
स्थूलो
यो
यो
भावः
प्रसिध्यति
।
सर्वोऽप्युभयसंयुक्तः
प्रकृत्या
पुरुषेण
च
17
▾
Meaning
Keep
यस्तु
यस्यादिरन्तश्च
स
वै
मध्यं
च
तस्य
सन्
।
विकारो
व्यवहारार्थो
यथा
तैजसपार्थिवाः
18
▾
Meaning
Keep
यदुपादाय
पूर्वस्तु
भावो
विकुरुतेऽपरम्
।
आदिरन्तो
यदा
यस्य
तत्सत्यमभिधीयते
19
▾
Meaning
Keep
प्रकृतिर्यस्योपादानमाधारः
पुरुषः
परः
।
सतोऽभिव्यञ्जकः
कालो
ब्रह्म
तत्त्रितयं
त्वहम्
20
▾
Meaning
Keep
सर्गः
प्रवर्तते
तावत्पौर्वापर्येण
नित्यशः
।
महान्
गुणविसर्गार्थः
स्थित्यन्तो
यावदीक्षणम्
21
▾
Meaning
Keep
विराण्मयाऽऽसाद्यमानो
लोककल्पविकल्पकः
।
पञ्चत्वाय
विशेषाय
कल्पते
भुवनैः
सह
22
▾
Meaning
Keep
अन्ने
प्रलीयते
मर्त्यमन्नं
धानासु
लीयते
।
धाना
भूमौ
प्रलीयन्ते
भूमिर्गन्धे
प्रलीयते
23
▾
Meaning
Keep
अप्सु
प्रलीयते
गन्ध
आपश्च
स्वगुणे
रसे
।
लीयते
ज्योतिषि
रसो
ज्योती
रूपे
प्रलीयते
24
▾
Meaning
Keep
रूपं
वायौ
स
च
स्पर्शे
लीयते
सोऽपि
चाम्बरे
।
अम्बरं
शब्दतन्मात्र
इन्द्रियाणि
स्वयोनिषु
25
▾
Meaning
Keep
योनिर्वैकारिके
सौम्य
लीयते
मनसीश्वरे
।
शब्दो
भूतादिमप्येति
भूतादिर्महति
प्रभुः
26
▾
Meaning
Keep
स
लीयते
महान्
स्वेषु
गुणेषु
गुणवत्तमः
।
तेऽव्यक्ते
सम्प्रलीयन्ते
तत्
काले
लीयतेऽव्यये
27
▾
Meaning
Keep
कालो
मायामये
जीवे
जीव
आत्मनि
मय्यजे
।
आत्मा
केवल
आत्मस्थो
विकल्पापायलक्षणः
28
▾
Meaning
Keep
एवमन्वीक्षमाणस्य
कथं
वैकल्पिको
भ्रमः
।
मनसो
हृदि
तिष्ठेत
व्योम्नीवार्कोदये
तमः
29
▾
Meaning
Keep
एष
सांख्यविधिः
प्रोक्तः
संशयग्रन्थिभेदनः
।
प्रतिलोमानुलोमाभ्यां
परावरदृशा
मया
Previous
←
The Song of the Mendicant
Next
Telling the Strands Apart
→